CBSE Class 6  >  Class 6 Notes  >  Sanskrit  >  NCERT Solutions: अतिथिदेवो भव

NCERT Solutions: अतिथिदेवो भव

वयम् अभ्यासं कुर्मः

प्रश्न 1. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु ।
(क) राधिका कथं चलति स्म ?
उत्तरम्:
कूर्दमाना

(ख) गृहे कति अतिथयः सन्ति ?
उत्तरम्:
पञ्च

(ग) कां दृष्ट्वा शावकाः भीताः न भवन्ति ?
उत्तरम्:
राधिकां

(घ) मार्जार्याः कति शावका: ?
उत्तरम्:
चत्वारः

(ङ) राधिका मार्जार्यै किं ददाति ?
उत्तरम्:
क्षीरं

(च) चित्रवर्णः कः अस्ति ?
उत्तरम्:
शबल:


प्रश्न 2. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु ।
(क) मार्जारीशावकानां नामानि कानि ?
उत्तरम्:
मार्जारीशावकानां नामानि सन्ति - तन्वी, मृद्वी, शबलः, भीमः च इति ।

(ख) राधिका मार्जारीशावकान् किं पाठयति ?
उत्तरम्:
राधिका मार्जारीशावकान् - 'अतिथिदेवो भव' पाठयति ।

(ग) विशिष्टाः अतिथयः के?
उत्तरम्:
मार्जारी चत्वारः शावका: च विशिष्टाः अतिथयः सन्ति ।

(घ) पितामही राधिकां किं वदति ?
उत्तरम्:
पितामही राधिकां वदति - " राधिके ! अतिथयः कदा आगच्छति इति न जानीमः । "

(ङ) मार्जारी कदा राधिकायाः पृष्ठतः आगच्छति ?
उत्तरम्:
यदा शावकानां समीपं राधिका गच्छति मार्जारी मन्दं मन्दं पृष्ठतः आगच्छति ।

(च) मार्जार्या: शावकाः कीदृशाः सन्ति ?
उत्तरम्:
तन्वी आकृत्या सुन्दरी मृद्वी स्पर्शेन अतीव कोमला । शबल: चित्रवर्णः तथा च भीमः किञ्चित् स्थूलः सन्ति ।


प्रश्न 3. अधोलिखितानां वाक्यानां प्रश्न-सूचक- वाक्यानि लिखन्तु ।
यथा - लेखनी अत्र अस्ति । लेखनी कुत्र अस्ति ?
(क) वृक्षः तत्र अस्ति ।
उत्तरम्:
 वृक्षः कुत्र अस्ति ।

(ख) देवालयः अन्यत्र अस्ति ।
उत्तरम्:
देवालयः कुत्र अस्ति ।

(ग) वायुः सर्वत्र अस्ति ।
उत्तरम्:
वायुः कुत्र अस्ति ।

(घ) बालकाः एकत्र तिष्ठन्ति ।
उत्तरम्:
बालकाः कुत्र तिष्ठन्ति ।

(ङ) माता अत्र अस्ति ।
उत्तरम्:
माता कुत्र अस्ति ?


प्रश्न 4. उत्पीठिकायां किम् अस्ति ? किं नास्ति ? इति चित्रं दृष्टवा लिखन्तु ।
यथा - उत्पीठिकायां पुस्तकम् अस्ति ।
उत्पीठिकायां घटी नास्ति ।

(पुस्तकम्, घटी, लेखनी, चषक:, कूपी, स्यूतः, सङ्गणकम्, वृक्षः, फलम्, कन्दुक:)

वयम् अभ्यासं कुर्मःउत्तरम्:

  • उत्पीठिकायां सङ्गणकम् अस्ति ।
  • उत्पीठिकायां लेखनी नास्ति ।
  • उत्पीठिकायां कन्दुकम् अस्ति ।
  • उत्पीठिकायां वृक्षः नास्ति ।
  • उत्पीठिकायां घटी नास्ति ।
  • उत्पीठिकायां फलम् नास्ति ।
  • उत्पीठिकायां चषक: नास्ति ।
  • उत्पीठिकायां कूपी अस्ति ।
  • उत्पीठिकायां स्यूतः अस्ति ।
  • उत्पीठिकायां पुस्तकम् अस्ति ।


प्रश्न 5.  रेखाचित्रं दृष्ट्वा उदाहरणानुसारं वाक्यानि लिखन्तु ।
यथा - मार्जारः कुत्र अस्ति ? मार्जारः अत्र अस्ति ।
सेवकः कुत्र अस्ति ? सेवक: तत्र अस्ति ।

