1 Crore+ students have signed up on EduRev. Have you? |
प्रश्न.1. एकपदेन उत्तरं लिखत –
(क) जीमूतवाहनः कस्य पुत्रः अस्ति?
(ख) संसारेऽस्मिन् कः अनश्वरः भवति?
(ग) जीमूतवाहनः परोपकारैकफलसिद्धये कम् आराधयति?
(घ) जीमूतवाहनस्य सर्वभूतानुकम्पया सर्वत्र किं प्रथितम्?
(ङ) कल्पतरुः भुवि कानि अवर्ष?
उत्तरम्-
(क) जीमूतवाहनस्य
(ख) परोपकारः
(ग) कल्पपादपम्
(घ) यशः
(ङ) वसूनि
प्रश्न.2. अधोलिखितानां प्रश्नानाम् उत्तर: संस्कृतभाषया लिखित –
(क) कञ्चनपुरं नाम नगरं कुत्र विभाति स्म?
(ख) जीमूतवाहनः कीदृशः आसीत्?
(ग) कल्पतरोः वैशिष्ट्यमाकर्ण्य जीमूतवाहनः किम् अचिन्तयत्?
(घ) हितैषिणः मन्त्रिणः जीमूतवाहनं किम् उक्तवन्तः?
(ङ) जीमूतवाहनः कल्पतरुम् उपगम्य किम् उवाच?
उत्तरम्-
(क) कञ्चनपुर नाम नगर हिमवतः सानोपरि विभाति स्म।
(ख) जीमूतवाहनः महान् दानवीरः सर्वभूतानुकम्पी च आसीत्।
(ग) कल्पतरोः वैशिष्ट्यमाकर्ण्य जीमूतवाहनः अचिन्तयत् यत् “अहो! ईदृशम् अमरपादपं प्राप्यापि पूर्वैः पुरुषैअस्माकं तादृशं फलं किमपि न प्राप्तम्। किन्तु केवलं कैश्चिदेव कृपणैः कश्चिदपि अर्थः अर्थितः। तदहमस्मात् कल्पतरोः अभीष्टं साधयामि” इति।
(घ) हितैषिणः मन्त्रिणः जीमूतवाहनं उक्तवन्त:-“युवराज! योऽयं सर्वकामदः कल्पतरुः तवोद्याने तिष्ठति स तव सदा पुज्यः। अस्मिन् अनुकूले स्थिते सति शक्रोऽपि अस्मान् बाधितुं न शक्नुयात्।”
(ङ) जीमूतवाहन: कल्पतरुम् उपगम्य उवाच-“देव! त्वया अस्मत्पूर्वेषाम् अभीष्टाः कामाः पूरिताः तन्ममैक कामं पूरय। यथापृथिवीम् अदरिद्राम् पश्यामि तथा करोतु देव” इति।
प्रश्न.3.अधोलिखितवाक्येषु स्थूलपदानि कस्मै प्रयुक्तानि?
(क) तस्य सानोरुपरि विभाति कञ्चनपुरं नाम नगरम्।
(ख) राजा सम्प्राप्तयौवनं तं यौवराज्ये अभिषिक्तवान्?
(ग) अयं तव सदा पूज्यः।
(घ) तात! त्वं तु जानासि यत् धनं वीचिवच्चञ्चलम्।
उत्तरम्-
(क) हिमवते (हिमालयाय)
(ख) राजपुत्राय (जीमूतवाहनाय)
(ग) कल्पतरवे
(घ) पित्रे (जीमूतकेतवे राज्ञे)
प्रश्न.4. अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –
(क) पर्वतः – ______
(ख) भूपतिः – ______
(ग) इन्द्रः – ______
(घ) धनम् – ______
(ङ) इच्छितम् – ______
(च) समीपम् – ______
(छ) धरित्रीम् – ______
(ज) कल्याणम् – ______
(झ) वाणी – ______
(ज) वृक्षः – ______
उत्तरम्-
(क) पर्वतः – नगेन्द्रः
(ख) भूपतिः – राजा
(ग) इन्द्रः – शक्रः
(घ) धनम् – अर्थः
(ङ) इच्छितम् – अभीष्टम्/अर्थितः
(च) समीपम् – अन्तिकम्
(छ) धरित्रीम् – पृथ्वीम्
(ज) कल्याणम् – स्वस्ति/सुखम्
(झ) वाणी – वाक
(ञ) वृक्षः – तरुः
प्रश्न 5. ‘क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे च विशेष्याणि दत्तानि। तानि समुचित योजयत –
उत्तरम्-
प्रश्न.6. स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
(क) तरोः कृपया सः पुत्रम् अप्राप्नोत्।
(ख) सः कल्पतरवे न्यवेदयत्।
(ग) धनवृष्ट्या कोऽपि दरिद्रः नातिष्ठत्।
(घ) कल्पतरुः पृथिव्यां धनानि अवर्षत्।
(ङ) जीवानुकम्पया जीमूतवाहनस्य यशः प्रासरत्।
उत्तरम्-
(क) कस्य
(ख) कस्मै
(ग) कया
(घ) कस्याम्
(ङ) कया
प्रश्न.7.(अ) “स्वस्ति तुभ्यम्” स्वस्ति शब्दस्य योगे चतुर्थी विभक्तिः भवति। इत्यनेन नियमेन अत्र चतुर्थी विभक्तिः
प्रयुक्ता एवमेव (कोष्ठकगतेषु पदेषु) चतुर्थी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –
(क) स्वस्ति ______ (राजा)
(ख) स्वस्ति ______ (प्रजा)
(ग) स्वस्ति ______ (छात्र)
(घ) स्वस्ति ______ (सर्वजन)
उत्तरम्-
(क) राज्ञे।
(ख) प्रजाभ्यः प्रजाये।
(ग) छात्राय/छात्रेभ्यः।
(घ) सर्वजनेभ्यः ।
(आ) कोष्ठकगतेषु पदेषु षष्ठी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –
(क) तस्य ______ उद्याने कल्पतरुः आसीत्। (गृह)
(ख) सः ______ अन्तिकम् अगच्छत्।
(ग) ______ सर्वत्र यशः प्रथितम् (जीमूतवाहन)
(घ) अयं ______ ” तरु:?(किम्)
उत्तरम्-
(क) गृहस्य
(ख) पितुः
(ग) जीमूतवाहनस्य
(घ) कस्य
20 videos|54 docs|20 tests
|
20 videos|54 docs|20 tests
|