Class 9  >  संस्कृत कक्षा 9 (Sanskrit Class 9)  >  अनुवाद - स्वर्नकाक: | Chapter Explanation

अनुवाद - स्वर्नकाक: | Chapter Explanation - Notes | Study संस्कृत कक्षा 9 (Sanskrit Class 9) - Class 9

1 Crore+ students have signed up on EduRev. Have you?

1. पुरा कस्मिंश्चिद् ग्रामे एका निर्धना वृद्धा स्त्री न्यवसत्। तस्याः च एका दुहिता विनम्रा मनोहरा चासीत्। एकदा माता स्थाल्यां तण्डुलान् निक्षिप्य पुत्रीम् आदिशत्। “सूर्यातपे तण्डुलान् खगेभ्यो रक्षा” किञ्चित् कालादनन्तरम् एको विचित्रः काकः समुड्डीय तस्याः समीपम् अगच्छत्।

शब्दार्थाः –

पुरा – प्राचीन काल में
निक्षिप्त – रखकर
कस्मिंश्चिद् – किसी (में)
आदिदेश – आदेश दिया
निर्धना – ग़रीब,
सूर्यातपे – सूरज की धूप में
न्यवसत् – रहती थी
खगेभ्यः – पक्षियों से
दुहिता – पुत्री
किञ्चिद् – कुछ
विनम्रा – नम्र स्वभाव वाली
कालात् – समय से (के)
मनोहरा – सुंदर
अनन्तरम् – बाद में
एकदा – एक बार
समुड्डीय – उड़कर
स्थाल्याम् – थाली में
तण्डुलान् – चावलों को।

अर्थ –
प्राचीन समय में किसी गाँव में एक निर्धन (ग़रीब) बुढ़िया स्त्री रहती थी। उसकी एक नम्र स्वभाव वाली और सुंदर बेटी थी। एक बार माँ ने थाली में चावलों को रखकर पुत्री को आज्ञा दी – सूर्य की गर्मी में चावलों की पक्षियों से रक्षा करो। कुछ समय बाद एक विचित्र कौआ उड़कर वहाँ आया।

अव्ययानां वाक्येषु प्रयोगः – 
अव्ययः वाक्येषु प्रयोगः
पुरा – पुरा रामः अयोध्यायाः नृपः आसीत्।
च् – श्रीकृष्णः बलरामश्च च् भ्रातरौ आस्ताम्।
अनन्तरम् – स्नानात् अनन्तरं शरीराङ्गानि स्वच्छानि भवन्ति।

विशेषण – विशेष्य – चयनम् –
विशेषणम् – विशेष्यः
कस्मिंश्चित् – ग्रामे
एका, विनम्रा, मनोहरा – दुहिता
एका, निर्धना, वृद्धा – स्त्री
एकः, विचित्रः – काकः

2. नैतादृशः स्वर्णपक्षो रजतचञ्चुः स्वर्णकाकस्तया पूर्वं दृष्टः। तं तण्डुलान् खादन्तं हसन्तञ्च विलोक्य बालिका रोदितुमारब्धा। तं निवारयन्ती सा प्रार्थयत् “तण्डुलान् मा भक्षय। मदीया माता अतीव निर्धना वर्तते।” स्वर्णपक्षः काकः प्रोवाच, “मा शुचः। सूर्योदयात्प्राग् ग्रामाबहिः पिप्पलवृक्षमनु त्वया आगन्तव्यम्। अहं तुभ्यं तण्डुलमूल्यं दास्यामि।” प्रहर्षिता बालिका निद्रामपि न लेभे।

शब्दार्थाः –

एतादृशः – ऐसा (इस तरह का)
स्वर्णपक्षः – सोने, के पंख वाला
रजतचञ्चुः-चाँदी की चोंच वाला
पूर्वम् – पहले
खादन्तम् – खाते हुए को
प्रोवाच – बोला/बोली
हसन्तम् – हँसते हुए को
शुचः – शोक करो,
दितम् – रोना
प्राग – पहले
आरब्धा – शुरू कर दिया
पिप्पलक्षमन – पीपल के वृक्ष के, पीछे
निवारयन्ती – हटाती हुई
आगन्तव्यम् – आना
प्रार्थयत् – प्रार्थना की
तुभ्यम् – तुम्हें
भक्षय – खाओ
प्रहर्षिता – प्रसन्न
मदीया – मेरी
निद्राम् – नींद को
अतीव – बहुत अधिक
लेभे – ले पाई

