1. अधः प्रदत्तानां प्रश्नानाम् एकपदेन उत्तरं लिखन्तु।
(क) विद्याहीनाः कीदृशाः किंशुकाः इव न शोभन्ते? _________________________
उत्तरम्: निर्गन्धाः
(ख) धीमतां कालः कथं गच्छति? _________________________
उत्तरम्: काव्यशास्त्रविनोदेन
(ग) केषां कालः निद्रया कलहेन वा गच्छति? _________________________
उत्तरम्: मूर्खाणाम्
(घ) खलस्य विद्या किमर्थम्? _________________________
उत्तरम्: विवादाय
(ङ) सज्जनस्य विद्या किमर्थम्? _________________________
उत्तरम्: ज्ञानाय
(च) चन्द्रः केषां भूषणम् अस्ति? _________________________
उत्तरम्: ताराणाम्
(छ) सर्वधनप्रधानं किम्? _________________________
उत्तरम्: विद्याधनम्
(ख) मूर्खाणां कालः कथं गच्छति?
उत्तरम्: मूर्खानाम् कालः व्यसनेन, निद्रया कलहेन वा गच्छति।
(ग) दुर्जन: विद्यायाः धनस्य शक्तेः च उपयोगं कथं करोति?
उत्तरम्: दुर्जन: विद्याया: उपयोगं विवादाय शक्तेः च परिपीडनाय करोति।
(घ) कीदृशाः मनुष्याः भुवि भारभूताः भवन्ति?
उत्तरम्: येषां न विद्या न तपो न दानं न ज्ञानं न शीलं न गुणो न धर्मः ते मनुष्याः भुवि भारभूताः भवन्ति।
(ङ) शनै: शनैः कानि साधनीयानि?
उत्तरम्: पन्थाः, कन्था, पर्वतलङ्घनम्, विद्या, वित्तं एतानि शनैः शनैः साधनीयानि।
3. उचितान् वाक्यांशान् परस्परं संयोजयन्तु-
उत्तरम्:
4. उदाहरणानुसारम् अधः आश्रित्य प्रश्ननिर्माणं कुर्वन्तु।
(क) राजा पृथिव्याः भूषणं भवति। - राजा कस्या भूषणं भवति?
(ख) साधोः विद्या ज्ञानाय भवति। - ________________ विद्या ज्ञानाय भवति?
(ग) विद्या गुरूणां गुरुः। - विद्या ________________ गुरु:?
(घ) ते मर्त्यलोके भुवि भारभूताः भवन्ति। - ते मर्त्यलोके भुवि ________________ भवन्ति?
(ङ) विद्याहीनाः न शोभन्ते। - ________________ न शोभन्ते?
(च) सर्वस्य लोचनं शास्त्रम्। - सर्वस्य लोचनं ________________?
(छ) विद्या राजसु पूज्यते। - ________________ राजसु पूज्यते?
(ज) काव्यशास्त्रविनोदेन कालो गच्छति धीमताम्। - ________________ धीमतां कालो गच्छति?
उत्तरम्:
(क) राजा कस्या भूषणं भवति?
(ख) कस्य विद्या ज्ञानाय भवति?
(ग) विद्या केषाम् गुरु:?
(घ) ते मर्त्यलोके भुवि कीदृशाः भवन्ति?
(ङ) के न शोभन्ते?
(च) सर्वस्य लोचनं किम्?
(छ) का राजसु पूज्यते?
(ज) केन धीमतां कालो गच्छति?
5. मञ्जूषातः समुचितानि पदानि स्वीकृत्य रिक्तस्थानानि पूरयन्तु।

उत्तरम्:
शक्ति: - रक्षणाय शक्ति: - परिपीडनाय
विद्या - ज्ञानाय विद्या - विवादाय
धनम् - दानाय धनम् - मदाय
6. उदाहरणानुसारम् अधोलिखितानां पदानां विभक्तिं वचनं च लिखन्तु।

उत्तरम्:
(क) द्वितीया विभक्तिः - एकवचनम्
(ख) षष्ठी विभक्तिः - एकवचनम्
(ग) तृतीया विभक्तिः - एकवचनम्
(घ) षष्ठी विभक्तिः - बहुवचनम्
(ङ) सप्तमी विभक्तिः - एकवचनम्
(च) चतुर्थी विभक्ति: - एकवचनम्
(छ) सप्तमी विभक्तिः - बहुवचनम्
| 1. क्रीडाम वयं श्लोकान्त्याक्षरीम् का अर्थ क्या है? | ![]() |
| 2. क्रीड़ाओं के माध्यम से कौन-कौन से गुण विकसित होते हैं? | ![]() |
| 3. NCERT पाठ्यक्रम में क्रीड़ाओं का स्थान क्या है? | ![]() |
| 4. 'क्रीडाम वयं श्लोकान्त्याक्षरीम्' में कौन-से खेलों का उल्लेख किया गया है? | ![]() |
| 5. छात्रों को खेलों में भाग लेने के क्या लाभ हैं? | ![]() |