CBSE Class 8  >  Class 8 Notes  >  Sanskrit (Deepakam) Class 8 - New NCERT  >  NCERT Solutions: अल्पानामपि वस्तूनां संहतिः कार्यसाधिका

NCERT Solutions: अल्पानामपि वस्तूनां संहतिः कार्यसाधिका

पृष्ठम् 19-20: प्रश्नानि

1. अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरं लिखत -
(क) मित्राणि ग्रीष्मावकाशे कुत्र गच्छन्ति? 
उत्तरम्: उत्तराखण्डम्

(ख) सर्वत्र कः प्रसृतः? 
उत्तरम्: अन्धकार:

(ग) कः सर्वान् प्रेरयन् अवदत्? 
उत्तरम्: नायकः

(घ) कः हितोपदेशस्य कथां श्रावयति? 
उत्तरम्: नायकः

(ङ) कपोतराजस्य नाम किम्? 
उत्तरम्: चित्रग्रीवः

(च) व्याधः कान् विकीर्य जालं प्रसारितवान्? 
उत्तरम्: तण्डुलकणान्

(छ) विपत्काले विस्मयः कस्य लक्षणम्? 
उत्तरम्: कापुरुषस्य

(ज) चित्रग्रीवस्य मित्रं हिरण्यकः कुत्र निवसति? 
उत्तरम्: गण्डकीतीरे

(झ) चित्रग्रीवः हिरण्यकं कथं सम्बोधयति? 

उत्तरम्: भोः मित्र

(ञ) पूर्वं केषां पाशान् छिनत्तु इति चित्रग्रीवः वदति? 
उत्तरम्: आश्रितानाम्

2. पूर्णवाक्येन उत्तरं लिखत -
(क) यदा केदारक्षेत्रम् आरोहन्तः आसन् किम् अभवत्?
उत्तरम्: यदा केदारक्षेत्रम् आरोहन्तः आसन् तदा वेगेनं वृष्टिः आरब्धा।

(ख) सर्वे उच्चस्वरेण किं प्रार्थयन्त?
उत्तरम्: सर्वे उच्चस्वरेण प्रार्थयन्त-हे भगवन्! रक्ष अस्मान्।

(ग) असम्भवं कार्यं कथं कर्तुं शक्यते इति नायकः उक्तवान्?
उत्तरम्: असम्भवं कार्यं आत्मविश्वासबलेन कर्तुं शक्यते इति नायकः उक्तवान्।

(घ) निर्जने वने तण्डुलकणान् दृष्ट्वा चित्रग्रीवः किं निरूपयति?
उत्तरम्: चित्रग्रीवः निरूपयति यत् निर्जने वने तण्डुलकणानां सम्भवः कथम्।

(ङ) किं नीतिवचनं प्रसिद्धम्?
उत्तरम्: लघूनाम् अपि वस्तूनां संहतिः कार्यसाधि का इति नीतिवचनं प्रसिद्धम् ।

(च) व्याधात् रक्षां प्राप्तुं चित्रग्रीवः कम् आदेशं दत्तवान्?
उत्तरम्: व्याधात् रक्षां प्राप्तुं चित्रग्रीवः कपोतान् आदेशं दत्तवान्।

(छ) हिरण्यकः किमर्थं तूष्णीं स्थितः?
उत्तरम्: हिरण्यकः कपोतानाम् अवपातभयात् चकितः तूष्णीं स्थितः।

(ज) पुलकितः हिरण्यकः चित्रग्रीवं कथं प्रशंसति?
उत्तरम्: पुलकित: हिरण्यकः चित्रग्रीवं प्रशंसति- आश्रितवात्सल्येन त्वं त्रैलोकस्याऽपि स्वामित्वं प्राप्तुं योग्योऽसि।

(झ) कपोताः कथं आत्मरक्षणं कृतवन्तः?
उत्तरम्: कपोता: बुद्धिबलेन संघटनसामर्थ्येन च आत्मरक्षणं कृतवन्तः।

