अभ्यासः
प्रश्नः 1. एकपदेन उत्तरत-(एक पद में उत्तर दीजिए-)
(क) कस्य राज्यस्य भागेषु गजधर: शब्दः प्रयुज्यते?
उत्तरम्- राजस्थानस्य
(ख) गजपरिमाणं कः धरयति?
उत्तरम्- गजधर:
(ग) कार्यसमाप्तौ वेतनानि अतिरिच्य गजधरेभ्यः किं प्रदीयते स्म?
उत्तरम्- सम्मानम्
(घ) के शिल्पिरूपेण न समादृताः भवन्ति?
उत्तरम्- गजधरा:
प्रश्नः 2. अधेलिखितानां प्रश्नानामुत्तराणि लिखत-(निम्नलिखित प्रश्नों के उत्तर लिखिए-)
(क) तडागाः कुत्र निर्मीयन्ते स्म?
उत्तरम्- तडागाः अशेषे हि देशे निर्मीयन्ते स्म।
(ख) गजधरा: कस्मिन् रूपे परिचिताः?
उत्तरम्- गजधरा: ‘समाजस्य गाम्भीर्यस्य मापकाः’ इति रूपेण परिचिताः।
(ग) गजधरा: किं कुर्वन्ति स्म?
उत्तरम्- गजधरा: नवनिर्माणस्य योजनां प्रस्तुन्वन्ति स्म, भाविव्ययम् आकलयन्ति स्म, उपकरणभारान् संगृह्णन्ति स्म।
(घ) के सम्माननीयाः?
उत्तरम्- गजधरा: सम्माननीयाः।
प्रश्नः 3. रेखाघिड्ढतानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-(रेखांकित पदों के आधर पर प्रश्न-निर्माण कीजिए-)
(क) सुरक्षाप्रबन्ध्नस्य दायित्वं गजधरा: निभालयन्ति स्म।
(ख) तेषां स्वामिनः असमर्थाः सन्ति।
(ग) कार्यसमाप्तौ वेतनानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति।
(घ) गजधर: सुन्दरः शब्दः अस्ति।
(ङ) तडागाः संसारसागराः कथ्यन्ते।
उत्तरम्-
(क) कस्य दायित्वं गजधरा: निभालयन्ति स्म?
(ख) केषां स्वामिनः असमर्थाः सन्ति?
(ग) कार्यसमाप्तौ कानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति?
(घ) कः सुन्दरः शब्दः अस्ति?
(ङ) के संसारसागराः कथ्यन्ते?
प्रश्नः 4. अधेलिखितेषु यथापेक्षितं संधि/विच्छेदं कुरुत-(निम्नलिखित में यथापेक्षित संधि या विच्छेद कीजिए-)
(क) अद्य + अपि = ....................
(ख) ....... + ........ = स्मरणार्थम्
(ग) इति + अस्मिन् = ....................
(घ) .......... + ....... = एतेष्वेव
(घ) सहसा + एव = ................
उत्तरम्-
(क) अद्यापि,
(ख) स्मरण + अर्थम्,
(ग) इत्यस्मिन्,
(घ) एतेषु + एव,
(घ) सहसैव।
प्रश्नः 5. मञ्जुषातः समुचितानि पदानि चित्वा रिक्तस्थानानि पूरयत-(मञ्जुषा से उचित पदों को चुनकर रिक्त स्थानों की पूर्ति कीजिए-)
रचयन्ति , गृहीत्वा , सहसा, जिज्ञासा, सह
(क) छात्राः पुस्तकानि.........................विद्यालयं गच्छन्ति।
(ख) मालाकाराः पुष्पैः मालाः.........................।
(ग) मम मनसि एका.........................वर्तते।
(घ) रमेशः मित्रे:.........................विद्यालयं गच्छति।
(ङ) .........................बालिका तत्र अहसत्।
उत्तरम्-
(क) छात्राः पुस्तकानि गृहीत्वा विद्यालयं गच्छन्ति।
(ख) मालाकाराः पुष्पैः मालाः रचयन्ति।
(ग) मम मनसि एका जिज्ञासा वर्तते।
(घ) रमेशः मित्रे: सह विद्यालयं गच्छति।
(ङ) सहसा बालिका तत्र अहसत्।
प्रश्नः 6. पदनिर्माणं कुरुत-(पदों का निर्माण कीजिए-)
(i) यथा- कृ + तुमुन् - कर्तुम्
हृ + तुमुन् - ........................
