1. अधः प्रदत्तानां प्रश्नानाम् पूर्णवाक्येन उत्तरं लिखन्तु-
(क) पुत्र्याः जिज्ञासा का?
उत्तरम्: पुत्र्याः जिज्ञासा आसीत् यत् मनुष्याः प्राणिनः कीटाः च कथम् भूलोके आगताः।
(ख) कस्मात् आकाशस्य उत्पत्तिः अभवत्?
उत्तरम्: ब्रह्मणः आकाशस्य उत्पत्तिः अभवत्।
(ग) अग्नेः कस्य उत्पत्तिः अभवत्?
उत्तरम्: अग्नेः जलस्य उत्पत्तिः अभवत्।
(घ) पृथिव्याः केषाम् उत्पत्तिः अभवत्?
उत्तरम्: पृथिव्याः ओषधीनां, सस्यानां वृक्षादीनां च उत्पत्तिः अभवत्।
(ङ) आहारात् के उत्पन्नाः?
उत्तरम्: आहारात् कीटाः प्राणिनः मनुष्याः च उत्पन्नाः।
(च) माता किं किं पठितवती?
उत्तरम्: माता आधुनिक रसायनशास्त्रम् उपनिषद् ग्रन्थान् च पठितवती।
2. पाठ पठित्वा रिक्तस्थानेषु समुचितं पदं लिखन्तु-
(क) अम्ब! मम काचिद् ___________________ अस्ति।
उत्तरम्: जिज्ञासा
(ख) प्रथमं ___________________ आकाशस्य उत्पत्तिः अभवत्।
उत्तरम्: ब्रह्मणः
(ग) साक्षात् ___________________ उत्पत्तिं वदतु।
उत्तरम्: मनुष्याणाम्
(घ) ___________________ कीटाः, प्राणिनः, मनुष्याः उत्पन्नाः खलु अम्ब?
उत्तरम्: आहारात्
(ङ) अहम् आधुनिकं ___________________, ___________________ च पठितवती।
उत्तरम्: रसायनशास्त्रम्, उपनिषद्ग्रन्थान्
(च) अस्माकं ___________________ ज्ञानं तेषु एव निहितम् अस्ति।
उत्तरम्: मौलिकम्
3. उदाहरणानुसारम् अधः प्रदत्तानां शब्दानां वचनपरिवर्तनं कुर्वन्तु-
उत्तरम्:
4. उदाहरणानुसारम् अधः रेखाङ्कितानि पदानि आश्रित्य प्रश्ननिर्माणं कुर्वन्तु-
(क) माता आपणात् गृहम् आगच्छति।
उत्तरम्:
माता कुतः गृहम् आगच्छति?
माता कस्मात् गृहम् आगच्छति?
(ख) राजेश: विद्यालयात् पुस्तकम् आनयति।
उत्तरम्:
राजेशः कुतः पुस्तकम् आनयति?
राजेशः कस्मात् पुस्तकम् आनयति?
(ग) विकासः महेशात् लेखनीं स्वीकृतवान्।
उत्तरम्:
विकासः कुतः लेखनीं स्वीकृतवान्?
विकासः कस्मात् लेखनीं स्वीकृतवान्?
(घ) माता गृहात् पुत्रं पश्यति।
उत्तरम्:
माता कुतः पुत्रं पश्यति?
माता कस्मात् पुत्रं पश्यति?
(ङ) हिमालयात् गङ्गा प्रवहति।
उत्तरम्:
कुतः गङ्गा प्रवहति?
कस्मात् गङ्गा प्रवहति?
5. अधः प्रदत्तानि पदानि पठन्तु तेषां पदानां पर्यायपदानि पाठेषु सन्ति, तानि चित्वा निर्देशानुसारं पदरञ्जन्यां लिखन्तु-

उत्तरम्:

6. उदाहरणानुसारं कः कस्मात् विद्यां प्राप्तवान् इति पूर्णवाक्येन लिखन्तु-

उत्तरम्:
(क) शुक्राचार्यः महादेवात् विद्यां प्राप्तवान्।
(ख) पद्यपादः शङकराचार्यात् विद्यां प्राप्तवान्।
(ग) विवेकानन्दः रामकृष्णात् विद्यां प्राप्तवान्।
(घ) रामः वसिष्ठात् विद्यां प्राप्तवान्।
(ङ) भीष्मः परशुरामात् विद्यां प्राप्तवान्।
(च) चन्द्रगुप्तः चाणक्यात् विद्यां प्राप्तवान्।
(छ) अर्जुन: द्रोणाचार्यात् विद्यां प्राप्तवान्।
7. अधः प्रदत्तानि वाक्यानि पठित्वा मातृभाषया / प्रान्तीयभाषया / आङ्ग्लभाषया वा अनुवादं कुर्वन्तु-
(क) राधा नगरात् आगच्छति। __________________________
(ख) विनयः वृक्षात् पुष्पाणि चिनोति। __________________________
(ग) सन्दीप कार्यालयात् गृहं गतवान्। __________________________
(घ) भगिनी दूरात् वाहनं पश्यति। __________________________
(ङ) महेश: शालायाः गृहम् आगतवान्। __________________________
(च) बाल: कपाटिकायाः धनं स्वीकरोति। __________________________
उत्तरम्:
(क) राधा नगर से आती है।
(ख) विनय पेड़ से फूल चुनता है।
(ग) सन्दीप कार्यालय से घर गया।
(घ) बहन दूर से वाहन देखती है।
(ङ) महेश पाठशाला से घर आया।
(च) बालक अलमारी से धन स्वीकार करता है।
| 1. अन्नाद् भवन्ति भूतानि का अर्थ क्या है? | ![]() |
| 2. अन्न का महत्व क्या है? | ![]() |
| 3. अन्न का उत्पादन कैसे किया जाता है? | ![]() |
| 4. किस प्रकार के अन्न का सेवन स्वास्थ्य के लिए लाभकारी है? | ![]() |
| 5. अन्न की कमी से क्या समस्याएँ हो सकती हैं? | ![]() |