अर्थ –
उसके द्वारा ऐसा सोने के पंखों वाला और चाँदी की चोंच वाला सोने का कौआ पहले नहीं देखा गया था। उसको चावलों को खाते और हँसते हुए देखकर लड़की ने रोना शुरू कर दिया। उसको हटाती हुई उसने प्रार्थना की-चावलों को मत खाओ। मेरी माँ बहुत गरीब है। सोने के पंख वाला कौआ बोला, शोक मत करो। सूर्योदय से पहले गाँव के बाहर पीपल के वृक्ष के पीछे तुम आना। मैं तुम्हें चावलों का मूल्य (कीमत) दे दूँगा। प्रसन्नता से भरी लड़की नींद भी नहीं ले पाई।

विशेषण – विशेष्य – चयनम् –
विशेषणम् – विशेष्यः
एतादृशः, स्वर्णपक्षः, रजतचञ्चुः – स्वर्णकाकः
निवारयन्ती – सा
स्वर्णपक्षः – काकः
खादन्तम्, हसन्तम् – तम्
मदीया, निर्धना – माता
प्रहर्षिता – बालिका

अव्ययानां वाक्येषु प्रयोगः –
पूर्वम् – सः बालकः पूर्वम् अत्र नागच्छत्।
विलोक्य – पितरम् विलोक्य पुत्रः प्रसन्नः अभवत्।
अतीव – अधुना अहम् अतीव श्रान्तः अस्मि।
मा – त्वं तत्र मा गच्छ।
बहिः – सः ग्रामात् बहिः निरगच्छत्।
अनु – विद्यालयम् अनु छात्राः तिष्ठन्ति।
अपि – ते अपि गुणिनः सन्ति।

3. सूर्योदयात्पूर्वमेव सा तत्रोपस्थिता। वृक्षस्योपरि विलोक्य सा च आश्चर्यचकिता सञ्जाता यत् तत्र स्वर्णमयः प्रासादो वर्तते। यदा काकः शयित्वा प्रबुद्धस्तदा तेन. स्वर्णगवाक्षात्कथितं “हंहो बाले! त्वमागता, तिष्ठ, अहं त्वत्कृते सोपानमवतारयामि, तत्कथय स्वर्णमयं रजतमयम् ताम्रमयं वा?” कन्या अवदत्”अहं निर्धनमातुः दुहिता अस्मि। ताम्रसोपानेनैव आगमिष्यामि।” परं स्वर्णसोपानेन सा स्वर्ण-भवनम् आरोहत।

शब्दार्थाः –

पूर्वमेव – पहले से ही
हहो – अरे/हे
उपस्थिता – उपस्थित थी
आगता – आ गई।
वृक्षस्योपरि – वृक्ष के ऊपर
त्वत्कते – तम्हारे लिए.
आश्चर्यचकिता – हैरान,
अवतारयामि – उतारता हूँ.
सजाता – हो गई.
उत – और
स्वर्णमयः – सोने से बना,
प्रावोचत् – बोली,
प्रासादः – महल,
मातः – माँ की,
वर्तते – है,
दुहिता – बेटी
शयित्वा – सोकर,
ताम्रसोपानेन – ताँबे की सीढ़ी से,
प्रबुद्धः – जागा,
स्वर्णभवनम् – सोने के महल में,
स्वर्णगवाक्षात् – सोने की खिड़की से
आससाद – पहुँची।

