CBSE Class 6  >  Class 6 Notes  >  Sanskrit  >  NCERT Solutions: वृक्षा: सत्पुरुषा: इव

NCERT Solutions: वृक्षा: सत्पुरुषा: इव

वयम् अभ्यासं कुर्मः

प्रश्न 1. पाठे लिखितानि सुभाषितानि सस्वरं पठन्तु, अवगच्छन्तु, लिखन्तु स्मरन्तु च ।
उत्तरम्: 
स्वयेव कुर्वन्तु ।


प्रश्न 2. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु ।
(क) वृक्षा: स्वयं कुत्र तिष्ठन्ति ?
उत्तरम्: 
आतपे

(ख) परोपकाराय का वहन्ति ?
उत्तरम्:
नद्यः

(ग) दशवापीसमः कः भवति ?
उत्तरम्:
हृदः

(घ) सत्पुरुषाः इव के सन्ति?
उत्तरम्: 
वृक्षा:

(ङ) अर्थिनः केभ्यः विमुखाः न यान्ति ?
उत्तरम्: 
वृक्षेभ्यः महीरुहेभ्यः

(च) वृक्षा: स्वयं कानि न खादन्ति ?
उत्तरम्:
फलानि


प्रश्न 3. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु ।
वयम् अभ्यासं कुर्मः(क) नद्यः किं न पिबन्ति ?
उत्तरम्: नद्यः स्वयमेव अम्भः न पिबन्ति ।

(ख) वृक्षाः अस्मभ्यं किं किं यच्छन्ति ?
उत्तरम्: वृक्षाः अस्मभ्यं पुष्पं फलं, छायां, मूलं वल्कलं, दारूं च यच्छन्ति ।

(ग) इदं शरीरं किमर्थम् अस्ति ?
उत्तरम्: इदं शरीरं परोपकाराय अस्ति ।

(घ) दशपुत्रसमः कः भवति ?
उत्तरम्: दशपुत्रसम: द्रुमः भवति ।

(ङ) केषां विभूतयः परोपकाराय भवन्ति ?
उत्तरम्: सतां विभूतयः परोपकाराय भवन्ति ।

(च) अन्यस्य छायां के कुर्वन्ति ?
उत्तरम्: अन्यस्य छायां वृक्षाः कुर्वन्ति ।


प्रश्न 4. पट्टिकातः उचितानि पदानि चित्वा रिक्तस्थानानि पूरयन्तु ।
वयम् अभ्यासं कुर्मःयथा - छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे ।.
(क) फलान्यपि परार्थाय ________ सत्पुरुषा इव ।
उत्तरम्:
वृक्षा:

(ख) दशह्रदसमः पुत्र ________ समो द्रुमः ।
उत्तरम्: 
दशपुत्रः

(ग) ________ येषां वै विमुखा यान्ति नार्थिनः ।
उत्तरम्:
सुजनस्येव

(घ) ________ इदं शरीरम् ।
उत्तरम्:
परोपकाराय

(ङ) स्वयं न खादन्ति ________ वृक्षाः ।
उत्तरम्: 
फलानि

(च) परोपकाराय सतां ________ ।
उत्तरम्:
विभूतयः


प्रश्न 5. उदाहरणानुसारम् अधोलिखितेषु वाक्येषु स्थूलाक्षरपदानां विभक्तिं निर्दिशन्तु ।
यथा - वृक्षाः अन्यस्य कृते छायां कुर्वन्ति । द्वितीया विभक्ति
(क) वृक्षाः परार्थाय फलानि यच्छन्ति । ________
उत्तरम्: फलानि - द्वितीया विभक्ति

(ख) वृक्षाः सत्पुरुषाः इव सन्ति । ________
उत्तरम्: सत्पुरुषाः - प्रथमा विभक्ति

(ग) द्रुमः दशसन्तानसमः भवति । ________
उत्तरम्: द्रुमः - प्रथमा विभक्ति

(घ) वृक्ष: प्राणिभ्यः काष्ठानि यच्छति । ________
उत्तरम्: प्राणिभ्यः - चतुर्थी विभक्ति