(ञ) नायकस्य प्रेरकवचनैः सर्वेऽपि किम् अकुर्वन्?
उत्तरम्: नायकस्य प्रेरकवचनैः सर्वे भयं विहाय सेतुनिर्माणं कार्ये संलग्नाः जाताः ।

3. अधोलिखितानि वाक्यानि पठित्वा ल्यप् प्रत्ययान्तेषु परिवर्तयत -
(क) छात्रः कक्षां प्रविशति । संस्कृतं पठति ।  कक्ष प्रविश्य संस्कृतं पठति
(ख) भक्तः मन्दिरम् आगच्छति। पूजां करोति ।   ______________
(ग) माता भोजनं निर्माति । पुत्राय ददाति ।   ______________
(घ) सुरेशः प्रातः उत्तिष्ठति। देवं नमति ।   ______________
(ङ) रमा पुस्तकं स्वीकरोति। विद्यालयं गच्छति।  ______________
(च) अहं गृहम् आगच्छामि। भोजनं करोमि।  ______________
(छ) तण्डुलकणान् विकिरति। जालं विस्तारयति। ______________
(ज) व्याधः तण्डुलकणान् अवलोकते। भूमौ अवतरति । ______________
उत्तरम्:
(क) कक्षां प्रविश्य संस्कृतं पठति। 
(ख) मन्दिरम् आगत्य पूजां करोति। 
(ग) भोजनं निर्माय पुत्राय ददाति। 
(घ) प्रातः उत्थाय देवं नमति। 
(ङ) पुस्तकं स्वीकृत्य विद्यालयं गच्छति। 
(च) गृहम् आगत्य भोजनं करोमि।
(छ) तण्डुलकणान् विकिर्य जालं  विस्तारयति। 
(ज) तण्डुलकणान् अवलोक्य भूमौ अवतरति। 

4. उदाहरणानुसारम् उपसर्गयोजनेन क्त्वा-स्थाने ल्यप्-प्रत्ययस्य प्रयोगं कृत्वा पदानि परिवर्तयत-
पृष्ठम् 19-20: प्रश्नानि

(क) छात्रः गृहं गत्वा भोजनं करोति । "छात्रः गृहम् आगत्य (आ+ गम् + ल्यप्) भोजनं करोति
(ख) माता वस्त्राणि क्षालयित्वा पचति।  ____________
(ग) शिक्षकः श्लोकं लिखित्वा पाठयति । ____________
(घ) रमा स्थित्वा गीतं गायति ।   ____________
(ङ) शिष्यः सर्वदा गुरुं नत्वा पठति । ____________
(च) लेखकः आलोचनं कृत्वा लिखति । ____________

उत्तरम्:
(क) छात्रः गृहम् आगत्य (आ + गम् + ल्यप्) भोजनं करोति। 
(ख) माता वस्त्राणि प्रक्षाल्य (प्र + क्षल् + ल्यप्) पचति। 
(ग) शिक्षकः श्लोकं संलिख्य (सम् + लिख् + ल्यप्) पाठयति। 
(घ) रमा उपस्थाय (उप + स्था + ल्यप्) गीतं गायति। 
(ङ) शिष्यः सर्वदा गुरुं प्रणम्य (प्र + नम् + ल्यप्) पठति। 
(च) लेखकः आलोचनं विचिन्त्य (वि + कृ + ल्यप्) लिखति। 

पृष्ठम् 21-22: प्रश्नानि

5. पाठे प्रयुक्तेन उपयुक्तपदेन रिक्तस्थानं पूरयत-
(क) सर्वैः एकचित्तीभूय ____________ उड्डीयताम्।
उत्तरम्: जालमादाय

(ख) जालापहारकान् तान्  ____________ पश्चाद् अधावत्।
उत्तरम्: अवलोक्य

(ग) अस्माकं मित्रं ____________ नाम मूषकराजः गण्डकीतीरे चित्रवने निवसति ।
उत्तरम्: हिरण्यको