अर्थ –
सूर्योदय से पहले ही वह (लड़की) वहाँ पहुँच गई। वृक्ष के ऊपर देखकर वह आश्चर्यचकित हो गई कि वहाँ सोने का महल है। जब कौआ सोकर उठा तब उसने सोने की खिड़की से झाँककर कहा–अरे बालिका! तुम आ गई, ठहरो, मैं तुम्हारे लिए सीढ़ी को उतारता हूँ, तो कहो सोने की, चाँदी की अथवा ताँबे की, किसकी उतारूँ? कन्या बोली-मैं निर्धन (ग़रीब) माँ की बेटी हूँ। ताँबे की सीढ़ी से ही आऊँगी। परंतु सोने की सीढ़ी से वह स्वर्णभवन में पहुँची।

अव्ययानां वाक्येषु प्रयोगः –
पूर्वम् – खगाः सायं कालात् पूर्वमे व स्वनीडमागच्छन्ति
तत्र – सः तत्र गच्छति तत्र तस्य माता अस्ति।
उपरि – गृहस्य उपरि खगाः तिष्ठन्ति।
यत् – अहं कथयामि यत् त्वं तत्र तिष्ठ।
यदा – यदा श्रीकृष्णः उपदिशति।
तदा – तदा अर्जुनः युद्धम् अकरोत्।
वा – सुखे वा दु:खे वा सदैव शान्तः भवेत्।
एव – माता एव पुत्रस्य हितं करोति।
यद्यपि सः खञ्जोऽस्ति परम् अतीव तत्परो प्रतीयते।

विशेषण – विशेष्य – चयनम् –
विशेषणम् – विशेष्यः
आश्चर्यचकिता – सा
प्रबुद्धः – काकः
स्वर्णमयः – प्रासादः
स्वर्णमयम् – भवनम्

4. चिरकालं भवने चित्रविचित्रवस्तूनि सज्जितानि दृष्ट्वा सा विस्मयं गता। श्रान्तां तां विलोक्य काकः अवदत् “पूर्वं लघुप्रातराशः क्रियताम्-वद त्वं स्वर्णस्थाल्यां भोजनं करिष्यसि किं वा रजतस्थाल्याम् उत ताम्रस्थाल्याम्”? बालिका अवदत्-ताम्रस्थाल्याम् एव अहं-“निर्धना भोजनं करिष्यामि।” तदा सा आश्चर्यचकिता सजाता यदा स्वर्णकाकेन स्वर्णस्थाल्यां भोजनं पर्यवेषितम्। न एतादृशम् स्वादु भोजनमद्यावधि बालिका खादितवती। काकोऽवदत्-बालिके! अहमिच्छामि यत् त्वम् सर्वदा अत्रैव तिष्ठ परं तव माता तु एकाकिनी वर्तते। अतः “त्वं शीघ्रमेव स्वगृहं गच्छ।”

शब्दार्थाः –

चिरकालम – बहुत देर तक
स्वर्णस्थाल्याम – सोने की थाली में
सज्जितानि – सजी हुई
रजतस्थाल्याम् – चाँदी की थाली में
विस्मयम् – हैरानी को
उत – या/अथवा
गता – प्राप्त हुई
व्याजहार – बोली/बोला
श्रान्ताम् – थकी हुई को
निर्धना – ग़रीब
विलोक्य – देखकर
आश्चर्यचकिता – हैरान
प्राह – बोला
सज्जाता – हो गई
पूर्वम् – पहले
पर्यवेषितम – परोसा (दिया)
लघप्रातराश: – थोडा नाश्ता (जलपान)
एतादक – ऐसा
क्रियताम – करो
स्वादु – स्वादिष्ट
अद्यावधि – आजतक
सर्वदा – सदा (हमेशा)
खादितवती – खाई भी
अत्रैव (अत्र+एव) – यहीं
ब्रूते – बोला, एकाकिनी-अकेली।

अर्थ –
बहुत देर तक भवन में चित्रविचित्र (अनोखी) वस्तुओं को सजी हुई देखकर वह हैरान रह गई। उसको थकी हुई देखकर कौआ बोला-पहले थोड़ा नाश्ता करो-बोलो तुम सोने की थाली में भोजन करोगी या चाँदी की थाली में या ताँबे की थाली में? लड़की बोली-ताँबे की थाली में ही मैं ग़रीब भोजन करूँगी (खाना खाऊँगी)। तब वह कन्या और आश्चर्यचकित हो गई जब सोने के कौवे ने सोने की थाली में (उसे) भोजन परोसा। ऐसा स्वादिष्ट भोजन आज तक उस लड़की ने नहीं खाया था। कौआ बोला-हे बालिका (लडकी)! मैं चाहता हूँ कि तुम हमेशा यहीं रहो परंतु तुम्हारी माँ अकेली है। तुम जल्दी ही अपने घर को जाओ।

