1. अधोदत्तम् प्रत्येकंअनुच्छेदं पठत प्रश्नान् च उत्तरत– (नीचे दिए गए प्रत्येक अनुच्छेद को पढि़ए और प्रश्नों के उत्तर दीजिए–)
ग्रीष्मकाल: सुखदस्य वसन्तकालस्य पश्चात् आगच्छति। ग्रीष्मकाले सूर्यस्य आतप: प्रखर: वर्तते। मानवा: पशु-पक्षिण: वृक्षा:, पादपा: चापि प्रखर-तापेन व्याकुला: भवन्ति। केचित् जना: विहाराय पर्वतस्थलेषु गच्छन्ति, केचित् गृहे वातानुकूलितेषु कक्षेषु तिष्ठन्ति। नद्य:, सरोवरा:, तडागा: च शुष्यन्ति। सर्वत्र जलस्य अभाव: दृश्यते। परं यदि ग्रीष्म-कालस्य प्रचण्ड: ताप: न स्यात् तर्हि मेघा: कथं भविष्यन्ति। मेघान् विना कुत: वृष्टि:? ग्रीष्मकालस्य प्रभावात् एव वर्षा-ऋतु: आगच्छति। ग्रीष्मकाले गुलमोहर-वृक्षेषु रक्तानि पुष्पाणि अतीव शोभन्ते। मल्लिका-मालती-पादपेषु सुगन्धमयानि श्वेतानि पुष्पाणि विकसन्ति।
I.
एकपदेन उत्तरत–(एक पद में उत्तर दीजिए–)
1. ग्रीष्मकाल: कस्य कालस्य पश्चात् आगच्छति?
2. जना: किमर्थं पर्वतस्थलेषु गच्छन्ति?
3. ग्रीष्मकाले कस्य अभाव: दृश्यते?
4. ग्रीष्मकाले केषु वृक्षेषु रक्तानि पुष्पाणि आगच्छन्ति?
उत्तरम् -
1. वसन्तकालस्य
2. विहाराय
3. जलस्य
4. गुलमोहरवृक्षेषु
II.
पूर्णवाक्येन उत्तरत–(एक वाक्य में उत्तर दीजिए–)
श्वेतानि पुष्पाणि कुत्र विकसन्ति?
उत्तरम् -
मल्लिका-मालती-पादपेषु सुगन्ध्मयानि श्वेतानि पुष्पाणि विकसन्ति।
III. यथानिर्देशम् उत्तराणि लिखत–(निर्देशानुसार उत्तर दीजिए–)
1. स्यात् = .............. धातु: .............. लकार: .............. पुरुष: .............. वचनम्
2. विहाराय = .............. विभक्ति: .............. वचनम्
उत्तरम् -
1. अस्, विडिलिंदड, प्रथमः एकवचनम्।
2. चतुर्थी, एकवचनम्।
IV. समानार्थकम् पदम् चित्वा लिखत–
(क) प्रचण्ड: = .........................
(ख) विलोमपदम् लिखत—शैत्यम् = ........................
उत्तरम् -
(क) प्रखरः (ख) तापः
2. भारतवर्ष: कृषिप्रधान-देश:। अत्र अनेके जना: ग्रामेषु निवसन्ति। कृषका: कृषि-कार्यं कुर्वन्ति अन्नानि च उत्पादयन्ति। अन्नं विना कुत: जीवनम्? कृषिकार्यं विना च कथम् अन्नानाम् उत्पादनम् भवेत्? अत: ग्रामाणां कृषकाणां च महत्त्वम्। केचित् ग्रामीणा: स्वे-स्वे गृहे स्थित्वा कार्याणि कुर्वन्ति। यथा लौहकारा: लौहकार्यम् कुर्वन्ति, कुम्भकारा: घटान् रचयन्ति, तक्षका: काष्ठेन मञ्चकान्, फलकान् आसन्दिका: च रचयन्ति। अनेकेषु ग्रामेषु विद्युत्-सुविधा न अस्ति। जलानाम् अभावे कृषि: अपि इष्टम् फलं न ददाति। वस्तुत: ग्राम्य-जीवनम् अति कठिनम्। परम् ग्रामीणा: अल्पेन एव सन्तुष्टा: भवन्ति।
I. एकपदेन उत्तरत–(एक पद में उत्तर दीजिए–)
1. भारतवर्ष: कीदृश: देश:?
2. के अन्नानि उत्पादयन्ति?
3. क: घटान् रचयति?
4. जलाभावे का इष्ट-फलं न ददाति?
