CBSE Class 6  >  Class 6 Notes  >  Sanskrit  >  NCERT Solutions: पृथिव्यां त्रीणि रत्नानि

NCERT Solutions: पृथिव्यां त्रीणि रत्नानि

वयम् अभ्यासं कुर्मः

प्रश्न 1: एतानि सर्वाणि सुभाषितानि उच्चैः पठन्तु स्मरन्तु लिखन्तु च ।
उत्तरम्: 
उपरोक्त सभी सुभाषित (श्लोक) उँचे स्वर में पढ़ें, याद करें और लिखें।


प्रश्न 2: अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु ।
(क) पृथिव्यां कति रत्नानि सन्ति? - ______
उत्तरम्:
  त्रीणि।

(ख) अयं निजः परो वा इति गणना केषां भवति ? - ______
उत्तरम्: 
लघुचेतसाम्।

(ग) कार्याणि क्रेन सिध्यन्ति ? - ______
उत्तरम्: 
उद्यमेन ।

(घ) विद्या किं ददाति ? - ______
उत्तरम्: 
विनयम् ।

(ङ) जननी जन्मभूमिश्च कस्मात् गरीयसी ? - ______
उत्तरम्: 
स्वर्गात् ।

(च) लङ्का कीदृशी आसीत्? - ______
उत्तरम्: 
स्वर्णमयी।


प्रश्न 3: अधोलिखितानां प्रश्नानाम् एकवाक्येन उत्तराणि लिखन्तु ।
(क) पृथिव्यां त्रीणि रत्नानि कानि सन्ति?
उत्तरम्:
पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् सन्ति।

(ख) उदारचरितानां भावः कः भवति ?
उत्तरम्: 
उदारचरितानां भाव: (वसुधैव) कुटुम्बकम् भवति।

(ग) मृगाः स्वयमेव कस्य मुखे न प्रविशन्ति ?
उत्तरम्: 
मृगाः स्वयमेव सिंहस्य मुखे न प्रविशन्ति।

(घ) अभिवा4शीलस्य नित्यं कानि वर्धन्ते ?
उत्तरम्: 
अभिवादनशीलस्य नित्यं चत्वारि वर्धन्ते आयुर्विद्या यशो वलम्।

(ङ) मनुष्यः धनात् किम् आप्नोति ?
उत्तरम्: 
मनुष्यः धनात् धर्मम् आप्नोति।

(च) उत्पन्नेषु कार्येषु कीदृशं धनम् उपयोगाय न भवति ?
उत्तरम्: 
उत्पेन्नेषु कार्येषु परहस्तगतं धनम् उपयोगाय न भवति।


प्रश्न 4: चित्रं दृष्ट्वा वाक्यानि रचयन्तु ।
वयम् अभ्यासं कुर्मःउदाहरणम्- वृक्षः फलानि यच्छतित्वं फलानि स्वीकरोषि । अहं फलानि स्वीकरोमि
उत्तरम्:
(क)
वृक्षः छायां यच्छति । त्वं छायां स्वीकरोषि । अहं छायां स्वीकरोमि ।
(ख) वृक्षः पुष्पाणि यच्छति । त्वं पुष्पाणि स्वीकरोषि । अहं पुष्पाणि स्वीकरोमि।
(ग) वृक्षः पत्राणि यच्छति । त्वं पत्राणि स्वीकरोषि । अहं पत्राणि स्वीकरोमि ।
(घ) वृक्षः कर्गदं यच्छति । त्वं कर्गदं स्वीकरोषि । अहं कर्गदं स्वीकरोमि।
(ङ) वृक्षः काष्ठानि यच्छति । त्वं काष्ठानि स्वीकरोषि । अहं काष्ठानि स्वीकरोमि ।


प्रश्न 5: अधोलिखितानि वाक्यानि पठित्वा 'आम्' अथवा 'न' इति लिखन्तु । 
यथा - किं पृथिव्यां त्रीणि रत्नानि सन्ति? (आम्)
(क) त्रीणि रत्नानि जलम् अन्नं पाषाणः च सन्ति? ______
उत्तरम्:

(ख) किं धर्मेण सुखं प्राप्यते ? ______
उत्तरम्: 
आम्

(ग) किं विद्या विनयं ददाति ? ______
उत्तरम्: 
आम्

(घ) किम् अभिवादनशीलस्य विद्या वर्धते ? ______
उत्तरम्: 
आम्

(ङ) किम् उद्यमेन कार्याणि नश्यन्ति ? ______
उत्तरम्: 