अव्ययानां वाक्येषु प्रयोगः –
पूर्वम् – ग्रामात् पूर्वम् जलाशयः विद्यते।
वा – बाल:भवेत् बालिका वा, सम्पूर्ण स्नेहं कुर्यात्।
एव – एव मम भागिनी वर्तते।
यदा-तदा – यदा बालः गृहं गमिष्यति तदा भोजनं खादिष्यति।
अद्यावधि – रामम् इव अद्यावधि कश्चिदपि न अभवत्।
च – भ्राता भगिनी च विद्यालयं गच्छतः।
अत्र – अत्र मम जन्मस्थानम् अस्ति।
शीघ्रम् – अधुना अहं विद्यालयं शीघ्रं गच्छामि।

विशेषण – विशेष्य – चयनम् –
विशेषणम् – विशेष्यः
सज्जितानि – चित्रविचित्रवस्तूनि
निर्धना – अहम्
एतादृक् स्वादु – भोजनाम
श्रान्ताम् – ताम्
सा, आश्चर्यचकिता – कन्या
एकाकिनी – माता

5. इत्युक्त्वा काकः कक्षाभ्यन्तरात् तिस्त्रः मञ्जूषाः निस्सार्य तां प्रत्यवदत्-“बालिके! यथेच्छं गृहाण मञ्जूषामेकाम्।” लघुतमा मञ्जूषां प्रगृह्य बालिकया कथितम् इयत् एव मदीयतण्डुलानां मूल्यम्। गृहमागत्य तया मञ्जूषा समुद्घाटिता, तस्यां महार्हाणि हीरकाणि विलोक्य सा प्रहर्षिता तद्दिनाद्धनिका च सञ्जाता।

शब्दार्था: –

इत्युक्त्वा – ऐसा कहकर के
कक्षाभ्यन्तरात् – कमरे के अंदर से
मञ्जूषा: – बक्से
निस्सार्य – निकालकर
प्रत्यवदत् – बोला
यथेच्छम् – इच्छापूर्वक (इच्छा के अनुसार)
लघुतमाम् – सबसे छोटी (को)
प्रगृह्य – लेकर
इयदेव – इतना ही
मदीय – मेरे
समुद्घाटिता – खोला (खोला गया)
महार्हाणि – महँगे (बहुमूल्य)
प्रहर्षिता – प्रसन्न हो गई
तद्दिनात् – उसी दिन से
सञ्जाता – हो गई।

अर्थ –
ऐसा कहकर कौए ने कमरे के अंदर से तीन बक्से निकालकर उसको कहा- हे कन्या! अपनी इच्छा से एक संदूक ले लो। सबसे छोटी संदूक को लेकर लड़की ने कहा-यही मेरे चावलों की कीमत है। घर आकर उसने संदूक को खोला, उसमें बहुत कीमती (मूल्यवान) हीरों को देखकर वह बहुत खुश हुई और उसी दिन से वह धनी हो गई।

अव्ययानां वाक्येष प्रयोग –
अव्ययः – वाक्येषु प्रयोगः
इति –  इति कथयित्वा छात्रः विद्यालयम् अगच्छत्।
एव – त्वम् एव मम बन्धुः वर्तते।
च – रामः श्यामः च मित्रे स्तः।

विशेषण-विशेष्य चयनम –
तिस्त्रः – मञ्जूषाः
इयत्मू – ल्यम्
प्रहर्षिता, धनिका – सा
एकाम् – मञ्जूषाम्
महार्हाणि – हीरकाणि