उत्तरम् -
1. कृषिप्रधनः
2. कृषकाः
3. कुम्भकारः
4. कृषि
II. पूर्णवाक्येन उत्तरत–(पूर्ण वाक्य में उत्तर दीजिए–)
तक्षका: किं कुर्वन्ति?
उत्तरम् -
तक्षकाः काष्ठेन मञ्चकान्, पफलकान्, आसन्दिकाः च रचयन्ति।
III. निर्देशानुसारं रिक्तस्थानानि पूरयत–(निर्देशानुसार रिक्त स्थान भरिए–)
1. भवेत् = .............. धातु: .............. लकार: .............. पुरुष: .............. वचनम्
2. कार्याणि = .............. विभक्ति: .............. वचनम्
उत्तरम् -
1. भू, विध्लििघ्, प्रथमः एकवचनम्।
2. द्वितीया (कर्मकारकद्ध, बहुवचनम्।
IV.
(क) अन्नं विना—अत्र विना योगे का विभक्ति: प्रयुक्ता?
(ख) समानार्थकं पदं चित्वा लिखत—यच्छति = ..........................................
(ग) जलानाम् अभावे कृषिः अपि इष्टं पफलं न ददाति’ इति वाक्ये
(i) कर्तृपदम् किम्? —————
1. जलानाम् 2. कृषिः 3. इष्टम्
(ii) कर्मपदम् किम्? —————
1. अपि 2. इष्टम् 3. पफलम्
उत्तरम् -
(क) द्वितीया
(ख) ददाति।
(ग) (i) कृषिः (ii) पफलम्
3. रामायणम् महाभारतम् च द्वे महाकाव्ये संस्कृत-साहित्यस्य। एतौ ग्रन्थौ भारतीय-संस्कृते: आधार-स्तम्भौ। आदिकाव्यं रामायणम् ऋषे: वाल्मीके: रचना अस्ति। इदम् काव्यम् अष्टेषु अध्यायेषु वर्तते। ऋषि: वाल्मीकि: आदिकवि: कथ्यते। महाभारतस्य रचयिता ऋषि: वेदव्यास:। महाभारतं नाम महाकाव्यम् विश्व-कोष: इति कथ्यते। ‘यत् इह अस्ति न तत् अन्यत्र’ इति मन्यते। अयं ग्रन्थ: शतसहस्र-श्लोकेषु निबद्ध:। विश्व-प्रसिद्धा श्रीमद्भगवद्गीता अस्य महाकाव्यस्य अंश: अस्ति। गीतायाम् श्रीकृष्ण: अर्जुनाय उपदिशति—‘कत्र्तव्य-भावेन स्वकत्र्तव्यं कुरु, कर्म-फलस्य आशाम् मा कुरु’। एष: उपदेश: जनानां हितकर:।
I. एकपदेन उत्तरत।
1. रामायणं कस्य रचना?
2. ऋषि: वेदव्यास: कस्य रचयिता?
3. क: आदिकवि: कथ्यते?
4. किं नाम महाकाव्यं विश्वकोष: कथ्यते?
उत्तरम् -
1. ऋषि: वाल्मीकेः
2. महाभारतस्य
3. ऋषि: वाल्मीकिः
4. महाभारतम्
II. एकवाक्येन उत्तरत।
श्रीकृष्ण: अर्जुनाय किम् उपदिशति?
उत्तरम् -
श्रीकृष्णः अर्जुनाय उपदिशति - कत्र्तव्यभावेन स्वकत्र्तव्यं कुरु। कर्मपफलस्य आशां मा कुरु इति।
III.
(क) एष: उपदेश:—अत्र किं विशेषणम्?
