1. अधोलिखितानि वाक्यानि पठित्वा 'आम्' अथवा 'न' इति वदन्तु लिखन्तु च-
(क) किं वयं पृथिव्याः पुत्राः पुत्र्यः च स्म:? _______________________
उत्तरम्:आम्
(ख) किं रत्नम् अन्विष्यति? _______________________
उत्तरम्: न
(ग) किं शीलं श्रेष्ठम् आभूषणम् अस्ति? _______________________
उत्तरम्: आम्
(घ) किं शरीरम् आद्यं धर्मसाधनम्? _______________________
उत्तरम्: आम्
(ङ) किं गुणानां सर्वदा एव आदरः भवति? _______________________
उत्तरम्: आम्
(च) किं क्रियाशीलः एव विद्वान् भवति? _______________________
उत्तरम्: आम्
(छ) किम् अस्माभिः केवलं मनोरञ्जकानि वाक्यानि वक्तव्यानि? _______________________
उत्तरम्: न
(ज) यः सदा सुखम् इच्छति किं सः विद्यां प्राप्नोति? _______________________
उत्तरम्: न
2. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु-
(क) आद्यं धर्मसाधनं किम्? _______________________
उत्तरम्: शरीरम्
(ख) कीदृशं वचः मा ब्रूहि? _______________________
उत्तरम्: दीनम्
(ग) श्रेष्ठम् आभूषणं किम् अस्ति? _______________________
उत्तरम्: शीलम्
(घ) सर्वेषां मनुष्याणां माता का अस्ति? _______________________
उत्तरम्: भूमिः / पृथ्वी
(ङ) रत्नानाम् अन्वेषणं के कुर्वन्ति? _______________________
उत्तरम्: ग्राहकाः
3. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु-
(क) क: विद्वान् अस्ति? _______________________
उत्तरम्: क्रियावान् पुरुषः विद्वान् भवति।
(ख) गुणिषु पूजास्थानं किम्? _______________________
उत्तरम्: गुणिषु पूजास्थानम् गुणाः।
(ग) कः विद्यां न प्राप्नोति? _______________________
उत्तरम्: सुखार्थी विद्यां न प्राप्नोति।
(घ) मनुष्य: विद्याम् अर्थं च कथं साधयेत्? _______________________
उत्तरम्: मनुष्य: विद्याम् अर्थं च क्षणशः कणशः साधयेत्।
(ङ) कीदृशं वचनं दुर्लभम्? _______________________
उत्तरम्: हितं मनोहारि च वचनं दुर्लभम्।
4. रेखाङ्कितपदानि आधुत्य प्रश्ननिर्माणं कुर्वन्तु-
(क) शीलं परं भूषणम्। _______________________
उत्तरम्: किं परं भूषणम्?
(ख) मनुष्यः पृथिव्या: सन्तानः अस्ति। _______________________
उत्तरम्: मनुष्यः कस्या: सन्तानः अस्ति?
(ग) गुणिषु लिङ्गं वयः च न महत्त्वपूर्णम्। _______________________
उत्तरम्: केषु लिङ्गं वय: च न महत्त्वपूर्णम्?
(घ) हितकारकं मनोहारि च वच: दुर्लभं भवति। _______________________
उत्तरम्: हितकारकं मनोहारि च किम् दुर्लभं भवति?
5. पाठस्य आधारेण उदाहरणानुसारं समुचितं मेलनं कुर्वन्तु-
उत्तरम्:
6. पाठात् अधोलिखितानां पदानां समानार्थकपदानि चित्वा लिखन्तु-
(क) सुतः - पुत्रः
(ख) प्रथमम् - _______________________
(ग) धनम् - _______________________
(घ) अवस्था - _______________________
(ङ) वचनम् - _______________________
(च) आचरणम् - _______________________
उत्तरम्:
(क) सुतः - पुत्रः
(ख) प्रथमम् - आद्यम्
(ग) धनम् - अर्थम्
(घ) अवस्था - वयः
(ङ) वचनम् - वचः
(च) आचरणम् - शीलम्
7. उदाहरणानुसारम् अधोलिखितेषु वाक्येषु रेखाङ्कितपदानां विभक्तिं निर्दिशन्तु-
उत्तरम्:
(क) षष्ठी विभक्ति
(ख) सप्तमी विभक्तिः
(ग) प्रथमा विभक्तिः
(घ) द्वितीया विभक्तिः
(ङ) षष्ठी विभक्तिः
(च) प्रथमा विभक्तिः
8. यत्र अग्रे स्वरः अस्ति तत्र अनुस्वारस्य स्थाने 'म्' लिखित्वा वाक्यानि पुनः लिखन्तु-
(क) न रत्नं अन्विष्यति। न रत्नम् अन्विष्यति।
(ख) शरीरं आद्यं खलु धर्मसाधनम्। _______________________
(ग) वयं अद्यतनं पाठं पठामः। _______________________
(घ) त्वं अस्माकं गृहं आगच्छ। _______________________
(ङ) अहं एकं प्रश्नं प्रष्टुं इच्छामि। _______________________
(च) गुणं अर्जयितुं अधिकं प्रयत्नं करोतु। _______________________
उत्तरम्:
(क) न रत्नम् अन्विष्यति।
(ख) शरीरम् आद्यं खलु धर्मसाधनम्।
(ग) वयम् अद्यतनं पाठं पठामः।
(घ) त्वम् अस्माकं गृहम् आगच्छ।
(ङ) अहम् एकं प्रश्नं प्रष्टुम् इच्छामि।
(च) गुणम् अर्जयितुम् अधिकं प्रयत्नं करोतु।
| 1. "हितं मनोहारि च दुर्लभं वचः" पाठ का मुख्य विषय क्या है? | ![]() |
| 2. इस पाठ में कौन-कौन से महत्वपूर्ण पात्र हैं? | ![]() |
| 3. "हितं मनोहारि च दुर्लभं वचः" पाठ से हमें क्या सीखने को मिलता है? | ![]() |
| 4. पाठ में दिए गए उदाहरणों का क्या महत्व है? | ![]() |
| 5. क्या इस पाठ का कोई नैतिक संदेश है? | ![]() |