CBSE Class 6  >  Class 6 Notes  >  Sanskrit  >  NCERT Solutions: आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः

NCERT Solutions: आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः

वयम् अभ्यासं कुर्मः

प्रश्न 1. अधोलिखितानां प्रश्नानाम् एकपदेन उत्तराणि यच्छन्तु।
(क) भिक्षुकः किं करोति स्म ? _______
उत्तरम्:
भिक्षाटनं 

(ख) कदाचित् तेन मार्गेण कः आगच्छति ? _______
उत्तरम्:
धनिकः

(ग) भिक्षुकः धनिकात् किम् इच्छति ? _______
उत्तरम्: 
प्रभूतं धनं

(घ) धनिकः भिक्षुकात् किं याचितवान् ? _______
उत्तरम्: 
पादौ / हस्तौ / शरीराङ्गानि

(ङ) सौभाग्येन वयं किं प्राप्तवन्त: ? _______
उत्तरम्:
मानवजन्म


प्रश्न 2. अधोलिखितानां प्रश्नानाम् उत्तराणि 'आम्' अथवा 'न' इति पदेन लिखन्तु ।
यथा - ग्रामे कश्चन भिक्षुकः आसीत् । आम्
(क) भिक्षुकः उन्नतः दृढकाय: च आसीत् ।
उत्तरम्: 
आम्

(ख) जनाः तस्मै दण्डं यच्छन्ति । _______
उत्तरम्: 

(ग) भिक्षुकः प्रभूतं धनम् इच्छति । _______
उत्तरम्: 
आम्

(घ) भिक्षुकः धनिकाय पादौ ददाति । _______
उत्तरम्:

(ङ) भिक्षुकः भिक्षाटनं त्यजति । _______
उत्तरम्:
आम्।


प्रश्न 3. अधोलिखितेषु वाक्येषु द्वितीयाविभक्तेः शब्दानां द्विवचने परिवर्तनं कृत्वा वाक्यानि लिखन्तु ।
यथा - चन्द्रशेखरः लेखं लिखति ।
चन्द्रशेखरः लेख लिखति ।
(क) आपणिकः अड्कनीं ददाति ।
उत्तरम्: आपणिक: अकन्यौ ददाति ।

(ख) मातामही कथां श्रावयति ।
उत्तरम्: मातामही कथे श्रावयति ।

(ग) सैनिक: मां रक्षति ।
उत्तरम्: सैनिक : आवाम् रक्षति ।

(घ) कृष्णः कन्दुके गृह्णाति ।
उत्तरम्: कृष्णः कन्दुकं गृह्णाति ।

(ङ) छात्रः श्लोकं पठति ।
उत्तरम्: छात्रः श्लोकौ पठति ।


प्रश्न 4. चित्रं दृष्ट्वा द्वितीयाविभक्तेः वाक्यानि रचयन्तु ।
वयम् अभ्यासं कुर्मः

(i) बालिकाः ______ गच्छन्ति ।
उत्तरम्:
बालिकाः विद्यालयं गच्छन्ति ।

(ii) पक्षिणः ______ खादन्ति ।
उत्तरम्: 
पक्षिणः फलानि खादन्ति ।

(iii) शिक्षक: ______ पाठयति ।
उत्तरम्: 
शिक्षक पाठं पाठयति ।

(iv) नर्तकी ______ धरति ।
उत्तरम्:  
नर्तकी मालाम् धरति ।

(v) अहं ______ स्वीकरोमि ।
उत्तरम्: 
अहम् लेखनी/कलमम् स्वीकरोमि ।


प्रश्न 5. कोष्ठके विद्यमानानां शब्दानां द्वितीयाविभक्तेः एकवचनरूपेण सह वाक्यानि लिखन्तु ।
यथा - भक्त: (देव) नमति । भक्तः देवं नमति ।
(क) छात्रा : (ग्रन्थ) पठन्ति ।
उत्तरम्: 
छात्रः ग्रन्थं पठति ।

