1. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु-
(क) शुभं भवतु इति का वदति?
उत्तरम्: आचार्या
(ख) योगिता आचार्यां 'किं शिक्षयतु' इति वदति?
उत्तरम्: सूर्यनमस्कारं
(ग) सूर्यनमस्कारः कतीनाम् आसनानां समाहारः अस्ति?
उत्तरम्: द्वादशानाम्
(घ) केषु सूर्यनमस्कारः श्रेष्ठ:?
उत्तरम्: योगासनेषु
(ङ) सूर्यनमस्कारेण जनाः कीदृशं शरीरं प्राप्नुवन्ति?
उत्तरम्: स्वस्थम्
2. अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु-
(क) सर्वे छात्रा: आचार्यां किं पृच्छन्ति?
उत्तरम्: सर्वे छात्रा: आचार्याम् योगासनानाम् विषये पृच्छन्ति।
(ख) सूर्यनमस्कारः इत्यनेन कः आशय:?
उत्तरम्: सूर्यनमस्कार: द्वादशानाम् योगासनानाम् समाहारः अस्ति।
(ग) आचार्या कं श्लोकं पाठयति?
उत्तरम्: आदित्यस्य नमस्कारान् ये कुर्वन्ति दिने दिने। आयुः प्रज्ञा बलं वीर्यं तेजस्तेषां च जायते। इति श्लोकम् आचार्या पाठयति।
(घ) सूर्यनमस्कारस्य प्रथमः मन्त्रः कः?
उत्तरम्: सूर्यनमस्कारस्य प्रथमः मन्त्रः 'ॐ मित्राय नमः' अस्ति।
(ङ) सूर्यनमस्कारेण कीदृशं बलं वर्धते?
उत्तरम्: सूर्यनमस्कारेण शारीरिक, मानसिकम्, आध्यात्मिकं च बलं वर्धते।
3. पाठात् समुचितं पदं चित्वा अधः रिक्तस्थानानि पूरयन्तु-
(क) प्रत्येकस्मात् _______________ पूर्वम् एकः मन्त्रः भवति।
उत्तरम्: सूर्यनमस्कारात्
(ख) वयं प्रतिदिनं _______________ करवाम।
उत्तरम्: सूर्यनमस्कारम्
(ग) स्वस्थं _______________ स्वस्थं _______________ च प्राप्नवाम।
उत्तरम्: शरीरं मनः
(घ) एकेन _______________ सूर्यनमस्कारस्य बहूनि प्रयोजनानि वदामि।
उत्तरम्: श्लोकेन
(ङ) आदित्यस्य _______________ ये कुर्वन्ति दिने दिने।
उत्तरम्: नमस्कारान्


4. पाठे विद्यमानानां 'नमः' युक्तशब्दानां सङ्ग्रहं कृत्वा लिखन्तु-
उत्तरम्:
(क) रवये नमः।
(ख) सूर्याय नमः।
(ग) भानवे नमः।
(घ) खगाय नमः।
(ङ) पूष्णे नमः।
(च) हिरण्यगर्भाय नमः।
(छ) मरीचये नमः।
(ज) आदित्याय नमः।
(झ) सवित्रे नमः।
(ञ) अर्काय नमः।
(ट) भास्कराय नमः।
5. उदाहरणानुसार कोष्ठकात् पदानि स्वीकृत्य वाक्यानि रचयन्तु-


उत्तरम्:
(क) आचार्यायै नमः।
(ख) त्रिवर्णध्वजाय नमः।
(ग) जनकाय नमः।
(घ) वृक्षाय नमः।
(ङ) देव्यै नमः।
(च) भगिन्यै नमः।
(छ) मातामह्यै नमः।
(ज) जनन्यै नमः।
(झ) पृथिव्यै नमः।
(ञ) नद्यै नमः।

6. कोष्ठके विद्यमानानां शब्दानां चतुर्थी विभक्तेः रूपाणि प्रयुज्य वाक्यानि पुनः लिखन्तु-
यथा- सैनिक: (देश) जीवनं प्रयच्छति। - सैनिक: देशाय जीवनं प्रयच्छति।
(क) माता (याचक) वस्त्रं ददाति। ____________________
उत्तरम्: माता याचकाय वस्त्रं ददाति।
(ख) पौत्रः (पितामही) औषधं ददाति। ____________________
उत्तरम्: पौत्रः पितामह औषधं ददाति।
(ग) अहं (भगिनी) उपायनं ददामि। ____________________
उत्तरम्: अहम् भगिन्यै उपायनं ददामि।
(घ) पिता (सेविका) वेतनं ददाति। ____________________
उत्तरम्: पिता सेविकायै वेतनं ददाति।
(ङ) त्वं (मित्र) पुष्पं ददासि। ____________________
उत्तरम्: त्वं मित्राय पुष्पं ददासि।
(च) देव: (भक्त) आशीर्वादं ददाति। ____________________
उत्तरम्: देव भक्ताय आशीर्वाद ददाति।
(छ) आरक्षक: (चोर) दण्डं ददाति। ____________________
उत्तरम्: आरक्षक: चौराय दण्डं ददाति।
7. उदाहरणानुसारं माता कस्मै / कस्यै धनं ददाति इति कोष्ठके विद्यमानानि पदानि उपयुज्य लिखन्तु-

(क) माता पुत्र्यै धनं ददाति।
(ख) ________________________
(ग) ________________________
(घ) ________________________
(ङ) ________________________
(च) ________________________
उत्तरम्:
(क) माता पुत्र्यै धनं ददाति।
(ख) माता पुत्राय मोदकं ददाति।
(ग) माता पाचिकायै वेतनं ददाति।
(घ) माता आपणिकाय रूप्यकाणि ददाति।
(ङ) माता याचकाय भोजनम् ददाति।
(च) माता कर्मकर्यै वेतनं ददाति।
8. उदाहरणानुसारं रिक्तस्थानानि पूरयन्तु-
उत्तरम्:
(क) भक्ताभ्याम्
(ख) सेविकायै, सेविकाभ्यः
(ग) अनुजाभ्याम्, अनुजाभ्यः
(घ) गृहिण्यै, गृहिणीभ्यः
(ङ) कुमारीभ्यः
(च) वनाभ्याम्, वनेभ्यः
(छ) मित्राय, मित्राभ्याम्
| 1. मित्राय नमः पाठ का मुख्य विषय क्या है ? | ![]() |
| 2. पाठ में मित्रता के क्या गुण बताए गए हैं ? | ![]() |
| 3. क्या मित्रता केवल इंसानों तक सीमित है ? | ![]() |
| 4. विद्यार्थी मित्रता को कैसे बढ़ावा दे सकते हैं ? | ![]() |
| 5. इस पाठ से हमें क्या सीखने को मिलता है ? | ![]() |