(च) किं जन्मभूमि स्वर्गात् गरीयसी भवति ? ______
उत्तरम्: 
आम्


प्रश्न 6:  चित्रे दर्शितस्य नाम लिङ्गं च निर्दिशन्तु ।
वयम् अभ्यासं कुर्मःउत्तरम्:
वयम् अभ्यासं कुर्मः


प्रश्न 7: वलये पदानि विलिख्य सुभाषितं पूरयन्तु ।
वयम् अभ्यासं कुर्मःउत्तरम्:
वयम् अभ्यासं कुर्मः


प्रश्न 8: पट्टिकातः पदानि चित्वा निर्देशानुसार पदानि लिखन्तु ।
वयम् अभ्यासं कुर्मः

वयम् अभ्यासं कुर्मः

(क) प्रथमान्त-पुंलिङ्गपदानि सन्ति
उत्तरम्:

  1. उद्यमः
  2. विनयः
  3. निजः
  4. पराक्रमः

(ख) प्रथमान्त - स्त्रीलिङ्गपदानि सन्ति
उत्तरम्:

  1. वसुधा
  2. जननी
  3. विद्या
  4. बुद्धिः
  5. शक्ति:

(ग) प्रथमान्त नपुंसकलिङ्गपदानि सन्ति
उत्तरम्:

  1. साहसम्
  2. धैर्यम्
  3. पत्रम्
  4. मूलम्
  5. धनम्


प्रश्न 9: पाठगतानि सुभाषितानि स्मृत्वा रिक्तस्थानानि पूरयन्तु।
(क) पृथिव्यां त्रीणि रत्नानि _____ सुभाषितम्।
उत्तरम्: पृ
थिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम्।

(ख) उदारचरितानां तु _____ कुटुम्बकं भवति ।
उत्तरम्:
उदारचरितानां तु वसुधैव कुटुम्बकं भवति ।

(ग) उद्यमेन हि _____ सिद्ध्यन्ति ।
उत्तरम्: 
उद्यमेन हि कार्याणि सिद्ध्यन्ति ।

(घ) अभिवादनशीलस्य वृद्धोपसेविनः _____ वर्धन्ते ।
उत्तरम्: 
अभिवादनशीलस्य वृद्धोपसेविनः चत्वारि आयुर्विद्या यशोबलं वर्धन्ते ।

(ङ) उद्यमः _____ पराक्रमः ।
उत्तरम्:
उद्यमः साहस, धैर्यं, बुद्धि:, शक्तिः पराक्रमः ।

(च) विद्या _____ ददाति ।
उत्तरम्: 
विद्या विनयं ददाति ।

(छ) जननी जन्मभूमिश्च _____ गरीयसी भवति ।
उत्तरम्: 
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी भवति ।


प्रश्न 10: चित्राणि दृष्ट्वा उचितान् श्लोकांशान् लिखन्तु ।
वयम् अभ्यासं कुर्मःउत्तरम्:
(क)
उद्यमेन हि सिध्यन्ति कार्याणि ।
(ख) पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम्।
(ग) जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ।
(घ) परहस्तगतं धनं धनं न ।
(ङ) उदारचरितानां तु वसुधैव कुटुम्बकम् ।

परियोजनाकार्यम्

(i) पाठस्य सर्वाणि सुभाषितानि बृहत् स्फोरकपत्रे सचित्रं लिखित्वा कक्षायाः भित्तौ स्थापयन्तु ।
उत्तरम्: स्वयेव कुर्वन्तु ।

(ii) सुभाषितेषु प्रयुक्तानां क्रियापदानां सूचीं कुर्वन्तु । तेषाम् आधारेण वाक्यरचनां कुर्वन्तु ।
उत्तरम्: 
सुभाषितेषु प्रयुक्तानां क्रियापदानां वाक्यरचना:-

  • भवन्ति - संस्कृते त्रीणि वचनानि भवन्ति ।
  • सन्ति - अन्नम् जलं सुभाषितं च रत्नानि सन्ति ।
  • सिध्यन्ति परिश्रमेण एव कार्याणि सिध्यन्ति ।
  • प्रविशन्ति - मृगाः सुप्तस्य सिंहस्य मुखे न प्रविशन्ति ।
  • वर्धन्ते - अभिवादनशीलस्य आयुः विद्या, यशः बलम् च वर्धन्ते ।
  • ददाति - विद्या विनयम् ददाति ।
  • आप्नोति - योग्य नरः जीवने सर्वसुखं आप्नोति ।
  • रोचते - मह्यम् मम देशं एव रोचते ।
  • यच्छन्ति - धनिकाः दरिद्रेभ्यः भोजनं यच्छन्ति ।

