1. एकः शृगालः इति गीतस्य साभिनयं कक्षायां गानं कुर्वन्तु।
उत्तरम्: छात्राः स्वयमेव कुर्वन्तु।
2. अधः प्रदत्तानां प्रश्नानाम् एकपदेन पदद्वयेन वा उत्तरं लिखन्तु-
(क) कः वनं गच्छति? ________________________
उत्तरम्: शृगालः
(ख) शृगालः कां पश्यति? ________________________
उत्तरम्: द्राक्षालताम्
(घ) शृगालः किं पश्यति? ________________________
उत्तरम्: द्राक्षाफलम्
(ङ) द्राक्षाफलं कुत्र दृश्यते? ________________________
उत्तरम्: लतासु
(छ) किम् शृगाल: द्राक्षाफलं प्राप्नोति? ________________________ (आम्/न)
उत्तरम्: न
3. अधः प्रदत्तानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखन्तु-
(क) शृगालः कथं वनं गच्छति? ________________________
उत्तरम्: शृगालः पिपासया बुभुक्षया च वनं गच्छति।
(ग) शृगाल: द्राक्षाफलं कुत्र पश्यति? ________________________
उत्तरम्: शृगालः उपरि लतासु द्राक्षाफलं पश्यति।
(घ) द्राक्षाफलं दृष्ट्वा कस्य मुखे रसः जायते? ________________________
उत्तरम्: द्राक्षाफलं दृष्ट्वा शृगालस्य मुखे रसः जायते।
(ङ) अन्ते शृगालः किं वदति? ________________________
उत्तरम्: अन्ते शृगालः वदति यत् द्राक्षाफलम् आम्लम् अस्ति।

4. उपरि प्रदत्तां मञ्जूषां दृष्ट्वा रिक्तस्थानेषु उचित- क्रियापदाति लिखन्तु-

उत्तरम्:
5. उदाहरणानुसारम् एकवचनरूपं दृष्ट्वा द्विवचन-बहुवचनरूपाणि लिखन्तु-
उत्तरम्:
(क) वर्धते - वर्धन्ते
(ख) वर्तेथे - वर्तध्वे
(ग) प्रकाश्येते - प्रकाश्यन्ते
(घ) वन्दावहे - वन्दामहे
(ङ) याचेते - याचन्ते
(च) लज्जेथे - लज्जध्वे
(छ) वीक्षेते - वीक्षन्ते
(ज) सेवेथे - सेवध्वे
(झ) वन्देथे - वन्दध्वे
(ञ) शोभेते - शोभन्ते
6. उदाहरणानुसारं वाक्यद्वयं लिखन्तु-

उत्तरम्:
(क) वृक्ष: वर्धते। बालाः वर्धन्ते।
(ख) छात्रः वन्दते। भक्ताः वन्दन्ते।
(ग) वैद्यः वीक्षते। प्रेक्षका: वीक्षन्ते।
(घ) कर्मचारी सेवते। महिलाः सेवन्ते।
(ङ) वृक्षः कम्पते। रुग्णाः कम्पन्ते।
7. उदाहरणं दृष्ट्वा वाक्यानि उचितरूपैः पूरयन्तु-
(क) शुनकं दृष्ट्वा बालकस्य भयं (जाय्) शुनकं दृष्ट्वा बालकस्य भयं जायते।
(ख) मूषकः मार्जारं दृष्ट्वा (पलाय्) _____________________________
(ग) रात्रिकाले मार्गदीपा: (प्रकाश्) _____________________________
(घ) अहं देवं (वन्द्) _____________________________
(ङ) त्वं किमर्थं (लज्ज्) _____________________________
(च) वयं देशं (सेव्) _____________________________
उत्तरम्:
(क) शुनकं दृष्ट्वा बालकस्य भयं जायते।
(ख) मूषकः मार्जारं दृष्ट्वा पलायते।
(ग) रात्रिकाले मार्गदीपाः प्रकाश्यन्ते।
(घ) अहं देवं वन्दे।
(ङ) त्वं किमर्थं लज्जसे।
(च) वयं देशं सेवामहे।
| 1. "न लभ्यते चेत् आम्लं द्राक्षाफलम्" का मुख्य विषय क्या है? | ![]() |
| 2. द्राक्षा के गुण क्या हैं और वे किस प्रकार के होते हैं? | ![]() |
| 3. इस कविता में 'आम्ल' का क्या अर्थ है? | ![]() |
| 4. कविता का संदेश क्या है? | ![]() |
| 5. इस कविता से हमें क्या सीखने को मिलता है? | ![]() |