1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) अध्यापिका सोमप्रभा कक्षायाः किमर्थं निष्कासितवती ?
उत्तरम्: सोमप्रभायाः उपानही त्रुटितौ, पुस्तकमजूपा च त्रुटिता-अतः अध्यापिका तां कक्षायाः निष्कासितवती।
(ख) विद्यालयात् गृहम् आगत्य सा (सोमप्रभा) किम् अपश्यत् ?
उत्तरम्: विद्यालयात् गृहम् आगत्य सा अपश्यत् यत् पितामहः पितामही च तस्याः मातरं मारयतः स्म।
(ग) विमलायाः श्वसुर : श्वभूः च तां कुत्र किमर्थञ्च नयतः ?
उत्तरम्: विमलायाः श्वसुरः श्वश्रू च तां दग्धुं महानसं नयतः स्म ।
(घ) सोमप्रभा कथं मातुः त्राणम् अकरोत् ?
उत्तरम्: सोमप्रभा स्थानकं गत्वा पुरुषनिरीक्षकाय सर्व निवेदितवती, सः आगत्य सोमप्रभाम् अरक्षत् ।
(ङ) सोमप्रभा आयुः कति वर्षाणि आसीत् ।
उत्तरम्: सोमप्रभायाः आयुः पञ्चवर्षः आसीत् ।
(च) अस्मिन् नाटके पुरुषनिरीक्षकस्य (आरक्षिणः) कर्तव्यपरायणता वर्णिताऽस्ति भ्रष्टाचारपरायणता वा?
उत्तरम्: अस्मिन् नाटके पुरुषनिरीक्षकस्य (आरक्षिणः) कर्तव्यपरायाणता वर्णिताऽस्ति ।
2. निम्नलिखितस्य श्लोकस्य आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखत-
क्षणे-क्षणे प्रवर्धते धनाय हिनता खलै-
विलोप्यतेऽतिनिर्दयं च जन्तुभिर्मनुष्यता।
विभाजितं जगद्विधा निहन्यते च घातकै-
रतीव दैन्यमागतास्ति साधुता मनुष्यता ॥
उत्तरम्: भाव-इस श्लोक में धनप्राप्ति के लाभ के बढ़ने के दुष्परिणामों का वर्णन किया गया है । धनप्राप्ति के लोभ में एक-दूसरे के प्रति हिंसाभाव बढ़ रहा है, संसार का विभाजन हो रहा है जबकि सज्जनता आदि भावों का लोप होता जा रहा है।
3. अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखित-
(i) पुत्रवधू = ___________
(ii) पदत्राणे = ___________
(iii) पाकशालाम् = ___________
(iv) शीघ्रं कुरु = ___________
(v) पात्राणि = ___________
(vi) इन्तुम् इच्छा = ___________
उत्तरम्: (i) पुत्रवधू = स्नुषा
(ii) पदत्राणे = उपानहौ
(iii) पाकशालाम् = महानसम्
(iv) शीघ्रं कुरु = त्वरस्त
(v) पात्राणि = भाजनानि
(vi) इन्तुम् इच्छा = जिघांसा
(ख) संधि कुरुत-
(i) कलह + आडम्बरः = ___________
(ii) प्रचलति + अत्र = ___________
(iii) न + अस्ति = ___________
(iv) प्रति + एव = ___________
(v) मया + एतत् = ___________
(vi) तत्र + एव = ___________
उत्तरम्:
(i) कलह + आडम्बरः = कलहाडम्बरः
(ii) प्रचलति + अत्र = प्रचलत्यत्र
(iii) न + अस्ति = नास्ति
(iv) प्रति + एव = प्रत्येव
(v) मया + एतत् = मयैतत्
(vi) तत्र + एव = तत्रैव
4. उदारणमनुसृत्य प्रकृतिप्रत्यसंयोगं कुरुत-