तृ + तुमुन् - ........................
उत्तरम्-
हर्तुम्, तर्तुम्।
(ii) यथा- नम् + क्त्वा - नत्वा
गम् + क्त्वा - ........................
त्यज् + क्त्वा - ........................
भुज् + क्त्वा - ........................
उत्तरम्-
गत्वा, त्यक्त्वा, भुक्त्वा।
(iii) उपसर्गः - धातु: - प्रत्ययः = पदम्
यथा- उप - गम् - ल्यप् = उपगम्य
सम् - पूज् - ल्यप् =. ................
आ - नी - ल्यप् = ...................
प्र - दा - ल्यप् = . .................
उत्तरम्- संपूज्य, आनीय, प्रदाय।
प्रश्नः 7. कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-(कोष्ठकों में दिए गए शब्दों में समुचित विभक्ति का योग करके रिक्तस्थानों की पूर्ति कीजिए-)
(i) यथा - विद्यालयं परितः वृक्षाः सन्ति। (विद्यालय)
(क) ...................उभयतः ग्रामाः सन्ति। (ग्राम)
(ख) ...................सर्वतः अट्टालिका: सन्ति। (नगर)
(ग) धिक्...................। (कापुरुष)
उत्तरम्-
(क) ग्रामम् उभयतः ग्रामाः सन्ति।
(ख) नगरम् सर्वतः अट्टालिका: सन्ति।
(ग) धिक् कापुरुषम्!
(ii) यथा - मृगाः मृगैः सह धवन्ति। (मृग)
(क) बालकाः...................सह पठन्ति। (बालिका)
(ख) पुत्र:...................सह आपणं गच्छति। (पितृ)
(ग) शिशुः...................सह क्रीडति। (मातृ)
उत्तरम्-
(क) बालकाः बालिकाभिः सह पठन्ति।
(ख) पुत्र: पित्रा सह आपणं गच्छति।
(ग) शिशुः मात्रा सह क्रीडति।
अतिरिक्त-अभ्यासः
(1) मञ्जुषातः उचितपदम् आदाय वाक्यानि पूरयत-(मञ्जुषा से उचित पद लेकर वाक्य पूरे कीजिए।)
बहुप्रथिता, तडागाः, सहसैव, वास्तुकाराः गजधरा संसारसागराः
उत्तरम्-
(2) पाठाशं पठत अधेदत्तान् प्रश्नान् च उत्तरत-(पाठांश पढ़िए और निम्नलिखित प्रश्नों के उत्तर दीजिए-)
गजधर: इति सुन्दरः शब्दः तडागनिर्मातृृणां सादरं स्मरणार्थम्। राजस्थानस्य केषुचिद् भागेषु शब्दोऽयम् अद्यापि प्रचलति। कः गजधर:? यः गजपरिमाणं धरयति स गजधर:। गजपरिमाणम् एव मापनकार्ये उपयुज्यते। समाजे त्रिहस्त-परिमाणात्मिकीं लौहयटं हस्ते गृहीत्वा चलन्तः गजधराः इदानीं शिल्पिरूपेण नैव समादृताः सन्ति।
I. एकपदेन उत्तरत -
1. गजधर: इति शब्दः केषां सादरं स्मरणार्थम्?
उत्तरम्- तडागनिर्मातृणाम्
2. मापनकार्ये किं प्रयुज्यते?
उत्तरम्- गजपरिमाणम्
II. पूर्णवाक्येन उत्तरत -
1. गजधर: कः अस्ति?
उत्तरम्- यः गजपरिमाणं धरयति सः गजधर।
2. गजधर: इति शब्दः अद्यापि कुत्रा प्रचलति?