(iii) विद्या, उद्यम, अभिवादनशीलः, इत्यादिगुणाः येषु सन्ति तादृशानां पञ्चानां महापुरुषाणां जीवनपरिचयं पठन्तु लिखन्तु च ।
उत्तरम्: 

  1. पण्डित जवाहरलालनेहरू महोदयः पण्डित जवाहरलालनेहरू महोदयः स्वतन्त्र - भारतस्य प्रथमप्रधानमन्त्री आसीत् । तस्य जन्म उत्तरप्रदेशस्य प्रयागराजनगरे अभवत् । तस्य पिता मोतीलाल नेहरू माता च स्वरूपारानी आस्ताम्। सः आङ्ग्लदेशं उच्चशिक्षार्थम् अगच्छत्। स्वतन्त्रतासंग्रामे तस्य महत् योगदानम् आसीत्। स्वतन्त्रतायै सः बहुवारं कारागारम् अगच्छत् । सः कुशलः राजनीतिज्ञ: लेखक: च आसीत् । तस्य बालकान् प्रति प्रेमपूर्ण आचरणं आसीत् । एतदर्थं तस्य जन्मदिनम् अपि 'बालदिवस' इति रूपेण मन्यते।
  2. महात्मा गान्धिमहोदयः भारतीयानाम् प्रियः नेता महात्मा गान्धिमहोदयः अस्ति । तस्य पूर्णनाम 'मोहनदास करमचन्द गाँधी' अस्ति । तस्य जन्म गुजरातराज्ये 'पोरबन्दर' इति नगरे अभवत् । तस्य माता 'पुतलीबाई', पिता 'करमचन्द गाँधी' भार्या च 'कस्तूरबा ' आसन्। सः सत्ये अहिंसायां च विश्वसिति स्म । भारतस्य स्वतन्त्रतायै सः बहुवारं कारागृहम् अगच्छत् । 'राष्ट्रपिता' महात्मा, 'बापू' इत्यादिभिः उपाधिभिः भारतीयाः तस्य सम्मानं अद्यापि कुर्वन्ति ।
  3. स्वामी विवेकानन्दः विवेकानन्दस्य नाम नरेन्द्रनाथः आसीत् । सः रामकृष्ण परमहंसस्य शिष्यः आसीत्। भारतीयानाम् दुर्दशां परतन्त्रताम् च दृष्ट्वा तस्य मनः अति खिन्नम् अभवत् । अमेरिकादेशे शिकागोनगरे अखिल विश्व धार्मिक-सम्मेलने भाषणं कृत्वा अयं महापुरुषः प्रसिद्धि प्राप्तवान् । अयं युगपुरुष: सम्पूर्ण विश्वे प्रातः स्मरणीयः अस्ति ।
  4. महात्मा बुद्धः भारतवर्षे कपिलवस्तु नगरे राजपरिवारे अस्य जन्म अभवत् । अस्य नाम 'सिद्धार्थः ' आसीत्। पिता शुद्धोधनः आसीत् माता च मायादेवी । बाल्याकालात् एव सः गम्भीर विरक्तमनः दयालुः च आसीत् । अस्य विवाह: 'यशोधरा' नाम कन्यया सह अभवत् । 'राहुल: ' तस्य पुत्रः आसीत् । एकदा रात्रौ सः सर्वम् त्यक्त्वा गृहात् निर्गतः । स्थानात् स्थानं भ्रमन् सः बोधगयाम् अगच्छत् । तत्रैव सः वटमूले तपः अकरोत् महाबोधं च अलभत् । अत एव सः 'बुद्ध:' इति नाम्ना विख्यातः अभवत् । तेन बौद्धधर्मस्य प्रचारः प्रसारः च कृतः।
  5. स्वामी दयानन्दः भारतस्य प्रमुखः समाज सुधारक: स्वामी दयानन्दः आसीत् । तस्य जन्म भारतस्य गुजरातप्रदेशे 1824 तमे वर्षे फरवरी मासस्य 12 दिनांके अभवत् । अध्यात्मविषये तस्य विशेषरुचिः आसीत् । सः आर्यसमाजस्य स्थापना अकरोत् । सः वैदिक शिक्षायाः प्रचाराय प्रसाराय च कार्यम् अकरोत् । अस्पृश्यता जातिभेदः इत्यादीनां सामाजिक दोषाणाम् सः तीव्रं विरोधं अकरोत् । 'सत्यार्थ प्रकाश' इति तेन लिखित: महत्वपूर्ण: ग्रन्थः प्रसिद्धः अस्ति ।

