CBSE Class 10  >  Class 10 Notes  >  संस्कृत कक्षा 10 (Sanskrit )  >  शिशुलालनम | NCERT Solution

शिशुलालनम - NCERT Solution

प्रश्न 1. एकपदेन उतरं लिखत
(क) कुशलवौ कम् उपसृत्य प्रणमतः?
(ख) तपोवनवासिनः कुशस्य मातरं केन नाम्ना आह्वयन्ति?
(ग) वयोऽनुरोधात् कः लालनीयः भवति?
(घ) केन सम्बन्धेन वाल्मीकिः लवकुशयोः गुरुः?
(ङ) कुत्र लवकुशयोः पितुः नाम न व्यवह्रियते?
उत्तर:

(क) रामम्
(ख) देवी
(ग) शिशुजनः
(घ) उपनयनोपदेशेन
(ङ) तपोवने

प्रश्न 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत
(क) रामाय कुशलवयोः कण्ठाश्लेषस्य स्पर्शः कीदृशः आसीत्?
(ख) रामः लवकुशौ कुत्र उपवेशयितुम् कथयति?
(ग) बालभावात् हिमकरः कुत्र विराजते?
(घ) कुशलवयोः वंशस्य कर्ता कः?
(ङ) कुशलवयोः मातरं वाल्मीकिः केन नाम्ना आह्वयति?
उत्तर:

(क) रामाय कुशलवयोः कण्ठाश्लेषस्य स्पर्शः हृदयग्राही आसीत्?
(ख) रामः लवकुशौ स्वाङ्के उपवेशयितुम् कथयति।
(ग) बालभावात् हिमकरः पशुपति-मस्तके विराजते।
(घ) कुशलवयोः वंशस्य कर्ता सहस्रदीधितिः आसीत्।
(ङ) कुशलवयोः मातरं वाल्मीकिः 'वधू' इति नाम्ना आह्वयति।

प्रश्न 3. रेखाङ्कितेषु पदेषु विभिक्तं तत्कारणं च उदाहरणानुसारं निर्दिशत -
शिशुलालनम | NCERT Solutionउत्तर: विभिक्तं - तत्कारणम्
(क) द्वितीया - 'उप (उपसर्ग) + विश्' धातु योगे
(ख) द्वितीया - 'धिङ् योगे
(ग) द्वितीया - 'अधि (उपसर्ग) + आस् धातु योगे
(घ) तृतीया - 'अलम्' योगे
(ङ) द्वितीया - 'उप (उपसर्ग) + सृ धातु योगे

प्रश्न 4. यथानिर्देशम् उत्तरत
(क) 'जानाम्यहं तस्य नामधेयम्' अस्मिन् वाक्ये कर्तृपदं किम्?
(ख) 'किं कुपिता एवं भणति उत प्रकृतिस्था'-अस्मात् वाक्यात् 'हर्षिता' इति पदस्यविपरीतार्थकपदं चित्वा लिखत?
(ग) 'विदूषकः (उपसृत्य) 'आज्ञापयतु भवान्!' अत्र भवान् इति पदं कस्मै प्रयुक्तम्?
(घ) 'तस्मादक-व्यवहितम् अध्यास्याताम् सिंहासनम्'-अत्र क्रियापदं किम्?
(ङ) 'वयसस्तु न किञ्चिदन्तरम्'-अत्र आयुषः इत्यर्थे किं किं पदं प्रयुक्तम्?
उत्तर: 
(क) अहम्
(ख) कुपिता
(ग) रामाय
(घ) अध्यास्याताम्
(ङ) वयसः

प्रश्न 5. अधोलिखितानि वाक्यानि कः कं प्रति कथयति
शिशुलालनम | NCERT Solutionउत्तर: कः - कम्
(क) रामः - लवकुशौ
(ख) विदूषकः - कुशम्
(ग) कुशः - रामम्
(घ) लवः - विदूषकम्
(ङ) रामः - विदूषकम्

प्रश्न 6. मञ्जूषातः पर्यायद्वयं चित्वा पदानां समक्षं लिखत
शिवः शिष्टाचारः शशिः चन्द्रशेखरः सुतः इदानीम् अधुना पुत्रः सूर्यः सदाचारः निशाकरः भानुः

शिशुलालनम | NCERT Solutionउत्तर:
शिशुलालनम | NCERT Solution

(अ) विशेषण-विशेष्यपदानि योजयत
यथा- विशेषण पदानि - विशेष्य पदानि
श्लाघ्या - कथा
(1) उदात्तरम्यः - (क) समुदाचारः
(2) अतिदीर्घः - (ख) स्पर्शः
(3) समरूपः - (ग) कुशलवयोः
(4) हृदयग्राही - (घ) प्रवास:
(5) कुमारयोः - (ङ) कुटुम्बवृत्तान्तः
उत्तर:

(1) उदात्तरम्यः - (क) समुदाचारः
(2) अतिदीर्घः - (ख) प्रवासः
(3) समरूपः - (ग) कुटुम्बवृत्तान्त:
(4) हृदयग्राही - (घ) स्पर्शः
(5) कुमारयोः - (ङ) कुशलवयोः

प्रश्न 7. (क) अधोलिखितपदेषु सन्धिं कुरुत
(क) द्वयोः + अपि - .............
(ख) द्वौ + अपि - .............
(ग) कः + अत्र - .............
(घ) अनभिज्ञः + अहम् - .............
(ङ) इति + आत्मानम् - .............
उत्तर:

(क) द्वयोः + अपि = द्वयोरपि
(ख) द्वौ + अपि = द्वावपि
(ग) कः + अत्र = कोऽत्र
(घ) अनभिज्ञः + अहम् = अनभिज्ञोऽहम्
(ङ) इति + आत्मानम् = इत्यात्मानम्

(ख) अधोलिखितपदेषु विच्छेदं कुरुत
(क) अहमप्येतयोः - .............
(ख) वयोऽनुरोधात् - .............
(ग) समानाभिजनौ - .............
(घ) खल्वेतत् - .............
उत्तर:

(क) अहमप्येतयो: - अहम् + अपि + एतयोः
(ख) वयोऽनुरोधात् - वयः + अनुरोधात्
(ग) समानाभिजनौ - समान + अभिजनौ
(घ) खल्वेतत् - खलु + एतत्

The document शिशुलालनम | NCERT Solution is a part of the Class 10 Course संस्कृत कक्षा 10 (Sanskrit Class 10).
All you need of Class 10 at this link: Class 10
Explore Courses for Class 10 exam
Get EduRev Notes directly in your Google search
Related Searches
Viva Questions, Summary, Objective type Questions, शिशुलालनम | NCERT Solution, Sample Paper, Exam, Free, ppt, शिशुलालनम | NCERT Solution, video lectures, past year papers, shortcuts and tricks, शिशुलालनम | NCERT Solution, study material, Extra Questions, Previous Year Questions with Solutions, MCQs, practice quizzes, mock tests for examination, Semester Notes, Important questions, pdf ;