उत्तरम्- गजधर इति शब्दः अद्यापि राजस्थानस्य केषुचिद् प्रदेशेषु प्रचलितः।
III. भाषिककार्यम् -
1. सुन्दरः शब्दः-अत्र विशेष्यपदं किम्? __________
उत्तरम्- विशेष्यपदम्-शब्दः
2. मापनकार्ये-अत्र किं विभक्तिवचनम्? __________
(प्रथमा द्विवचनम्, सप्तमी एकवचनम्, चतुर्थी एकवचनम्)
उत्तरम्- सप्तमी एकवचनम्
3. ‘यः गजपरिमाणं धरयति स गजधर:’ इति वाक्ये धरयति’ क्रियापदस्य-
(i) कर्ता कः? __________
(ii) कर्म किम्?__________
उत्तरम्-
(i) यः
(ii) गजपरिमाणम्
4. पर्यायपदं चित्वा लिखत। अधुना - _____________
उत्तरम्- इदानीम्
5. संधि: विच्छेद: वा क्रियताम्-
(i) नैव - ________ + ________ (ii) स्मरण + अर्थम् - ________ + ________
उत्तरम्-
(i) न + एव
(ii) स्मरणार्थम्
(3) अधेदत्तपदानां लिङ्ग विभक्तिं वचनं च निर्दिशत-(निम्नलिखित पदों के लिंग विभक्ति व वचन निर्दिष्ट कीजिए-)
लिंगम् विभक्तिः वचनम्
1. नूतनपध्त्या ________ ________ ________
2. कार्यसमाप्तौ ________ ________ ________
3. प्रविध्निा ________ ________ ________
4. समाजेन ________ ________ ________
5. अस्मिन् ________ ________ ________
उत्तरम्-
लिंगम् | विभक्तिः | वचनम् | |
1. नूतनपध्त्या | स्त्राीलिंगम् | तृतीया | एकवचनम् |
2. कार्यसमाप्तौ | स्त्राीलिंगम् | सप्तमी | एकवचनम् |
3. प्रविध्निा | पुंल्लिगम् | तृतीया | एकवचनम् |
4. समाजेन | पुंल्लिगम् | तृतीया | एकवचनम् |
5. अस्मिन् | पुंल्लिगम् | सप्तमी | एकवचनम् |
(4) पूर्णवाक्येन उत्तरत-(सम्पूर्ण वाक्य में उत्तर दीजिए-)
1. गजध्राः कस्य कस्य दायित्वं निभालयन्ति स्म? ...................
2. प्रतिदाने ते किं न याचन्ते स्म? ...................
3. कार्यसमाप्तौ गजधरेभ्यः किं किं दीयते स्म? ...................
उत्तरम्-
1. गजध्राः नवनिर्माणस्य सुरक्षाप्रबन्ध्स्य च दायित्वं निभालयन्ति स्म।
2. प्रतिदाने ते तद् न याचन्ते स्म यद् दातुं तेषां स्वामिनः असमर्थाः आसन्।
3. कार्यसमाप्तौ गजधरेभ्यः वेतनानि अतिरिच्य सम्मानम् अपि प्रदीयते स्म।
(5) कोष्ठकदत्तस्य शब्दस्य उचितरूपं प्रयुज्य वाक्यानि पूरयत-(कोष्ठक दत्त शब्द का उचित रूप प्रयोग करके वाक्य पूरे कीजिए-)
(क)
1. भगिनी ___________ सह आपणम् अगच्छत। (भ्रातृ)
2. शिष्याः ___________ सह गच्छन्ति। (गुरु)
3. छात्रा ___________ सह वार्तां करोति। (अध्यापिका)
उत्तरम्-
1. भ्रात्रा
2. गुरुणा
3. अध्यापिकया
(ख)
1. ___________ उभयतः जनाः स्थिताः। (मार्ग)
2. ___________ अभितः शिष्याः उपविष्टाः। (आचार्य)