(ख) यथानिर्देशम् उत्तरत।
1. कुरु = ......... धातु: ......... लकार: ......... पुरुष: ......... वचनम्।
2. ऋषे: = ......... विभक्ति: ......... वचनम्।
(ग) बहुवचनम् लिखत।
1. कुरु (ए०व०) ................ बहुवचनम्
2. स्वकत्र्तव्यम् (ए०व०) ............... बहुवचनम्
(घ) पर्यायम् लिखत।
1. रचित:—
2. लेखक:—
उत्तरम् -
(क) एषः
(ख) 1. कृ, लोट्, मध्यमः, एक. 2. षष्ठी एक
(ग) 1. करुत 2. स्वकत्र्तव्याणि
(घ) 1. निबद्ध 2. रचयिता
IV
‘गीतायाम् श्रीकृष्णः अर्जुनाय उपदिशति’ इति वाक्ये कर्तृपदम् किम्? —————
(गीतायाम्, श्रीकृष्णः, अर्जुनाय)
उत्तरम् -
श्रीकृष्णः
4. नदी-तीरे अस्ति एक: वट-वृक्ष:। एक: अल्पज्ञ: बालक: तस्य छायायाम् उपविष्ट:। पश्यति-एकस्याम् लतायाम् विशालानि कालिन्द-फलानि सन्ति। स: चिन्तयति-अहो विचित्रम्! सुकोमलायाम् लतायाम् दीर्घानि फलानि, विशाले वट-वृक्षे च लघूनि पुष्पाणि सन्ति। नूनम् एव ईश्वर: मन्दमति: मूर्ख: च। एवम् चिन्तयन् स: वृक्षस्य अध: तिष्ठति स्म। तदैव एकम् सुकोमलम् पुष्पम् तस्य शिरसि पतति। स: विचारयति—यदि एतस्मिन् वृक्षे विशालम् फलम् स्यात् तर्हि अद्य मे शीर्षम् भग्नम् भवेत्। सौभाग्येन अहम् सकुशल: अस्मि। ईश्वर: यत् करोति शोभनं करोति। ननु मूर्ख: अहम्, न तु ईश्वर:।
I. एकपदेन उत्तरत।
1. वटवृक्ष: कुत्र अस्ति?
2. विशालानि फलानि कस्याम् सन्ति?
3. वटवृक्षे कीदृशानि पुष्पाणि?
4. बालक: कीदृश: अस्ति?
उत्तरम् -
1. नदीतीरे
2. लतायाम्
3. लघूनि
4. अल्पज्ञः
II. एकवाक्येन उत्तरत–
अन्तत: बालकस्य ईश्वरविषये किं मतम्?
उत्तरम् -
अन्ततः बालकस्य ईश्वरविषये इदं मतम् ‘ईश्वरः यत् करोति शोभनं करोति’।
III. यथानिर्देशम् उत्तरत।
(क) ‘दीर्घानि फलानि’—अत्र किं विशेषणम्?
(ख) 1. भवेत् = ............. धातु: ............. लकार: ............. पुरुष: ............. वचनम्
2. लतायाम् = ............. विभक्ति: .............. वचनम्
3. तदा + एव = ...........................................
(ग) बहुवचने परिवत्र्य लिखत–
1. विशालम् फलम् = ........................................................
2. एतस्मिन् वृक्षे = ........................................................
3. अहम् मूर्ख: = ........................................................
उत्तरम् -
(क)
दीर्घानि
(ख)
1. भू, विधिलिड् प्रथमः, एक
2. सप्तमी एक
3. तदैव
(ग)
1. विशालानि पफलानि
2. एतेषु वृक्षेषु
3. वयम् मूर्खाः
IV.
‘नदीतीरे अस्ति एकः वट-वृक्षः इति वाक्ये ‘अस्ति’ क्रियापदस्य कत्र्ता कः?
(i) नदीतीरे (ii) एकः (iii) वटवृक्षः
उत्तरम् -
वटवृक्षः
5. व्याघ्र: अस्माकं राष्ट्र-पशु:। अतीव मनोहर: अयम्। अस्य शरीरे पीतकृष्ण वर्णा: पंक्तय: नितरां शोभन्ते। कदाचित् अयं सघनेषु वनेषु निर्भयं विहरति स्म। हन्त! साम्प्रतम् व्याघ्राणां संख्या अत्यल्पा जाता। व्याघ्र-जातिं सर्वनाशात् रक्षितुं वन-पर्यावरण-मन्त्रालय: अनेकान् उपायान् करोति( परं सर्वे प्रयत्ना: निष्फला: भवन्ति। कारणं किम्? केषाञ्चित् धूर्तानां लोभ: अथ वा वनानां छेदनम्। अस्माकं वन-सम्पत्ति: रक्षितव्या, देशस्य राष्ट्रपशु: चापि रक्षणीय:।
‘प्रयोजना-व्याघ्र:’ (Project Tiger) सफल: भवेत्। अन्यथा भविष्यत्-काले वयं पुस्तकेषु अस्य चित्रमेव द्रक्ष्याम:।
I. एकपदेन उत्तरत।
1. अस्माकं राष्ट्रपशु: क:?
2. व्याघ्रं रक्षितुं क: उपायान् करोति?
3. केषां संख्या अत्यल्पा जाता?
4. अस्माकं का रक्षितव्या?