(ख) बालकाः (कथा) लिखन्ति ।
उत्तरम्:
बालकः कथाम् लिखति ।

(ग) रमा (लेखनी) क्रीणाति ।
उत्तरम्: 
रमा लेखनीं क्रीणाति ।

(घ) शिक्षक (अस्मद्) पाठयति ।
उत्तरम्: 
शिक्षकः माम् पाठयति ।

(ङ) अर्जुन : (नदी) पश्यति ।
उत्तरम्:
अर्जुनः नदीं पश्यति ।

(च) पितामही (रजनी) आह्वयति ।
उत्तरम्: 
पितामही रजनीं आह्वयति ।

(छ) अहं (युष्मद्) नमस्करोमि ।
उत्तरम्:
अहं त्वाम् नमस्करोमि ।

(ज) कृषकः (क्षेत्र) कर्षति ।
उत्तरम्:
कृषकः क्षेत्रं कर्षति ।

(झ) पर्यटक : (कन्याकुमारी ) गच्छति ।
उत्तरम्: 
पर्यटक: कन्याकुमारीं गच्छति ।

(ञ) चित्रकार: (चित्र) रचयति ।
उत्तरम्:
चित्रकार: चित्रं रचयति ।


प्रश्न 6. द्वितीयाविभक्तेः एकवचनशब्दानां बहुवचने परिवर्तनं कृत्वा वाक्यानि रचयन्तु ।
यथा-वयं सुभाषितं वदामः ।
वयं सुभाषितानि वदामः ।
(क) अरुणः दूरवाणीं नयति ।
उत्तरम्: अरुणः दूरवाणी: नयति ।

(ख) पिता लेखनीम् आनयति ।
उत्तरम्: पिता लेखनीः आनयति ।

(ग) जननी पाकं पचति ।
उत्तरम्: जननी पाकानि पचति ।

(घ) मातामहः मां बोधयति ।
उत्तरम्: मातामहः अस्मान् बोधयति ।

(ङ) अग्रजा त्वाम् आह्वयति ।
उत्तरम्: अग्रजा युष्मान् आह्वयति ।


प्रश्न 7. अधः प्रदत्तं चित्रं दृष्ट्वा द्वितीयाविभक्तेः प्रयोगं कृत्वा दश वाक्यानि रचयन्तु ।
वयम् अभ्यासं कुर्मःउत्तरम्:

  1. शिक्षक: छात्रान् योगासनं शिक्षयति ।
  2. छात्राः योगासनम् कुर्वन्ति ।
  3. छात्रे भोजनं खादतः ।
  4. एका छात्रा जलं यच्छति ।
  5. ते मिलित्वा भोजनं खादतः ।
  6. एक: बालक: कन्दुकम् क्षिपति ।
  7. बालकाः कन्दुकक्रीडाम् क्रीडन्ति ।
  8. बालक: संगणकं पश्यति ।
  9. विद्यालये विशालं क्रीडाक्षेत्रं अस्ति ।
  10. विद्यालये उन्नताः वृक्षाः सन्ति ।


प्रश्न 8. योग्यताविस्तरः
(i) उदाहरणानुसारम् अधोलिखितानां पदानां द्वितीयाविभक्तेः रूपाणि लिखन्तु अवगच्छन्तु च ।
वयम् अभ्यासं कुर्मःउत्तरम्:
वयम् अभ्यासं कुर्मः

(ii) अधोलिखितान् श्लोकान् पठन्तु, अवगच्छन्तु स्मरन्तु च।
विना वेदं विना गीतां विना रामायणीं कथाम् ।
विना कविं कालिदासं भारतं भारतं न हि ॥

भावार्थ:- वेदं विना गीतां विना रामायणीं कथां विना, कालिदासं विना च भारतं भारतं न हि भवति । अर्थात् भारतस्य वास्तविकं स्वरूपं वेदे गीतायां, रामायणे, कालिदासस्य काव्येषु च द्रष्टुं शक्यते ।
उत्तरम्: वेद के बिना, गीता के बिना, रामायण कथा के बिना, कवि कालिदास के बिना भारत भारत नहीं। अर्थात् वास्तविक भारत वेद, रामायण, गीता और कवि कालिदास के काव्यों में देख सकते हैं।

रामं स्कन्दं हनूमन्तं वैनतेयं वृकोदरम् ।
शयने यः स्मरेन्नित्यं दुःस्वप्नस्तस्य नश्यति ।

भावार्थ:- य: नित्यं शयनकाले रामं स्कन्दं हनूमन्तं वैनतेयं वृकोदरं च स्मरति तस्य दुःस्वप्नं नश्यति ।
उत्तरम्: सोते समय जो श्रीराम, कार्तिकेय, हनुमान, गरूड़ एवं भीम का स्मरण करता है उसके दुःस्वप्नों का नाश होता है।

