1. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत
(क) प्रधानमन्त्रिसङ्ग्रहालये कीदृशी प्रौद्योगिकी प्रयुक्ता अस्ति?
उत्तरम्: अद्यतनप्रौद्योगिकीः
(ख) हॉलोग्राम्-द्वारा कस्य भाषणं दृश्यते?
उत्तरम्: प्रधानमन्त्रिणः
(ग) कस्याः प्रभावः दैनन्दिनजीवने दृश्यते?
उत्तरम्: प्रौद्योगिक्याः
(घ) भारत-सर्वकारस्य महत्त्वाकाङ्क्षिणी योजना का अस्ति?
उत्तरम्: डिजिटलइण्डिया
(ङ) ‘फास्टॅग्’ इत्यस्य उपयोगेन कस्य सङ्ग्रहणं भवति?
उत्तरम्: शुल्कस्य (टोल शुल्क का।)
2. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत-
(क) प्रधानमन्त्रिसङ्ग्रहालये काः डिजिटल प्रौद्योगिक्यः प्रदर्शिताः सन्ति?
उत्तरम्: प्रधानमन्त्रिसङ्ग्रहालये होलोग्राम्, वर्धिता-वास्तविकता (AR), आभासीया-वास्तविकता (VR), कृत्रिमबुद्धिः (AI), संवादयन्त्रं, डिजिटल्-प्रक्षेपणं च इत्यादयः डिजिटल्-प्रौद्योगिक्यः प्रदर्शिताः सन्ति।
(ख) जनाः किमर्थं साङ्गणिक-अपराधेन पीडिताः भवन्ति?
उत्तरम्: जनाः प्रायः लोभात् भयात् वा साङ्गणिक-अपराधेन पीडिताः भवन्ति।
(ग) यशिका ‘डिजि-लॉकर्’ इत्यस्य उपयोगं कथं करोति?
उत्तरम्: यशिका ‘डिजि-लॉकर्’ इत्यस्य उपयोगं आधारपत्रस्य विद्यालयीयप्रमाणपत्रस्य च सुरक्षितसंग्रहणाय करोति।
(घ) डिजिटल भारतस्य वित्तीयसमावेशने काः योजनाः सन्ति?
उत्तरम्: डिजिटल भारतस्य वित्तीयसमावेशने ‘यूपीआई’, ‘रूपे-कार्ड्’, ‘जनधनयोजना’, ‘ई-रूपी’ इत्यादयः योजनाः सन्ति।
(ङ) डिजिटल-भारते शिक्षायाः क्षेत्रे केषां पटलानाम् उपयोगः करणीयः?
उत्तरम्: डिजिटल-भारते शिक्षायाः क्षेत्रे ‘दीक्षा’, ‘स्वयम्’, ‘स्वयं-प्रभा’, ‘ई-पाठशाला’, ‘भारतीय-राष्ट्रीय-डिजिटल्-पुस्तकालयः’, ‘निष्ठा’, ‘पीएम्-ई-विद्या’ इत्यादीनां पटलानाम् उपयोगः करणीयः।
(च) ग्राम्य-क्षेत्रेषु डिजिटल-सेवानां समस्या कथं निराकर्तुं शक्यते?
उत्तरम्: ग्राम्य-क्षेत्रेषु डिजिटल-सेवानां समस्या अन्तर्जालस्य उत्तरोत्तरविस्तारेण निराकर्तुं शक्यते।
3. अधः दत्तान् शब्दान् सम्यक् संयोजयत – तालिका सहित
उत्तरम्:
4. अधः प्रदत्तमञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत
(क) प्रधानमन्त्रिसङ्ग्रहालये हॉलोग्राम्-द्वारा ___________ दृश्यते।
(ख) डिजिटल्-भारतस्य आर्थिकसमावेशनं सुगमं कर्तुं ___________ प्रणाली अस्ति।
(ग) डिजिटल्-शासनं ___________ सेवां प्रददाति
(घ) डिजिटल-भारतस्य शिक्षाक्षेत्रे ___________ नाम डिजिटल्-शैक्षिकमञ्चः अस्ति।
(ङ) भारतस्य डिजिटल-परिवर्तनं सर्वाणि ___________ क्षेत्राणि स्पृशति।
उत्तरम्:
(क) प्रधानमन्त्रिसङ्ग्रहालये हॉलोग्राम्-द्वारा प्रधानमन्त्रिणः भाषणं दृश्यते।
(ख) डिजिटल्-भारतस्य आर्थिकसमावेशनं सुगमं कर्तुं यूपीआय् प्रणाली अस्ति।
(ग) डिजिटल्-शासनं स्वचालितं पारदर्शकं च सेवां प्रददाति
(घ) डिजिटल-भारतस्य शिक्षाक्षेत्रे दीक्षा नाम डिजिटल्-शैक्षिकमञ्चः अस्ति।
(ङ) भारतस्य डिजिटल-परिवर्तनं सर्वाणि जीवन क्षेत्राणि स्पृशति।