(ङ) नद्यः जलं स्वयमेव न पिबन्ति । ________
उत्तरम्: नद्यः - प्रथमा विभक्ति

(च) सज्जनानां सङ्गतिं करोतु । ________
उत्तरम्: सङ्गतिं - द्वितीया विभक्ति


प्रश्न 6. अधोलिखितानां पदानां द्विवचने बहुवचने च रूपाणि लिखन्तु ।
वयम् अभ्यासं कुर्मः
यथा- वृक्षः वृक्षौ वृक्षा
उत्तरम्:
(क) मेघ: - मेघौ -  मेघाः
(ख) हृदः - हृदौ -  हृदा:
(ग) सत्पुरुषः सत्पुरुषौ  - सल्पुरुषाः
(घ) छाया - छाये  - छाया:
(ङ) वापी  - वाप्यौ - वाप्यः
(च) नदी -  नद्यौ - नद्यः
(छ) शरीरम्  - शरीरे - शरीराणि
(ज) पुष्पम्  - पुष्पे  - पुष्पाणि


प्रश्न 7. अधोलिखितानां पदानां परस्परं समुचितं मेलनं कृत्वा 'कः किं ददाति' इति लिखन्तु ।
(क) वृक्षः दुग्धम् वृक्षः शुद्धं वायुं ददाति ।
(ख) गौ: प्रकाशं ______
(ग) सूर्य: विद्यां ______
(घ) नदी शुद्धं वायुं ______
(ङ) अग्निः जलम्ं ______
(च) शिक्षक: तापं ______
उत्तरम्:

(क) वृक्षः - वृक्षः शुद्धं वायुं ददाति ।
(ख) गौ: - गौ: दुग्धं ददाति ।
(ग) सूर्य: - सूर्य: प्रकाशं ददाति ।
(घ) नदी - नदी जलं ददाति ।
(ङ) अग्निः - अग्निः तापं ददाति
(च) शिक्षक: - शिक्षक: विद्यां ददाति ।


प्रश्न 8. अधोलिखितानां क्रियापदानां लट्लकारे प्रथमपुरुषस्य रूपाणि लिखन्तु ।
यथा - कुर्वन्ति - करोति कुरुतः कुर्वन्ति
उत्तरम्:

  • तिष्ठन्ति - तिष्ठति - तिष्ठतः - तिष्ठन्ति
  • फलन्ति - फलति - फलतः - फलन्ति
  • यान्ति - याति - यातः - यान्ति
  • पिबन्ति - पिबति - पिबतः - पिबन्ति
  • खादन्ति - खादति - खादतः - खादन्ति


योग्यताविस्तारः
प्रश्न 9.अधोलिखितां प्रहेलिकां पठित्वा उत्तरं वदन्तु ।
वयम् अभ्यासं कुर्मः

उत्तरम्: नारिकेलम्।


परियोजनाकार्यम्
प्रश्न 10. विद्यालयं गृहं वा परितः विद्यमानानां पञ्च-पादपानां (वृक्षाणां) संरक्षणं कुर्वन्तु ।
उत्तरम्
: छात्राः स्वयमेव कुरुत ।

प्रश्न 11.अन्तर्जालस्य साहाय्येन परोपकारविषये दश- सुभाषितानां संग्रहणं कुर्वन्तु ।
उत्तरम्

