CBSE Class 6  >  Class 6 Notes  >  Sanskrit  >  NCERT Solutions: अहं प्रातः उत्तिष्ठामि

NCERT Solutions: अहं प्रातः उत्तिष्ठामि

प्रश्न 1. पट्टिकातः शिष्टाचारस्य पदानि चित्वा लिखन्तु ।
NCERT Solutions: अहं प्रातः उत्तिष्ठामियथा -
गुरुवन्दनम्
उत्तरम्: गुरुवन्दनम्, वृद्धसेवा, अतिथिसत्कार: मातृप्रेमः, पितृभक्तिः, ज्येष्ठेषु आदरः, कनिष्ठेषु प्रीतिः, बन्धुषु प्राणिषु दया, प्रीति: स्वाभिमानम्, परोपकारः प्रियवचनम्, सत्यकथनम्, सत्पात्रे दानम्, सर्वेषु मैत्रीभावः, समयपालनम्, स्वच्छता, प्रकृतिरक्षणम्, भातृषु भगिनीषु च स्नेह ।


प्रश्न 2. उदाहरणानुगुणं समयं संख्याभिः लिखन्तु ।
यथा- पादोन- सप्तवादनम् - '६:४५
(i) सार्ध-दशवादनम् -_______
(ii) दशवादनम् - _______
(iii) सपाद-पैंड्वादनम् - _______
(iv) सार्ध-चतुर्वादनम् - _______
(v) पादोन-एकादशवादनम् - _______
उत्तरम्:

(i) सार्ध-दशवादनम् - १०:३०
(ii) दशवादनम् - १०:००
(iii) सपाद-षड्वादनम् - ०६:१५
(iv) सार्ध-चतुर्वादनम् - ०४:३०
(v) पादोन-एकादशवादनम् - १०:४५


प्रश्न 3. उदाहरणानुगुणं समयम् अक्षरैः लिखन्तु ।
यथा - ०६:०० - "षड्वादनम्"
(i) १२:०० - _______
(ii) ०५:३० - _______
(iii) ०६:४५ - _______
(iv) ०९:४५ - _______
(v) ११:३० - _______
उत्तरम्:
(i) १२:०० - द्वादशवादनम्
(ii) ०५:३० - सार्धपञ्चवादनम्,
(iii) ०६:४५ - पादोन-सप्तवादनम्
(iv) ०९:४५ - पादोन-दशवादनम्
(v) ११:३० - सार्ध एकादश वादनम्


प्रश्न 4. उदाहरणानुगुणं प्रश्ननिर्माणं कुर्वन्तु ।
यथा - सः सार्ध - सप्तवादने अध्ययनं करोति । - "स:" "कदा अध्ययनं करोति?
(क) सा सपाद - नववादने विद्यालयं गच्छति । - _______?
उत्तरम्:
सा कदा विद्यालयं गच्छति ?

(ख) सतीशः सार्ध - द्वादशवादने भोजनं करोति । - _______?
उत्तरम्: 
सतीशः कदा भोजनं करोति ?

(ग) यानं पञ्चवादने आगच्छति । - _______?
उत्तरम्:
यानं कदा आगच्छति?

(घ) गोपालः षड्वादने गोदोहनं करोति । - _______?
उत्तरम्: 
गोपालः कदा गोदोहनं करोति ?

(ङ) माता दशवादने कार्यालयं गच्छति ।- _______?
उत्तरम्: 
माता कदा कार्यालयं गच्छति ?


प्रश्न 5. स्वस्य दिनचर्यां सरलवाक्यैः लिखन्तु ।
NCERT Solutions: अहं प्रातः उत्तिष्ठामिउत्तरम्:
(क) अहम् प्रातः पञ्चवादने उत्तिष्ठामि ।
(ख) अहम् षड्वादने उद्यानं गच्छामि।
(ग) अहम् सार्ध षड्वादने स्नानादिकम् करोमि ।
(घ) अहम् सपाद-सप्तवादने प्रातराशम् करोमि ।
(ङ) अहम् अष्ट-वादने विद्यालयम् गच्छामि।


प्रश्न 6. वाक्येषु . शिष्टाचारपदं योजयन्तु ।
NCERT Solutions: अहं प्रातः उत्तिष्ठामियथा -
युवक: मातापित्रोः सेवां करोति ।
(क) सा दुर्बलानां _______ करोति ।
उत्तरम्: 
साहाय्यं

(ख) सर्वेषु प्राणिषु _______ भवतु ।
उत्तरम्:
दयाभावः

(ग) सर्वे छात्रा : पाठशालायाः _______ कुर्वन्तु ।
उत्तरम्: 
नियमपालनं

(घ) वयं सर्वे अतिथीनां _______ कुर्मः।
उत्तरम्: 
सत्कारं

(ङ) परस्परं छात्रेषु _______ भवतु ।
उत्तरम्:
मैत्रीभावः


प्रश्न 7. योग्यताविस्तरः
भारतीयज्ञान- परम्परायां समयः घटीयन्त्राणि च

प्राचीनभारते जनाः समयनिर्देशार्थं सूर्यस्य गतिं पश्यन्ति म। तस्य कृते ते बहुविधस्य विज्ञानस्य आविष्करणं कृतवन्तः । तादृशानि विज्ञानयन्त्राणि सामान्यतः वयं प्रसिद्धेषु देवालयेषु पश्यामः । यथा ओडिशाराज्ये कोणार्कक्षेत्रे विद्यमाने सूर्यमन्दिरे चक्राणि सन्ति ।
NCERT Solutions: अहं प्रातः उत्तिष्ठामिउत्तरम्: 
NCERT Solutions: अहं प्रातः उत्तिष्ठामि