7. अधोलिखितानि वाक्यानि पठित्वा शुद्धं (✓) अशुद्धं (✗) वा इति चिह्नीकुरुत-
(क) हॉलोग्राम् कृत्रिमबुद्धेः एकः प्रकारः अस्ति।
(ख) वर्धित-वास्तविकतायाः उपयोगिता ऐतिहासिक-घटनानां प्रत्यक्षानुभवाय।
(ग) डिजिटल – प्रक्षेपण – मानचित्रं भारतस्य विकासयात्रां प्रदर्शयति।
(घ) फ़ास्टॅग् इति राजमार्गेषु स्वचालितविधिना मार्गशुल्कस्य शीघ्रं संग्रहणं करोति।
(ङ) डिजी-लॉकर् इत्यस्य माध्यमेन केवलम् आधार-पत्रं सुरक्षितुं शक्यते।
(छ) भारतस्य डिजिटल-परिवर्तनं केवलं शासने प्रभावं करोति, नागरिकजीवने न।
(छ) उमङ्ग, माय्-गव्, जेम् इत्यादयः ई-शासन-मञ्चाः सन्ति।
उत्तरम्:
(क) हॉलोग्राम् कृत्रिमबुद्धेः एकः प्रकारः अस्ति। (✗)
(ख) वर्धित-वास्तविकतायाः उपयोगिता ऐतिहासिक-घटनानां प्रत्यक्षानुभवाय। (✓)
(ग) डिजिटल – प्रक्षेपण – मानचित्रं भारतस्य विकासयात्रां प्रदर्शयति। (✓)
(घ) फ़ास्टॅग् इति राजमार्गेषु स्वचालितविधिना मार्गशुल्कस्य शीघ्रं संग्रहणं करोति। (✓)
(ङ) डिजी-लॉकर् इत्यस्य माध्यमेन केवलम् आधार-पत्रं सुरक्षितुं शक्यते। (✗)
(छ) भारतस्य डिजिटल-परिवर्तनं केवलं शासने प्रभावं करोति, नागरिकजीवने न। (✗)
(छ) उमङ्ग, माय्-गव्, जेम् इत्यादयः ई-शासन-मञ्चाः सन्ति। (✓)
8. अव्यवस्थितान् वर्णान् शब्ददृष्ट्या व्यवस्थितरूपेण लिखत
उदाहरणम् – वेयवित्तीसमानशम् = वित्तीयसमावेशनम्
(क) कसङ्गम्ण = ____________
(ख) कार्वसरः = ____________
(ग) लयः विद्या = ____________
(घ) जिकडिलॉर = ____________
(ङ) शक्तसुम् = ____________
उत्तरम्:
(क) कसङ्गम्ण = सङ्गणकम् (कंप्यूटर)
(ख) कार्वसरः = सरकारः (सरकार)
(ग) लयः विद्या = शिक्षालयः (विद्यालय)
(घ) जिकडिलॉर = डिजीलॉकरः (डिजीलॉकर)
(ङ) शक्तसुम् = पुस्तकः (पुस्तक)
9. अधोलिखितं परिच्छेदं पठित्वा प्रश्नानाम् उत्तराणि लिखत-
अद्यतने विज्ञानयुगे सर्वे मनुष्याः डिजिटल्-प्रौद्योगिक्याः प्रयोगं कुर्वन्ति। जनाः अन्तर्जालस्य, सचलदूरवाण्याः, सङ्गणकस्य च साहाय्येन शीघ्रं कार्याणि सम्पादयन्ति। विद्यार्थिनः अपि
ई-अधिगम-प्रणालीं स्वीकृत्य ज्ञानं वर्धयन्ति ।
प्रश्नाः-
(क) अद्यतनं युगं कीदृशम् अस्ति ?
उत्तरम्: अद्यतनं युगं विज्ञानयुगं अस्ति।
(ख) मानवाः केषां साहाय्येन कार्याणि शीघ्रं कुर्वन्ति ?
उत्तरम्: मानवाः अन्तर्जालस्य, सचलदूरवाण्याः, सङ्गणकस्य च साहाय्येन कार्याणि शीघ्रं कुर्वन्ति।
(ग) ई-अधिगम-प्रणाल्याः प्रयोगं के कुर्वन्ति ?
उत्तरम्: विद्यार्थिनः ई-अधिगम-प्रणाल्याः प्रयोगं कुर्वन्ति।
12 videos|104 docs|13 tests
|
1. डिजीभारत क्या है और इसका उद्देश्य क्या है ? | ![]() |
2. डिजीभारत योजना के मुख्य तत्व कौन से हैं ? | ![]() |
3. डिजीभारत के तहत कौन-कौन सी सेवाएँ उपलब्ध कराई जाती हैं ? | ![]() |
4. डिजीभारत योजना का समाज पर क्या प्रभाव पड़ा है ? | ![]() |
5. डिजीभारत योजना में नागरिकों की भूमिका क्या है ? | ![]() |