उत्तरम् -
1. व्याघ्रः
2. वन-पर्यावरण-मन्त्रालयः
3. व्याघ्राणाम्
4. वन-सम्पदा
II. पूर्णवाक्येन उत्तरत–
वन-पर्यावरण-मन्त्रालय: किमर्थम् उपायं करोति?
उत्तरम् -
वन-पर्यावरण-मन्त्रालयः व्याध्र जाति सर्वनाशात् रक्षितुम् अनेकान् उपायान् करोति।
III. यथानिर्देशम् उत्तरत।
1.
‘कदाचित् अयं सघनेषु वनेषु निर्भयं विहरति स्म।’ इति वाक्ये—
(i) किं विशेषणपदम्? ............................
(ii) किम् अव्ययम् ............................
(iii) ‘अयं’ स्थाने संज्ञापदं प्रयोज्य वाक्यं पुनः लिखत। ............................
उत्तरम् -
(i) सघनेषु (ii) कदाचित् (iii) कदाचित् व्याघ्रः सघनेषु वनेलु निर्भयं विहरतिस्म।
2. विपर्यायम् लिखत।
(i) सपफलाः ............................
(ii) अत्यध्किा ............................
उत्तरम् -
(i) निपफलाः (ii) अत्यल्पा।
3.
(i) ‘द्रक्ष्यामः’ - अत्रकः धतुः? ............................
(ii) ‘सर्वे’ - अत्रका विभक्तिः? ............................
(iii) ‘रक्षितुम्’ - अत्रकः प्रत्ययः? ............................
उत्तरम् -
(i) दृश् (ii) प्रथमा बहुवचनम् (iii) तुमुन् प्रत्ययः।
4.
(i) चित्रमेत्र = ————— + —————
(चित्राम् + एवऋ चित्राम् + ऐव, चित्राम् + एव)
(ii) चापि = ————— + —————
(चा + पि, च + आपि, च + अपि)
उत्तरम् -
(i) चित्राम् + एव
(ii) च + अपि
6. हिमालयः भारतस्य उत्तरस्यां दिशायाम् स्थितः। एषः हि संसारस्य उन्नततमः पर्वतः। माऊँट-ऐवरेस्ट इति हिमालस्य उन्नततमम् शिखरम्। इदम् शिखरम् नेपालदेशे स्थितम्। अनेकोः नद्यः हिमालयात् निर्गच्छन्ति देशस्य विशालं भूभागं च सिञ्चन्ति। अयं गिरिः अनेवेफषां वनस्पतीनाम् अपि आलयः। अत्रअनेकाः ओषध्यः जायन्ते। हिमालयस्य कानिचित् शिखराणि सर्वं वर्षं हिमेन आच्छादितनि। पर्यटकाः अत्र
हिमक्रीडानाम् आनन्दम् अनुभवितुम् आगच्छन्ति। अयं हि पर्वतानां राजा।
I. एकपदेन उत्तरत।
1. कः पर्वतानां राजा? —————
2. हिमालयः भारतस्य कस्यां दिशायां स्थितः? —————
3. हिमालयस्य उन्नततमम् शिखरम् किम् —————
4. अत्र अनेकाः काः जायन्ते? —————
उत्तरम् -
1. हिमालयः
2. उत्तरस्याम्
3. माऊँट-ऐवरेस्ट्
4. ओषध्यः
II. पूर्णवाक्येन उत्तरत।
1. कानि सर्र्वं वर्यं हिमेन आच्छादितानि?..............................
2. पर्यटकाः अत्रकिमर्थम् आगच्छन्ति?.................................
उत्तरम् -
1. हिमालस्य कानिचित् शिखराणि सर्वं वर्षं हिमेन आच्छादितानि।
2. पर्यटकाः अत्रहिमक्रीडानाम् आनन्दम् अनुभवितुम आगच्छन्ति।
III. भाषिककार्यम् - यथानिर्देशम् उत्तरत -
(क)
1. ‘अत्र अनेकाः ओषध्यः जायन्ते इति वाक्ये ‘जायन्ते’ क्रियापदस्य कत्र्ता कः?————— (अत्रा, ओषध्यः, अनेकाः)
2. अस्म्नि वाक्ये किम् अव्ययपदम् प्रयुक्तम्?—————
3. अत्रकिम् विशेषणम्? —————
4. ————— (ए. व.) ————— (द्वि. व.) ओषध्यः (ब. व.)