परोपकारविषये सुभाषितानि
  1. अष्टादश पुराणेषु व्यासस्य वचनद्वयम् ।
    परोपकारः पुण्याय पापाय परपीडनम् ।।
  2. परोपकारशून्यस्य धिक् मनुष्यस्य जीवितम् ।
    जीवन्तु पशवः येषां चर्माप्युपकरिष्यति ।।
  3. आत्मार्थं जीवलोकेऽस्मिन् को न जीवति मानवः ।
    परं परोपकारार्थं यो जीवति सः जीवति ।।
  4. परोपकरणं येषां जागर्ति हृदये सताम् ।
    नश्यन्ति विपदः तेषां सम्पदः स्युः पदे पदे ।।
  5. भवन्ति नम्रः तरवः फलोद्गमैः ।
    नवाम्बुभिर्दूरविलम्बनो घनाः ।
    अनुद्धताः सत्पुरुषाः समृद्धिभिः । स्वभाव एवैष परोपकारिणाम् ।।
  6. रत्नाकरः किं कुरुते स्वरत्नैः, विन्ध्याचलः किं करिभिः करोति ।
    श्रीखण्डखण्डैर्मलयाचलः किं परोपकाराय सतां विभूतयः ।।
  7. 'परेषाम् उपकारः एव परोपकारः कथ्यते ।
  8. 'स्वार्थम् विहाय अन्येषां हितं क्रियते तदेव परोपकारः ।
  9. 'फलानि अपि परार्थाय वृक्षाः सत्पुरुषाः इव ।'
  10. पिबनि नद्यः स्वयमेव नाम्भः
    स्वयं न खादन्ति फलानि वृक्षाः ।
    नादन्ति सस्यं खलु वारिवाहाः
    परोपकाराय सतां विभूतयः ॥
The document NCERT Solutions: वृक्षा: सत्पुरुषा: इव is a part of the Class 6 Course Sanskrit for Class 6.
All you need of Class 6 at this link: Class 6

FAQs on NCERT Solutions: वृक्षा: सत्पुरुषा: इव

1. What does वृक्षा: सत्पुरुषा: इव mean in simple Sanskrit for Class 6?
Ans. Trees are like virtuous persons-this phrase teaches that trees resemble good people through their selfless nature. The Sanskrit text uses analogy to show how trees benefit others without expecting rewards, just as noble individuals serve society. Understanding this comparison helps students grasp Sanskrit grammar and moral values simultaneously through NCERT Sanskrit lessons.
2. How do trees act like सत्पुरुष (virtuous persons) according to the chapter?
Ans. Trees provide oxygen, food, shelter, and shade to all living beings without discrimination or expectation of return, mirroring the conduct of virtuous persons. They serve their communities silently and continuously, demonstrating selflessness and sacrifice. This Sanskrit lesson emphasizes that both trees and righteous individuals possess qualities of generosity, humility, and unconditional service to humanity.
3. What are the key Sanskrit grammatical concepts tested in वृक्षा: सत्पुरुषा: इव for CBSE Class 6?
Ans. The chapter focuses on nominative case usage, feminine noun declensions, comparison structures using इव (like/as), and verb conjugations. Students encounter पञ्चमी विभक्ति (ablative case) and adjective agreement patterns. NCERT Sanskrit solutions highlight these grammatical foundations through the analogy of trees and virtuous persons, preparing learners for advanced syntax and composition skills.
4. Why do Sanskrit textbooks compare trees to virtuous men in this chapter?
Ans. Sanskrit literature traditionally uses nature analogies to teach ethical principles and character development. Comparing trees to सत्पुरुष illustrates universal values like benevolence, patience, and selflessness through relatable examples. This pedagogical approach helps Class 6 students retain moral lessons while studying grammar, vocabulary, and cultural wisdom embedded in classical Sanskrit texts.
5. What vocabulary and word meanings should I memorize from this NCERT Sanskrit chapter?
Ans. Essential terms include वृक्ष (tree), सत्पुरुष (virtuous person), इव (like/as), फल (fruit), छाया (shade), and मूल (root). Students should also learn adjectives describing qualities such as सज्जन (noble) and दयालु (compassionate). Consulting mind maps and flashcards on EduRev helps reinforce these Sanskrit vocabulary items for better retention and exam readiness.
Explore Courses for Class 6 exam
Get EduRev Notes directly in your Google search
Related Searches
past year papers, MCQs, NCERT Solutions: वृक्षा: सत्पुरुषा: इव, Exam, NCERT Solutions: वृक्षा: सत्पुरुषा: इव, Summary, shortcuts and tricks, Semester Notes, practice quizzes, Sample Paper, pdf , video lectures, Previous Year Questions with Solutions, NCERT Solutions: वृक्षा: सत्पुरुषा: इव, Extra Questions, Viva Questions, Free, study material, Important questions, Objective type Questions, mock tests for examination, ppt;