6. तस्मिन्नेव ग्रामे एका परा लुब्धा वृद्धा न्यवसत्। तस्या अपि एका पुत्री आसीत्। ईर्ण्यया सा तस्य स्वर्णकाकस्य रहस्यम् ज्ञातवती। सूर्यातपे तण्डुलान् निक्षिप्य तयापि स्वसुता रक्षार्थं नियुक्ता। तथैव स्वर्णपक्षः काकः तण्डुलान् भक्षयन् तामपि तत्रैवाकारयत्। प्रातस्तत्र गत्वा सा काकं निर्भर्त्सयन्ती प्रावोचत्-“भो नीचकाक! अहमागता, मह्यं तण्डुलमूल्यं प्रयच्छ।” काकोऽब्रवीत्-“अहं त्वत्कृते सोपानम् अवतारयामि। तत्कथय स्वर्णमयं रजतमयं ताम्रमयं वा।” गर्वितया बालिकया प्रोक्तम्- “स्वर्णमयेन सोपानेन अहम् आगच्छामि।” परं स्वर्णकाकस्तत्कृते ताम्रमयं सोपानमेव प्रायच्छत्। स्वर्णकाकस्तां भोजनमपि ताम्रभाजने एव अकारयत्।

शब्दार्था: –

तस्मिन्नेव – उसी
निर्भर्त्सयन्ती – बुरा-भला कहती हुई
अपरा – दूसरी
प्रावोचत् – बोला
न्यवसत् – रहती थी
आगता – आ गई
रहस्यम् – गुप्त बात को
मह्यम् – मुझे
अभिज्ञातवती – जान गई
त्वत्कृते – तुम्हारे लिए
सूर्यातपे – सूर्य की धूप में
सोपानम् – सीढ़ी को
निक्षिप्य – रखकर/फैलाकर
अवतारयामि – उतारता हूँ
स्वसुता – अपनी पुत्री
तत्कथय – तो कहो
रक्षार्थम् – रखवाली के लिए
गर्वितया – घमंडी
नियुक्ता – बिठा दी
प्रोक्तम् – कहा गया/ कहा
तथैव – वैसे ही
तत्कृते – उसके लिए
भक्षयन् – खाते हुए
प्रायच्छत् – दिया
तत्रैव – वहीं
ताम्रभाजने – ताँबे के पात्र में
आवारयत् – बुलाया,
अकारयत् – कराया।

अर्थ –
उसी गाँव में एक दूसरी लालची बुढ़िया स्त्री रहती थी। उसकी भी एक बेटी थी। ईर्ष्या से उसने उस सोने के कौए का रहस्य जान लिया। सूर्य की धूप में चावलों को रखकर (फैलाकर) उसने भी अपनी बेटी को उसकी रक्षा के लिए बिठा (नियुक्त कर) दिया। वैसे ही सोने के पंख वाले कौए ने चावलों को खाते हुए उसको (लड़की को) भी या। सबह वहाँ जाकर वह कौए को बरा-भला कहती हई बोली- हे नीच कौए! मैं आ गई हूँ, मुझे चावलों का मल्य दो। कौआ बोला- मैं तुम्हारे लिए सीढी उतारता हूँ। तो कहो सोने से बनी हुई, चाँदी से बनी हुई अथवा ताँबे से बनी हुई। घमंडी लड़की बोली- सोने से बनी हुई सीढ़ी से मैं आती हूँ परंतु सोने के कौए ने उसे ताँबे से बनी हुई सीढ़ी ही दी। सोने के कौए ने उसे भोजन भी ताँबे के बर्तन में कराया।

अव्ययानां वाक्येषु प्रयोगः –
एव – एषः एव मम भ्राता अस्ति।
अपि – त्वम् अपि स्वकथां श्रावय!
तथैव – बालकः अपि तथैव करोति यथा तस्य पिता करोति।
तत्रैव – रामः तत्रैव तिष्ठति यत्र तस्य गुरुः आदिशत्
तत्र – त्वमपि तत्र गच्छ!
हि – त्वं हि नः पिता वर्तसे।

विशेषण – विशेष्य – चयनम् –
विशेषणम् – विशेष्य
तस्मिन् – ग्रामे
एका – पुत्री
निर्भर्त्सयन्ती – सा
गर्वितया – बालिकया
एका, अपरा, लुब्धा – वृद्धा
स्वर्णपक्षः – काक:
स्वर्णमयम्/ताम्रमयम् /रजतमयम् – सोपानम्
स्वर्णमयेन – सोपानेन