गतिविधि-कार्यम्

भाषाक्रीडा

बालकाः गणद्वये विभजनीयाः । शिक्षक: प्रथमाविभक्त्यन्तं कमपि शब्दं वदति ।
प्रथमगणस्य कश्चन छात्रः तस्य एव शब्दस्य द्वितीयाविभक्तेः एकवचनरूपं वदेत् । ततश्च द्वितीयगणस्य कश्चन छात्रः तस्यैव पदस्य बहुवचनरूपं वदेत् । यस्य गणस्य छात्राः शुद्धं पदं वदन्ति तस्मै गणाय शिक्षकः अङ्कान् यच्छेत् । एवमेव द्वितीयाविभक्तेः वाक्यनिर्माणस्य क्रीडा अपि भवितुम् अर्हति।


प्रश्न 8. परियोजनाकार्यम्
(i) पाठे दर्शितानां चित्राणाम् अनुसारं द्वितीयाविभक्तेः प्रयोगं कृत्वा दश वाक्यानि रचयन्तु ।
उत्तरम्: 
अस्मिन् चित्रे माता पुत्रम् विद्यालयं गन्तुम् कथयति ।
पुत्रः आलस्यं करोति ।
स: विद्यालयं गन्तुम् न इच्छति ।
माता पुत्रम् परिश्रमं कर्तुम् कथयति ।
एक भिक्षुकः धनिकं धनम् याचति ।
भिक्षुकः भिक्षाटनं करोति ।
धनिकः तस्मै धनं न ददाति ।
धनिकः भिक्षुकस्य शरीरस्य अंगानि क्रेतुम् इच्छति ।
भिक्षुकः भिक्षाटनं त्यजति ।
परिश्रमं कृत्वा धनार्जनं करोति ।

(ii) द्वितीयाविभक्तेः आधारेण स्वदिनचर्यायाः विषये दश वाक्यानि लिखन्तु ।
उत्तरम्:

स्वदिनचर्यायाः विषये दशवाक्यानि -
अहम् प्रातः उत्थाय भूमिं ईशं च नमामि ।
ततः पितरौ नमामि ।
प्रातः स्नानादिकं कृत्वा प्रातराशं करोमि ।
अष्टवादने विद्यालयं गच्छामि ।
द्विवादने गृहम् आगत्य भोजनं करोमि ।
तत्पश्चात् स्वाध्यायम् गृहकार्यं च करोमि ।
अहम् सायकाले मित्रैः सह उद्यानं गच्छामि।
वयं तत्र अनेकाः क्रीडाः क्रीडामः ।
गृहम् आगत्य परिवारजनैः सह दूरदर्शनं पश्यामि ।
रात्रौ रात्रिभोजनं कृत्वा शयनं करोमि ।

(iii) किं भवन्तः एवरेस्ट पर्वतारोहिणीम् अरुणिमा- सिन्हां जानन्ति ? तस्याः विषये शोधं कृत्वा स्वभाषया दशवाक्यैः निबन्धं लिखन्तु ।
उत्तरम्:

एवरेस्ट पर्वतारोहिणीम् अरुणिमा सिन्हां

अरुणिमाया: जन्म उत्तरप्रदेशे अम्बेडकरनगरे अभवत्। तस्याः पिता भारतीयसेनायाम् कार्यरतः आसीत् माता च स्वास्थ्य विभागे कार्यम् अकरोत् । अरुणिमा 'हस्तकन्दुकं' इति क्रीडायाः राष्ट्रीय क्रीडका आसीत् । सा भारतीयसेनायाम् कार्यं कृत्वा स्वदेशस्य सेवाम् कर्तुम् ऐच्छत् । परम् एकस्मिन् रेलदुर्घटनायाम् तस्याः एकं पादं क्षतिग्रस्तम् अभवत् । तर्हि सा साहसी बालिका एवरेस्ट पर्वतारोहिणी प्रथमा दिव्यांग महिला अभवत् । भारतीय सर्वकारः अरुणिमां 'पद्म श्री' इति सर्वोच्च पुरस्कारेण सम्मानितम् अकरोत् । धन्या एषा साहसी महिला !

The document NCERT Solutions: आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः is a part of the Class 6 Course Sanskrit for Class 6.
All you need of Class 6 at this link: Class 6
Explore Courses for Class 6 exam
Get EduRev Notes directly in your Google search
Related Searches
NCERT Solutions: आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः, shortcuts and tricks, Objective type Questions, practice quizzes, NCERT Solutions: आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः, Previous Year Questions with Solutions, MCQs, Important questions, Free, Viva Questions, Summary, Exam, pdf , NCERT Solutions: आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः, study material, Sample Paper, ppt, video lectures, past year papers, Extra Questions, mock tests for examination, Semester Notes;