(iv) "वसुधैव कुटुम्बकम्" इति विषये एकां भाषणप्रतियोगिताम् आयोजयन्तु ।
उत्तरम्:
'वसुधैव कुटुम्बकम्': सृष्टेः स्त्रष्टा ईश्वर: एकः एव अस्ति । संसारस्य सर्वे प्राणिनः ईश्वरस्य सन्ततिः । अतः सम्पूर्णे विश्वे स्थिताः जनाः रूप-वर्ण- भाषा-संस्कृति-भेदान् धारयन्तः अपि ते सर्वे समानाः एव सन्ति। अतः श्रेष्ठः जनः सर्वप्राणिषु समानं व्यवहारं करोति, सर्वे स्निह्यति ते कमपि न पीडयति । भारतीयाः एतदर्थम् कथयन्ति । 'सर्वे भवन्तु सुखिन: ' सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत्। अस्माकम् कृते तु वसुधैव कुटुम्बकम् इव अस्ति ।

The document NCERT Solutions: पृथिव्यां त्रीणि रत्नानि is a part of the Class 6 Course Sanskrit for Class 6.
All you need of Class 6 at this link: Class 6

FAQs on NCERT Solutions: पृथिव्यां त्रीणि रत्नानि

1. What are the three jewels of the earth mentioned in पृथिव्यां त्रीणि रत्नानि?
Ans. The three jewels of the earth are water, fire, and food, as per the NCERT Sanskrit text. These natural resources are considered precious because they sustain all life on Earth. Water quenches thirst, fire provides warmth and energy, while food nourishes the body. Understanding why ancient Sanskrit scholars valued these trinity of elements helps students grasp the philosophical significance behind the chapter's central message about Earth's invaluable treasures.
2. Why does the Sanskrit text emphasize that water, fire, and food are Earth's greatest treasures?
Ans. The chapter stresses these three elements because they're essential for human survival and well-being. Water hydrates living organisms, fire enables cooking and warmth, and food provides nutrition. The NCERT solution highlights how ancient Indian wisdom recognised these basic necessities as true wealth, not monetary riches. This conceptual approach teaches students to value natural resources over material possessions, fostering environmental consciousness and gratitude.
3. How should students interpret the Sanskrit meaning and message of रत्नानि in the context of this chapter?
Ans. रत्नानि means "jewels" or "precious things," but here it refers to natural resources rather than gemstones. The chapter uses this metaphor to elevate Earth's basic elements to treasure status. Students should understand that the Sanskrit lesson redefines wealth by emphasising sustainability and life-sustenance. Refer to mind maps and flashcards available on EduRev to visualise how ancient Sanskrit texts convey environmental values through poetic language and symbolic meaning.
4. What is the main moral lesson students should take from पृथिव्यां त्रीणि रत्नानि for Class 6?
Ans. The core moral teaches that true wealth lies in nature's fundamental gifts, not artificial riches. Students learn to respect and conserve water, fire, and food as irreplaceable resources. The CBSE NCERT solution emphasises gratitude, responsibility, and sustainable living. This philosophical perspective encourages young learners to develop environmental awareness and understand that protecting Earth's resources is essential for collective survival and prosperity.
5. How can Class 6 students remember and revise the Sanskrit vocabulary and themes from this chapter effectively?
Ans. Students should use structured revision tools like detailed notes, PPTs, and MCQ tests to reinforce Sanskrit vocabulary. Breaking the chapter into themes-water's importance, fire's utility, food's nourishment-aids memorisation. Regular practice with flashcards helps retain Sanskrit terms and their meanings. EduRev offers comprehensive study resources including visual worksheets and mind maps specifically designed for Class 6 Sanskrit learners to master both linguistic concepts and thematic understanding efficiently.
Explore Courses for Class 6 exam
Get EduRev Notes directly in your Google search
Related Searches
MCQs, shortcuts and tricks, practice quizzes, video lectures, Free, Important questions, Viva Questions, Summary, NCERT Solutions: पृथिव्यां त्रीणि रत्नानि, study material, Semester Notes, NCERT Solutions: पृथिव्यां त्रीणि रत्नानि, Objective type Questions, Previous Year Questions with Solutions, Exam, past year papers, ppt, mock tests for examination, NCERT Solutions: पृथिव्यां त्रीणि रत्नानि, Sample Paper, pdf , Extra Questions;