(घ) हिरण्यकः कपोतानाम् ____________ चकितस्तूष्णीं स्थितः ।
उत्तरम्: अवपातभयेन 

(ङ) यतोहि विपत्काले ____________ एव कापुरुषलक्षणम्।
उत्तरम्: विस्मयः 

6. पाठे प्रयुक्तेन ल्यप्प्रत्ययान्तपदेन सह उपयुक्तं पदं योजयत -

पृष्ठम् 21-22: प्रश्नानि

उत्तरम्:
पृष्ठम् 21-22: प्रश्नानि


7. समासयुक्तपदेन रिक्तस्थानं पूरयत -
(क) गण्डक्याः तीरम्  = गण्डकीतीरम्    तस्मिन् = गण्डकीतीरे
(ख) तण्डुलानां कणाः = __________  तान् = __________
(ग) जालस्य अपहारकाः = __________  तान् = __________
(घ) अवपाताद् भयम् = __________   तस्मात् = __________
(ङ) कापुरुषाणां लक्षणम्  = __________   तस्मिन् = __________
उत्तरम्:
(क) गण्डक्याः तीरम् = गण्डकीतीरम्
तस्मिन् = गण्डकीतीरे
(ख) तण्डुलानां कणाः = तण्डुलकणाः
तान् = तण्डुलकणान्
(ग) जालस्य अपहारकाः = जालापहारकाः
तान् = जालापहारकान्
(घ) अवपाताद् भयम् = अवपातभयम्
तस्मात् = अवपातभयात्
(ङ) कापुरुषाणां लक्षणम् = कापुरुषलक्षणम्
तस्मिन् = कापुरुषलक्षणे

8. सार्थकपदं ज्ञात्वा सन्धिविच्छेदं कुरुत-
(इत्याकर्ण्य  =  इति  + आकर्ण्य ।
(चित्रग्रीवोऽवदत्  = चित्रग्रीवः + अवदत् 
(बालकोऽत्र  = ________ + ________ + 
(धैर्यमथाभ्युदये = ________ + ________ + ________
(भोजनेऽप्यप्रवर्तनम् = ________ + ________ + ________
(नमस्ते = ________ + ________
(उपायश्चिन्तनीयः  =________ + ________
(व्याधस्तत्र    = ________ + ________
(हिरण्यकोऽप्याह   = ________ +  ________ + ________
(मूषकराजो गण्डकीतीरे   =  ________ +  ________ + ________
(अतस्त्वाम् =  ________ + ________
(ठ) कश्चित्  =  ________  + ________     
उत्तरम्:
(क) इत्याकर्ण्य = इति + आकर्ण्य
(ख) चित्रग्रीवोऽवदत् = चित्रग्रीवः + अवदत्
(ग) बालकोऽत्र = बालकः + अत्र
(घ) धैर्यमथाभ्युदये = धैर्यम् + अथ + अभ्युदये
(ङ) भोजनेऽप्यप्रवर्तनम् = भोजने + अपि + अप्रवर्तनम्
(च) नमस्ते = नमः + ते
(छ) उपायश्चिन्तनीयः = उपायः + चिन्तनीयः
(ज) व्याधस्तत्र = व्याधः + तत्र
(झ) हिरण्यकोऽप्याह = हिरण्यकः + अपि + आह
(ञ) मूषकराजो गण्डकीतीरे = मूषकराजः + गण्डकी + तीरे
(ट) अतस्त्वाम् = अतः + त्वाम्
(ठ) कश्चित् = कः + चित्

The document NCERT Solutions: अल्पानामपि वस्तूनां संहतिः कार्यसाधिका is a part of the Class 8 Course Sanskrit (Deepakam) Class 8 - New NCERT.
All you need of Class 8 at this link: Class 8