उत्तरम् -
1. ओषध्यः
2. अत्र
3. अनेकाः
4. ओषधि: ओषधी ———
(ख) ‘अनेकाः नद्यः हिमालयात् निर्गछन्ति’ इति वाक्ये -
(i) हिमालयात् = ————— विभक्तिः ————— वचनम्
(ii) निर्गच्छन्ति = ————— उपसर्ग ————— धतुः (सप्तमी एकवचनम्, प्रथमा द्विवचनम्, प्रथमा बहुवचनम्)
(iii) ————— (ए.व.) ————— (द्वि. व.) नद्यः (ब. व.)
उत्तरम् -
1. पञ्चमी एकवचनम्
2. निः गम्
3. नदी, नद्यौ
(ग) पर्यायम् लिखत।
(i) पर्वतः = ————— (ii) गृहम् = —————
विपर्यायम् लिखत।
(i) लघुम् = ————— (ii) दक्षिणस्याम् = —————
उत्तरम् -
1. (i) गिरिः (ii) आलयः
2. (i) विशालम् (ii) उत्तरस्याम्।
7. प्रातः काल अति सुखकरः भवति। खगाः मधुरं कूजन्ति। उद्यानेषु पुष्पाणि विकसन्ति। पवनः सुगन्धः शुद्ध च अस्ति। जनाः भ्रमणाय व्यायामाय वा गच्छन्ति। यदा पूर्वस्यां दिशायाम् सूर्यः उदयं गच्छति तदा क्षितिजस्य शोभा दर्शनीया भवति। एतत् मनोहरं दृश्यम् दृष्ट्वा चित्तम् प्रसन्नम् भवति। प्रातः सर्वे जनाः स्व-स्व-कार्यम् उल्लासेन कर्वन्ति। परम् अलसाः सुप्ताः सन्ति। छात्राः प्रसन्नमुखेन विद्यालयम् पठनाय गच्छन्ति। सर्वे नवजीवनम् अनुभवन्ति।
I. एकपदेन उत्तरम् -
1. प्रातःकाल कीदृशः भवति?
2. के मधुरं कुजन्ति?
3. जनाः किमर्थम् गच्छन्ति?
4. सर्वे किम् अनुभवन्ति?
उत्तरम् - 1. सुखकरः, 2. खगाः, 3. भ्रमणाय/व्यायामाय, 4. नवजीवनम्
II. एकवाक्येन उत्तरम्-
छात्राः प्रातः किम् कुर्वन्ति?
उत्तरम् - छात्राः प्रातः विद्यालयम् पठनाय गच्छन्ति।
III.
(क) ‘पूर्वस्यांदिशायाम्’ - अत्रा किम् विशेषणपदम्?.........
उत्तरम् - पूर्वस्यां
(ख) यथानिर्देशम् उत्तरत-
(i) कुर्वन्ति = अनु + ............ धतु ............ लकारः ............ पुरुषः ............ वचनम्
(ii) दृष्ट्वा = ............ धतु ............ प्रत्ययः
(iii) पठनाय = ............ विभक्तिः ............ वचनम्
(iv) नवजीवनम् = ............ विभक्तिः ............ वचनम्
उत्तरम् -
1. कृ धतु, लट् लकार, प्रथम पुरुषः
2. दृश् धतुः, तुमुन्प्रत्ययः,
3. चतुर्थी विभक्तिः एकवचनम्
4. द्वितीया विभक्तिः एकवचनम्
(ग) विलोमपदं लिखत -
(i) पश्चिमायाम् =
(ii)अस्तं गच्छति =
उत्तरम् -
(i) पूर्वस्याम्
(ii) उदयं गच्छति
(घ) समानार्थवंफ पदम् लिखत-
(i) सुन्दरम् =
(ii)रविः =
उत्तरम् -
(i) मनोहरं
(ii) सूर्यः
(ड़) एकवचने परिवर्त्य वाक्यं पुनः लिखत-
(i) उद्यानेषु पुष्पाणि विकसन्ति।
(ii)खगाः मधुरं कुजन्ति।
उत्तरम् -
(i) उद्याने पुष्पं विकसति।
(ii) खगः मधुरं कूजति |
14 videos|80 docs|27 tests
|
1. आनुप्रयुक्त-व्याकरणमा के के आधारहरू समावेश छन्? |
2. आनुप्रयुक्त-व्याकरणले के के परिणामहरू प्राप्त गर्न सक्छ? |
3. आनुप्रयुक्त-व्याकरणमा ध्वनि कसरी परिभाषित गरिएको छ? |
4. आनुप्रयुक्त-व्याकरणमा कसरी समास परिभाषित गरिएको छ? |
5. आनुप्रयुक्त-व्याकरणमा क्रिया कसरी परिभाषित गरिएको छ? |
|
Explore Courses for Class 8 exam
|