1. अधः प्रदत्तानां प्रश्नानाम् एकपदेन उत्तरं लिखन्तु-
(क) राजस्थानस्य वीराङ्गनासु का सुविख्याता? __________
उत्तरम्: पन्नाधाया
(ख) उदयसिंहः कस्य पुत्रः? __________
उत्तरम्: महाराणा सङ्ग्रामसिंहस्य
(ग) बनवीरः कं मारयितुम् कुतन्त्रम् अरचयत्? __________
उत्तरम्: उदयसिंहम्
(घ) कालान्तरे कः मेवाडस्य राजा अभवत्? __________
उत्तरम्: उदयसिंह:
(ङ) पन्नाधायायाः निर्णयः कीदृशः आसीत्? __________
उत्तरम्: अकल्पनीयः
(च) महाराणाप्रतापः केषां हृदये चिरं स्थानं प्राप्नोत्? __________
उत्तरम्: भारतीयानाम्
2. अधः प्रदत्तानां प्रश्नानाम् पूर्णवाक्येन उत्तरं लिखन्तु-
(क) पन्नाधाया कस्य अद्वितीयम् उदाहरणम् अस्ति?
उत्तरम्: पन्नाधाया त्यागस्य, पराक्रमस्य निष्ठायाः च अद्वितीयम् उदाहरणम् अस्ति।
(ख) महाराणासङ्ग्रामसिंहस्य पुत्रौ कौ आस्ताम्?
उत्तरम्: महाराणा सङ्ग्रामसिंहस्य विक्रमादित्य: उदयसिंह चं द्वौ पुत्रौ आस्ताम्।
(ग) दुष्टबुद्धिः बनवीरः किम् अचिन्तयत्?
उत्तरम्: दुष्टबुद्धिः बनवीरः अचिन्तयत् यत्, "अहम् एकः एव उत्तराधिकारी भवेयम्। न कोऽपि मम प्रतिस्पर्धी स्यात्।"
(घ) बनवीरस्य कुतन्त्रं ज्ञात्वा पन्नाधाया किम् अकरोत्?
उत्तरम्: बनवीरस्य कुतन्त्रं ज्ञात्वा पन्नाधाया उदयसिंहस्य शयनस्थाने स्वपुत्रं चन्दनं शायितवती।
(ङ) आचन्द्रार्क किं तिष्ठति?
उत्तरम्: पन्नाधायायाः त्यागः शौर्य च जगति आचन्द्रार्कं तिष्ठति।
(च) पन्नाधायायाः बलिदानं किं शिक्षयति?
उत्तरम्: पन्नाधायायाः बलिदानं सर्वान् शौर्य, राष्ट्रभक्तिं कर्तव्यनिष्ठां बलिदानं विवेकं च शिक्षयति।
3. उदाहरणानुसारम् उचितैः पदैः रिक्तस्थानानि पूरयन्तु-
उत्तरम्:
4. वाक्यानि पठित्वा उदाहरणानुसारं वचनपरिवर्तनं कुर्वन्तु-

उत्तरम्:

(ख) शयनस्थाने चन्दनं शायितवती। ___________________________
उत्तरम्: कुत्र चन्दनं शायितवती?
(ग) राष्ट्रहितं श्रेष्ठम्। ___________________________
उत्तरम्: किम् श्रेष्ठम्?
(घ) बनवीर: चन्दनम् अमारयत्। ___________________________
उत्तरम्: बनवीर: कम् अमारयत्?
(ङ) तस्या: निर्णय: अकल्पनीयः आसीत्। ___________________________
उत्तरम्: कस्याः निर्णय: अकल्पनीयः आसीत्?
(च) उदयसिंह मेवाडस्य राजा अभवत्। ___________________________
उत्तरम्: कः मेवाडस्य राजा अभवत्?
(छ) मम प्रतिस्पर्धी न स्यात्। ___________________________
उत्तरम्: कस्य प्रतिस्पर्धी न स्यात्?
6. उदाहरणानुसारम् अधः प्रदत्तानां पदानां सन्धिं कुर्वन्तु-
यथा- विद्या + अभ्यासः = विद्याभ्यासः
(क) मम + अपि = _______________________
(ख) विद्या + अर्थी = _______________________
(ग) सह + अनुभूति: = _______________________
(घ) कवि + इन्द्र: = _______________________
(ङ) गिरि + ईश: = _______________________
(च) वेद + अलङ्कारः = _______________________
(छ) दैत्य + अरिः = _______________________
(ज) सु + उक्तिः = _______________________
उत्तरम्:
(क) ममापि
(ख) विद्यार्थी
(ग) सहानुभूति:
(घ) कवीन्द्रः
(ङ) गिरीश
(च) वेदालङ्कारः
(छ) दैत्यारिः
(ज) सूक्ति:
7. उदाहरणानुसारम् अधः प्रदत्तानि वाक्यानि वर्तमानकाले (लट्लकारे) परिवर्तयन्तु-
यथा- पन्नाधाया राज्यम् अरक्षत्। - पन्नाधाया राज्यं रक्षति।
(क) उदयसिंह वीरः आसीत्। _______________________
(ख) अहं तत् सर्वम् अपश्यम्। _______________________
(ग) बनवीरः कुतन्त्रम् अकरोत्। _______________________
(घ) त्वं शयनस्थानम् अगच्छः। _______________________
(ङ) ते कथाम् अपठन्। _______________________
(च) धात्री उदयसिंहम् अपृच्छत्। _______________________
(छ) वयं शूराः अभवाम। _______________________
उत्तरम्:
(क) उदयसिंह वीरः अस्ति।
(ख) अहं तत् सर्वम् पश्यामि।
(ग) बनवीरः कुतन्त्रम् करोति।
(घ) त्वम् शयनस्थानम् गच्छसि।
(ङ) ते कथाम् पठन्ति।
(च) धात्री उदयसिंहम् पृच्छति।
(छ) वयं शूराः भवामः।
| 1. वीराङ्गना पन्नाधाया का जीवन परिचय क्या है ? | ![]() |
| 2. पन्नाधाया ने किस प्रकार की लड़ाई लड़ी ? | ![]() |
| 3. पन्नाधाया की प्रमुख उपलब्धियाँ क्या थीं ? | ![]() |
| 4. पन्नाधाया का योगदान आज के समाज में कैसे महत्वपूर्ण है ? | ![]() |
| 5. पन्नाधाया के बारे में क्या सीख मिलती है ? | ![]() |