FAQs on NCERT Solutions: अल्पानामपि वस्तूनां संहतिः कार्यसाधिका

1. "अल्पानामपि वस्तूनां संहतिः कार्यसाधिका" विषयस्य मुख्यम् अर्थः किम् ?
Ans. "अल्पानामपि वस्तूनां संहतिः कार्यसाधिका" इत्यस्मिन् लेखे दर्शितं अस्ति यः विषयः वस्तूनां संहतिः, तेषां प्रयोगाः च वर्णयति। वस्तूनां संहतिः यदा एकत्रिताः सन्ति, तदा तेषां कार्यसमर्थता वर्धते। उदाहरणार्थ, हड्डयः, कणिकाः, इत्यादयः वस्तूनां संहतिः शक्तिमानाः कार्याणि साधयितुं समर्थाः सन्ति।
2. "अल्पानामपि वस्तूनां संहतिः कार्यसाधिका" इत्यस्मिन् कथा वा दृष्टान्तः अस्ति किम् ?
Ans. लेखे यः दृष्टान्तः उक्तः अस्ति, तस्याः माध्यमेन वस्तूनां संहतिः कार्यसाधनाय उपयुक्तः उपयोगः प्रदर्शितः अस्ति। उदाहरणार्थ, एकस्मिन् प्रयोगे कणिकाः यथा जलस्य संधारणं कर्तुं सहायकाः सन्ति। एषः दृष्टान्तः स्पष्टं करोति यः संहतिः कार्यस्य महत्त्वं दर्शयति।
3. लेखस्य मुख्यं संदेशं किं अस्ति ?
Ans. लेखस्य मुख्यं संदेशं अस्ति यः संहतिः वस्तूनां कार्यसमर्थता वर्धयति। यदा वस्तूनां संहतिः भवेति, तदा तेषां कार्याणां क्षमता वर्धते, यः विज्ञानस्य क्षेत्रे विशेषतः प्रकटं अस्ति। एषः संदेशः न केवलं विज्ञाने, किन्तु दैनिकजीवने अपि महत्त्वपूर्णः अस्ति।
4. "अल्पानामपि वस्तूनां संहतिः कार्यसाधिका" लेखे किमर्थं विशेषतया उपयुक्तम् विषयः चयनम् अस्ति ?
Ans. विशेषतः उपयुक्तः विषयः चयनः अस्ति यः विज्ञानस्य मूलभूत सिद्धान्तानां परिचयं दाति। वस्तूनां संहतिः किमर्थं आवश्यकः अस्ति, विशेषतः नूतन वस्तूनां निर्माणे, तेषां गुणात्मकता च वर्धयितुं उपयुक्तः अस्ति। एषः विषयः विद्यार्थिनः च विज्ञानज्ञानं वर्धयितुं सहायकः अस्ति।
5. लेखे प्रस्तुतः प्रयोगः किं प्रकारः अस्ति ?
Ans. लेखे प्रस्तुतः प्रयोगः विविध प्रकारः अस्ति, यः वस्तूनां संहतिः कार्यसाधनाय उपयुक्तः अस्ति। उदाहरणार्थ, रासायनिक प्रयोगाः, भौतिक प्रयोगाः च तेषां माध्यमेन संहतिः कार्यसाधनाय उपयोगः प्रदर्शितः अस्ति। एषः प्रयोगः विद्यार्थिनः च वैज्ञानिक दृष्टिकोणं विकसितुं सहायकः अस्ति।
Explore Courses for Class 8 exam
Get EduRev Notes directly in your Google search
Related Searches
mock tests for examination, Objective type Questions, Viva Questions, Previous Year Questions with Solutions, Important questions, Semester Notes, NCERT Solutions: अल्पानामपि वस्तूनां संहतिः कार्यसाधिका, Exam, past year papers, NCERT Solutions: अल्पानामपि वस्तूनां संहतिः कार्यसाधिका, ppt, Extra Questions, NCERT Solutions: अल्पानामपि वस्तूनां संहतिः कार्यसाधिका, Sample Paper, pdf , video lectures, shortcuts and tricks, MCQs, practice quizzes, Free, study material, Summary;