यथा- आ + गम् + ल्यप् = आगत्य
सम् + पूज् + ल्यप् = सम्पूज्य
(क) अभि + गम् + ल्यप् = _________
(ख) वि + हा + ल्यप् = _________
(ग) निर + गम् + ल्यप् = _________
(घ) वि + हस् + ल्यप् = _________
(ङ) प्र + क्लृप् (कृ) + ल्यप् : = _________
(च) सम् + बुध् + ल्यप् = _________
उत्तरम्: (क) अभि + गम् + ल्यप् = अधिगम्य
(ख) वि + हा + ल्यप् = विहाय
(ग) निर + गम् + ल्यप् = निर्गम्य
(घ) वि + हस् + ल्यप् = विहस्य
(ङ) प्र + क्लृप् (कृ) + ल्यप् : = प्रकृप्य
(च) सम् + बुध् + ल्यप् = सम्बुध्य
5. अधोलिखितेषु पदेषु उपसर्गपदं चिनुत-
(क) परिहीयते = _________
(ख) सज्जातः = _________
(ग) अधिक्षिपति = _________
(घ) प्रत्युत्तरम् = _________
(ङ) प्रवर्धते = _________
(च) विलोप्यते = _________
(छ) उपचरामः = _________
(ज) उद्धृतवती = _________
उत्तरम्: (क) परिहीयते = परि
(ख) सज्जातः = सम्
(ग) अधिक्षिपति = अधि
(घ) प्रत्युत्तरम् = प्रति+ उत्
(ङ) प्रवर्धते = प्र
(च) विलोप्यते = वि
(छ) उपचरामः = उप
(ज) उद्धृतवती = उत्
6. स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
(क) अद्य विद्यालयं न गमिष्यामि ।
उत्तरम्: किं त्वम् अद्य विद्यालयं गमिष्यसि ?
(ख) अनया दृष्टया चायभाजानि त्रोटितानि ।
उत्तरम्: कया चायभाजनानि नोटितानि?
(ग) विमला आत्मत्राणाय प्रयतते ।
उत्तरम्: विमला किमर्थं प्रयतते?
(घ) त्वम् सङ्कटात् माम् उद्धृतवती।
उत्तरम्: त्वं कस्मात् माम् उद्धृतवती ?
(ङ) त्वम् वेतनस्य गर्वम् उद्वहसि ।
उत्तरम्: त्वं कस्य गर्वम् उद्वहसि ?
7. घटनाक्रमानुसारं वाक्यानि पुनः लिखत-
(क) सोमप्रभा आरक्षिणः समीपम् आगच्छत् ।
(ख) विमलायाः श्वश्रूः तां कटुवचनैः आक्षिपति ।
(ग) सा आत्मत्राणाय प्रयतं करोति ।
(घ) विमलायाः श्वभूः श्वसुरः च तां ज्वालयितुं महानसं नयतः ।
(ङ) पुरुषनिरीक्षकः सोमप्रभया सह आगच्छति तस्याः त्राणं करोति ।
उत्तरम्: (क) विमलायाः श्वश्रूः तां कटुवचनैः आक्षिपति ।
(ख) विमलायाः श्यः श्वसुरः च तां ज्वालयितुं महानसं नयतः ।
(ग) सा आत्मत्राणाय प्रयलं करोति ।
(घ) सोमप्रभा आरक्षिणः समीपम् अगच्छत् ।
(ङ) पुरुषनिरीक्षकः सोमप्रभया सह आगच्छति तस्याः त्राणां करोति ।
| 1. 'सोमप्रभम्' का मुख्य विषय क्या है ? | ![]() |
| 2. 'सोमप्रभम्' कृति में कौन से प्रमुख पात्र हैं ? | ![]() |
| 3. 'सोमप्रभम्' में प्राकृतिक दृश्यों का वर्णन कैसे किया गया है ? | ![]() |
| 4. 'सोमप्रभम्' से हमें क्या नैतिक शिक्षा मिलती है ? | ![]() |
| 5. 'सोमप्रभम्' में सांस्कृतिक प्रतीकों का उपयोग कैसे किया गया है ? | ![]() |