7. प्रतिनिवृत्तिकाले स्वर्णकाकेन कक्षाभ्यन्तरात् तिम्रः मञ्जूषाः तत्पुरः समुत्क्षिप्ताः। लोभाविष्टा सा बृहत्तमा मञ्जूषां गृहीतवती। गृहमागत्य सा तर्षिता यावद् मञ्जूषामुद्घाटयति तावत् तस्यां भीषणः कृष्णसर्पो विलोकितः। लुब्धया बालिकया लोभस्य फलं प्राप्तम्। तदनन्तरं सा लोभं पर्यत्यजत्।

शब्दार्थाः –

प्रतिनिवृत्तिकाले – वापस जाते समय
लोभाविष्टा – लालची
कक्षाभ्यन्तरात् – कमरे के अंदर से
बृहत्तमाम् – सबसे बड़ी
तिस्त्रः – तीन
गृहीतवती – ले ली
मञ्जूषाः – संदूकें (पेटियाँ),
तर्षिता – व्याकुल
तत्पुरः – उसके सामने
उद्घाटितवती – खोला/खोली
समुत्क्षिप्ताः – रख दी
भीषण:- भयानक
कृष्णसर्पः – काला साँप
विलोकितः – देखा
लुब्धया – लालची
प्राप्तम् – प्राप्त किया गया
पर्यत्यजत् – छोड़ दिया।

अर्थ –
वापस होते समय सोने के कौए ने कमरे के अंदर से तीन पेटियाँ (संदूकें) उसके सामने रख दीं। लालची लड़की ने सबसे बड़ी पेटी ले ली। घर आकर व्याकुल वह जब संदूक खोलती है तो उसमें अचानक काला साँप देखा। लालची लड़की ने लालच का फल पाया। उसके बाद उसने लालच छोड़ दी।

अव्ययानां वाक्येषु प्रयोगः –
अव्ययः – वाक्येषु प्रयोगः
तत्पुरः – रामः बालकं दृष्ट्वा तत्पुरः भोजनम् कृतवान्।
यावद् – यावद् सः पठिष्यति।
तावत् – तावत् तस्य जीवनम् उन्नति करिष्यति।
अनन्तरम् – पठनात् अनन्तरं सः अधिकारी अभवत्।

विशेषण – विशेष्य – चयनम् –
विशेषणम् – विशेष्यः
तिस्रः – मज्जूषाः
बृहत्तमाम् – मञ्जूषाम्
भीषणः – कृष्णसर्पः
लोभाविष्टा – सा
तर्षिता – सा
लुब्धया – बालिकया

The document अनुवाद - स्वर्नकाक: | Chapter Explanation - Notes | Study संस्कृत कक्षा 9 (Sanskrit Class 9) - Class 9 is a part of the Class 9 Course संस्कृत कक्षा 9 (Sanskrit Class 9).
All you need of Class 9 at this link: Class 9
20 videos|54 docs|20 tests
Download as PDF

Download free EduRev App

Track your progress, build streaks, highlight & save important lessons and more!

Related Searches

Important questions

,

अनुवाद - स्वर्नकाक: | Chapter Explanation - Notes | Study संस्कृत कक्षा 9 (Sanskrit Class 9) - Class 9

,

Semester Notes

,

Summary

,

practice quizzes

,

Previous Year Questions with Solutions

,

ppt

,

Sample Paper

,

Objective type Questions

,

Exam

,

Free

,

अनुवाद - स्वर्नकाक: | Chapter Explanation - Notes | Study संस्कृत कक्षा 9 (Sanskrit Class 9) - Class 9

,

Extra Questions

,

अनुवाद - स्वर्नकाक: | Chapter Explanation - Notes | Study संस्कृत कक्षा 9 (Sanskrit Class 9) - Class 9

,

mock tests for examination

,

past year papers

,

pdf

,

study material

,

video lectures

,

MCQs

,

shortcuts and tricks

,

Viva Questions

;