प्रश्न 8. परियोजनाकार्यम् |
(i) स्फोरकपत्रे घटीनां चित्राणि रचयन्तु तेषु विविधान् रङ्गान् पूरयन्तु संस्कृतेन समयं च लिखन्तु ।
(ii) मात्रा / पित्रा सहं चर्चां कृत्वा स्वस्या: / स्वस्य दिनचर्यां संस्कृतेन लिखन्तु ।
(iii) शिष्टाचारस्य विषये पञ्चानां श्लोकानां संग्रह कुर्वन्तु स्मरन्तु च ।
उत्तरम्:
(i)
छात्राः स्वयमेव कुरुत ।
(ii) मात्रा / पित्रा सह चर्चा कृत्वा स्वस्य दिनचर्या ।
अहम् प्रातः पञ्चवादने उत्तिष्ठामि । मम मात्रा सह योगासनं करोमि। अहम् पित्रा सह उद्याने भ्रमणाय प्रतिदिनं गच्छामि। तदनंतरम् शौचं स्नानादिकं कृत्वा प्रातराशं करोमि । ततः सप्तवादने पित्रा सह विद्यालयम् गच्छामि । विद्यालयात् आगत्य द्विवादने भोजनं कृत्वा स्वाध्ययनं करोमि। सायं पञ्च-वादने मित्रैः सह खेलितुम् क्रीडाक्षेत्रं गच्छामि । पुनः गृहम् आगत्य अष्ट-वादने रात्रिभोजनं सपरिवारं करोमि ।
(iii) शिष्टाचारस्य पञ्चश्लोकाः

  • सर्वलक्षणहीनः अपि यः स्यात् आचारवान् नरः । श्रद्धावान् अनसूयः च शतं वर्षाणि जीवति ।।
  • अभिवादनशीलस्य नित्यं वृद्धोपसेविनः । चत्वारि तस्य वर्धन्ते आयुर्विद्या यशोबलम् ||
  • नरस्याभरणं रूपं रूपस्याभरणं गुणः । गुणस्याभरणं ज्ञानं ज्ञानस्याभरणं क्षमा ।।
  • सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यप्रियम्। प्रियं च नामृतं ब्रूयात् एषः धर्मः सनातनः ।।
  • विद्या ददाति विनयं विनयाद् याति पात्रताम् । पात्रत्वाद् धनमाप्नोति धनाद् धर्मः ततः सुखम् ।।
The document NCERT Solutions: अहं प्रातः उत्तिष्ठामि is a part of the Class 6 Course Sanskrit for Class 6.
All you need of Class 6 at this link: Class 6

FAQs on NCERT Solutions: अहं प्रातः उत्तिष्ठामि

1. क्या है अहं प्रातः उत्तिष्ठामि का अर्थ?
उत्तर: अहं प्रातः उत्तिष्ठामि का अर्थ है "मैं सुबह उठता हूँ"।
2. इस पाठ में किस विषय पर चर्चा की गई है?
उत्तर: इस पाठ में सुबह के समय के महत्व पर चर्चा की गई है।
3. अगर हम समय पर उठने के फायदे के बारे में बात करें, तो क्या कुछ हैं?
उत्तर: समय पर उठने से हमारा दिन प्रारंभ सकारात्मक रूप में चलता है और हम अपने लक्ष्य की ओर बढ़ सकते हैं।
4. क्या अहं प्रातः उत्तिष्ठामि का सन्देश है?
उत्तर: अहं प्रातः उत्तिष्ठामि का सन्देश है कि समय पर उठना और नियमित दिनचर्या का पालन करना जीवन में सफलता की दिशा में महत्वपूर्ण है।
5. सुबह के समय का महत्व क्या है?
उत्तर: सुबह के समय में हमारा मन ताजगी से भर जाता है और हम एक नए दिन की शुरुआत करने के लिए तैयार होते हैं।
Explore Courses for Class 6 exam
Get EduRev Notes directly in your Google search
Related Searches
NCERT Solutions: अहं प्रातः उत्तिष्ठामि, past year papers, ppt, Exam, Objective type Questions, Sample Paper, Previous Year Questions with Solutions, Extra Questions, study material, video lectures, NCERT Solutions: अहं प्रातः उत्तिष्ठामि, NCERT Solutions: अहं प्रातः उत्तिष्ठामि, Semester Notes, mock tests for examination, Important questions, Viva Questions, Free, MCQs, shortcuts and tricks, pdf , Summary, practice quizzes;