3. ___________ पूर्वम् के तडागान् रचयन्ति स्म?________(एतत)
उत्तरम्-
1. मार्गम्
2. आचार्यम्
3. एतस्मात्
बहुविकल्पीयप्रश्नाः
(1) प्रदत्तविकल्पेभ्यः उचितं पदं चित्वा वाक्यपूर्ति कुरुत-(दिए गए विकल्पों में से उचित पद चुनकर वाक्यपूर्ति कीजिए-)
1. गजध्राः ________ प्रस्तुवन्ति स्म। (योजना, योजनाम्, योजनम्)
2. ते भाविव्ययम् ________ स्म। (निभालयत्ति आकलयन्ति, सगृह्णन्ति)
3. ते लौहयष्टिं ________ गृहीत्वा चलन्ति स्म। (हस्तं, हस्तेन, हस्ते)
4. नगर नियोजनम् स्यात् लघुनिर्माणम् वा ________ कार्याणि गजध्रेषु एव आधृतानि आसन्। (सर्व, सर्वम्, सर्वाणि)
5. गजपरिमाणम् एव ________ उपयुज्यते। (मापनकार्यम्, मापनकार्ये, मापनकार्येण)
उत्तरम्-
1. योजनाम्
2. आकलयन्ति
3. हस्ते
4. सर्वाणि
5. मापनकार्ये
(2) प्रकृति प्रत्यय संयोज्य वियोज्य वा उचित विकल्पेन रिक्तस्थानानि पूरयत-(प्रकृति प्रत्यय जोड़कर अथवा अलग करके उचित विकल्प द्वारा रिक्त स्थान पूरे कीजिए-)
(क) 1. रावणं ________ (नि + हन् + ल्यप्) रामः अयोध्यां प्रत्यावर्तत।
(निहत्वा, निहत्य, निहन्य)
2. पुस्तकानि आदाय ( ________ + ________ + ________) छात्राः विद्यालयम् गच्छति।
(अ + दा + ल्यप्, आ + दा + क्त्वा, आ + दा + ल्यप्)
3. वृक्षात् ___________ (अव + तृ + ल्यप्) वानरः दूरे अगच्छत्।
(अवातीर्य, अवतीर्य, अवतीरय)
4. अहं पाठं ___________ (स्मृ + तुमुन) प्रत्यनशीलः अस्मि।
(स्मरतुम्, स्मरितुम्, स्मर्तुम्)
5. देवं सम्पूज्य (_____ + _____ + _____ ) सा प्रातराशम् खादति स्म।
(सम + पूज् + ल्यप् सम् + पूज् + क्त्वा सम् + पूज् + ल्यप्)
उत्तरम्-
1. निहत्य
2. आदाय
3. अवतीर्य
4. स्मर्तुम्
5. सम्पूज्य
(ख) 1. आ + नी + तुमुन - __________ (आनीतुम्, आनेतुम्, आनयितुम्)
2. गण् + तुमुन् - __________ (गणितुम्, गणयितुम्, गणयीतुम्)
3. त्यज् + क्त्वा - __________ (त्यजत्वा, त्यज्त्वा, त्यक्त्वा)
4. प्रष्टुम् - ______+______ (प्रच्छ् + तुमुन्, पृच्छ् + तुम्; प्रश् + टुम्)
5. दृश + तुमुन् - __________ (द्रष्टुम्, दृष्टुम्, दर्शितुम्)
उत्तरम्-
1. आनेतुम्
2. गणयितुम्
3. त्यक्त्वा
4. प्रच्छ् + तुमुन्
5. द्रष्टुम्
14 videos|80 docs|27 tests
|
1. संसारसागरस्य नायकाः के हैं? |
2. संसारसागरस्य नायकाः क्यों महत्वपूर्ण हैं? |
3. संस्कृत कक्षा - 8 के अभ्यास में क्या पढ़ाया जाता है? |
4. संसारसागरस्य नायकाः अध्ययन में किस प्रकार मदद करते हैं? |
5. संसारसागरस्य नायकाः के बिना क्या हो सकता है? |