वयम् अभ्यासं कुर्मः

उत्तरम्-
अत्र-

  • छात्रः कुत्र अस्ति ?   -   छात्रः अत्र अस्ति ।
  • काकः कुत्र अस्ति?   -   काकः अत्र अस्ति ।
  • दीपक: कुत्र अस्ति ?   -   दीपकः अत्र अस्ति ।
  • घटः कुत्र अस्ति ?   -   घटः अत्र अस्ति ।
  • सुधाखण्डः कुत्र अस्ति ?   -   सुधाखण्डः अत्र अस्ति ।
  • शिक्षकः कुत्र अस्ति ?   -   शिक्षकः अत्र अस्ति ।
  • बालिका कुत्र अस्ति ?   -   बालिका अत्र अस्ति ।
  • लेखनी कुत्र अस्ति ?   -   लेखनी अत्र अस्ति ।
  • माला कुत्र अस्ति ?   -   माला अत्र अस्ति ।

तत्र-

  • विद्यालयः कुत्र अस्ति ?   -   विद्यालयः तत्र अस्ति ।
  • गायक : कुत्र अस्ति ?   -   गायकः तत्र अस्ति ।
  • घटी कुत्र अस्ति ?   -   घटी तत्र अस्ति ।
  • फलम् कुत्र अस्ति ?   -   फलम् तत्र अस्ति ।
  • गृहम् कुत्र अस्ति ?   -   गृहम् तत्र अस्ति ।
  • वाटिका कुत्र अस्ति ?   -   वाटिका तत्र अस्ति ।
  • हरिणः कुत्र अस्ति ?   -   हरिणः तत्र अस्ति ।
  • अजः कुत्र अस्ति ?   -   अजः तत्र अस्ति ।
  • मूषकः कुत्र अस्ति ?   -   मूषकः तत्र अस्ति ।

सर्वत्र-

  • प्रकाशः कुत्र अस्ति ?   -   प्रकाश: सर्वत्र अस्ति ।
  • परमेश्वरः कुत्र अस्ति ?   -   परमेश्वरः सर्वत्र अस्ति ।
  • ज्ञानम् कुत्र अस्ति ?   -   ज्ञानम् सर्वत्र अस्ति ।
  • आकाशः कुत्र अस्ति?   -   आकाशः सर्वत्र अस्ति ।
  • अणवः कुत्र अस्ति ?   -   अणवः सर्वत्र अस्ति ।
  • प्रकृतिः कुत्र अस्ति ?   -   प्रकृतिः सर्वत्र अस्ति ।
  • पुष्पाणि कुत्र अस्ति ?   -   पुष्पाणि सर्वत्र अस्ति ।
  • वायुः कुत्र अस्ति ?   -   वायुः सर्वत्र अस्ति ।
  • प्रेम कुत्र अस्ति ?   -  प्रेम सर्वत्र अस्ति ।

एकत्र -

  • बालकः कुत्र अस्ति ?  - बालक: एकत्र अस्ति ।
  • मयूरः कुत्र अस्ति ?  -  मयूर : एकत्र अस्ति ।
  • मित्रम् कुत्र अस्ति ?  -  मित्रम् एकत्र अस्ति ।
  • पुत्रः कुत्र अस्ति ?  -  पुत्रः एकत्र अस्ति ।
  • महिला कुत्र अस्ति ?  -  महिला एकत्र अस्ति ।
  • सेविका कुत्र अस्ति ?  -  सेविका एकत्र अस्ति ।
  • चटका कुत्र अस्ति ?  -  चटका एकत्र अस्ति ।
  • दोला कुत्र अस्ति ?   - दोला एकत्र अस्ति ।


प्रश्न 6. भोजनशालायां किं किम् अस्ति ? इति पञ्चभिः वाक्यैः लिखन्तु ।

यथा- भोजनशालायां पाचकः अस्ति ।

(सूचकपदानि पाचकः, पात्रम्, तण्डुलाः शाकानि, अग्निः, जलम्)

उत्तरम्:

  • भोजनशालायां पात्रम् अस्ति ।
  • भोजनशालायां अग्निः अस्ति ।
  • भोजनशालायां जलम् अस्ति ।
  • भोजनशालायां तण्डुलाः सन्ति ।
  • भोजनशालायां शाकानि सन्ति ।


प्रश्न 7. अधोलिखितेभ्यः वाक्येभ्यः अव्ययपदानि चित्वा लिखन्तु ?
(क) अमितः गृहात् बहिः गच्छति । _______
उत्तरम्:
बहि:

(ख) एक वानरः वृक्षस्य उपरि तिष्ठति । _______
उत्तरम्: 
उपरि

(ग) सः फलानि अधः क्षिपति । _______
उत्तरम्: 
अधः

(घ) तत्र एक: बिडालः अस्ति । _______
उत्तरम्: 
तत्र

(ङ) बिडाल : गृहस्य अन्तः प्रविशति । _______
उत्तरम्: 
अन्तः


प्रश्न 8. उदाहरणानुसार कः कुत्र अस्ति ? कुत्र नास्ति ? इति लिखन्तु ।
यथा-
वयम् अभ्यासं कुर्मः

उत्तरम्:

  • मत्स्यः समुद्रे अस्ति । -  मत्स्यः वृक्षे नास्ति ।
  • मधुरता लड्डुके अस्ति । -  लड्डुके कषाय नास्ति ।
  • उष्णता सूर्ये अस्ति । -  चन्द्रे नास्ति ।
  • वानरः वृक्षे अस्ति । -  नद्याम् नास्ति ।
  • नौका जले अस्ति । - पर्वते नास्ति ।
  • अज्ञानम् पण्डिते नास्ति । - मूर्खे अस्ति ।
  • चन्द्रः पूर्णिमायाम् अस्ति। - अमावस्यायाम् नास्ति ।
  • अवकाश: रविवासरे अस्ति। - सोमवासरें नास्ति ।


प्रश्न 9. परियोजनाकार्यम्
(i) पाठे मार्जारशावकानां नामानि पश्यन्तु । तेषां नामकरणे राधिकायाः किं चिन्तनम् आसीत्? तदनुसारं स्वनामधेये किम् उद्देश्यं स्यात् इति विमर्श कुर्वन्तु ।
उत्तरम्: 
मार्जारशावकानाम् नामकरणे राधिकायाः चिन्तनम् आसीत् यत् तन्वी शरीरस्य सौंदर्येण सुन्दरी आसीत् । मृद्वी स्पर्शेन अतीव कोमला आसीत् । शबल: चित्रवर्ण : आसीत्। भीमः स्थूलः आसीत् । राधिका तेषाम् नामानि शरीरस्य गुणानुसारेण अचिन्तयत् ।

(ii) विद्यालयपरिसरे किम् अस्ति किं नास्ति इति लिखन्तु कक्षायां च श्रावयन्तु।
उत्तरम्: विद्यालयपरिसरे एकं क्रीडाक्षेत्रम् अस्ति। विद्यालयस्य भवनम् भव्यम् विशालम् च अस्ति । विद्यालयं परितः वृक्षाः सन्ति। पादपेषु सुन्दराणि पुष्पाणि विकसन्ति । विद्यालयस्य भवने अनेके कक्षाः प्रकोष्ठाः च सन्ति । एक: पुस्तकालयः अस्ति । तत्र एक भोजनालयः अपि अस्ति । तत्र सर्वत्र स्वच्छं क्षेत्रम् अस्ति । अस्वच्छता नास्ति । 

बिडालः कुत्र अस्ति ?

बिडालः कुत्र अस्ति ?

  • उपरि - बिडाल: फलकस्य उपरि अस्ति ।
  • अधः - बिडालः फलकस्य अधः अस्ति ।
  • कोणे - बिडालः फलकस्य कोणे अस्ति ।
  • केन्द्रे - बिडाल: आसनस्य केन्द्रे अस्ति ।
  • समीपे - बिडाल: पेटिकायाः समीपे अस्ति ।
  • दूरे - बिडाल: पेटिकायाः दूरे अस्ति ।
  • अन्तः - बिडाल: पेटिकायाः अन्तः अस्ति ।
  • बहि: - बिडाल: पेटिकायाः बहिः अस्ति ।
  • पुरतः - बिडालः कन्दुकस्य पुरतः अस्ति ।
  • पृष्ठतः - बिडालः कन्दुकस्य पृष्ठतः अस्ति ।
  • दक्षिणतः - बिडाल : बालकस्य दक्षिणतः अस्ति ।
  • वामतः - बिडालः बालकस्य वामतः अस्ति ।
The document NCERT Solutions: अतिथिदेवो भव is a part of the Class 6 Course Sanskrit for Class 6.
All you need of Class 6 at this link: Class 6
Explore Courses for Class 6 exam
Get EduRev Notes directly in your Google search
Related Searches
NCERT Solutions: अतिथिदेवो भव, Viva Questions, past year papers, ppt, pdf , video lectures, NCERT Solutions: अतिथिदेवो भव, Semester Notes, MCQs, Objective type Questions, mock tests for examination, Important questions, practice quizzes, Previous Year Questions with Solutions, Free, Extra Questions, shortcuts and tricks, study material, Exam, NCERT Solutions: अतिथिदेवो भव, Sample Paper, Summary;