1. अधः प्रदत्तानां प्रश्नानां एकपदेन उत्तरं लिखत।
(क) सुन्दरसुरभाषा कस्य वचनातीता ?
उत्तरम्: मम वचनातीता
(ख) संस्कृतभाषा कुत्र विजयते ?
उत्तरम्: धरायाम्।
(ग) संस्कृतभाषा कस्य आशा ?
उत्तरम्: जीवनस्य।
(घ) संस्कृते कति रसाः सन्ति ?
उत्तरम्: नवरसाः।
(ङ) कस्याः ध्वनिश्रवणेन सुखं वर्धते ?
उत्तरम्: संस्कृतभाषायाः।
2. अधः प्रदत्तानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखत।
(क) संस्कृतभाषा केषां जीवनस्य आशा अस्ति ?
उत्तरम्: संस्कृतभाषा वेदव्यासवाल्मीकि-मुनीनां, कालिदासबाणादिकवीनां, पौराणिकसामान्यजनानां च जीवनस्य आशा अस्ति।
(ख) केषां विचाराः जनान् अभिप्रेरयन्ति ?
उत्तरम्: वेदविषयवेदान्तविचाराः जनान् अभिप्रेरयन्ति।
(ग) कैः रसैः समृद्धा साहित्यपरम्परा विराजते ?
उत्तरम्: नवरसैः समृद्धा साहित्यपरम्परा विराजते।
(घ) संस्कृतभाषा केषु शास्त्रेषु विहरति ?
उत्तरम्: संस्कृतभाषा वैद्यव्योमशास्त्रादिषु शास्त्रेषु विहरति।
(ङ) संस्कृतभाषायाः कानि कानि सम्बोधनपदानि अत्र प्रयुक्तानि ?
उत्तरम्: अयि, मातः, भगिनि इत्येतानि सम्बोधनपदानि अत्र प्रयुक्तानि।
3. रेखाङ्कितपदानि आश्रित्य प्रश्ननिर्माणं कुरुत -
(क) मुनिगणाः "संस्कृतभाषायाः" विकासं कृतवन्तः।
प्रश्न: मुनिगणाः कस्य विकासं कृतवन्तः?
(ख) सामान्यजनानां जीवनं "काव्यैः" प्रभावितम् अस्ति।
प्रश्न: सामान्यजनानां जीवनं कैः प्रभावितम् अस्ति?
(ग) कवयः अपि "उपादेयानि" काव्यानि रचितवन्तः।
प्रश्न: कवयः अपि किम् काव्यानि रचितवन्तः?
(घ) संस्कृतभाषा "पृथिव्यां" विहरति।
प्रश्न: संस्कृतभाषा क्व विहरति?
(ङ) संस्कृतभाषा "विविधभाषाः" परिपोषयति।
प्रश्न: संस्कृतभाषा काश्चन भाषाः परिपोषयति?
(च) वेद-वेदाङ्गादीनि गभीराणि "शास्त्राणि" सन्ति।
प्रश्न: वेद-वेदाङ्गादीनि गभीराणि किम् सन्ति?
4. अधः प्रदत्तानां पदानाम् उदाहरणानुसारं विभक्तिं वचनं च लिखत-
उत्तरम्:
5. अधोलिखितानां पद्यांशानां यथायोग्यं मेलनं कुरुत -
उत्तरम्:
6. उदाहरणानुसारम् अधः प्रदत्तानां पदानाम् एकपदेन अर्थं लिखत-
यथा, देवस्य आलयः = 'देवालयः
(क) सुराणां भाषा = _________
(ख) सुन्दरी सुरभाषा = _________
(ग) नवरसैः रुचिरा = _________
(घ) पोषणस्य क्षमता = _________
(ङ) मञ्जुला भाषा = _________
उत्तरम्:
(क) सुराणां भाषा = सुरभाषा
(ख) सुन्दरी सुरभाषा = सुन्दरसुरभाषा
(ग) नवरसैः रुचिरा = नवरसरुचिरा
(घ) पोषणस्य क्षमता = पोषणक्षमता
(ङ) मञ्जुला भाषा = मञ्जुलभाषा
7. पेटिकातः पदानि चित्वा रिक्तस्थानानि पूरयत

(यथा) मुनिवर-विकसित-कविवर-विलसित- मञ्जुलमञ्जूषा सुन्दरसुरभाषा।
(क) अयि मातः तव पोषणक्षमता __________ वचनातीता।
(ख) वेदव्यास-वाल्मीकि-मुनीनां __________ कवीनाम्।
(ग) पौराणिक-सामान्य-जनानां जीवनस्य __________।
(घ) श्रुतिसुखनिनदे __________ स्मृतिहितवरदे सरसविनोदे।
(ङ) गति-मति-प्रेरक-काव्य-विशारदे, तव __________ एषा सुन्दरसुरभाषा।
(च) नवरस-रुचिरालङ्कृतिधारा __________-वेदान्तविचारा।
(छ) वैद्य-व्योम-शास्त्रादि-विहारा __________ धरायाम्, सुन्दरसुरभाषा।
उत्तरम्:
(क) अयि मातः तव पोषणक्षमता मम वचनातीता।
(ख) वेदव्यास-वाल्मीकि-मुनीनां कालिदासबाणादि कवीनाम्।
(ग) पौराणिक-सामान्य-जनानां जीवनस्य आशा।
(घ) श्रुतिसुखनिनदे सकलप्रमोदे स्मृतिहितवरदे सरसविनोदे।
(ङ) गति-मति-प्रेरक-काव्य-विशारदे, तव संस्कृतिः एषा सुन्दरसुरभाषा।
(च) नवरस-रुचिरालङ्कृतिधारा वेदविषय-वेदान्तविचारा।
(छ) वैद्य-व्योम-शास्त्रादि-विहारा विजयते धरायाम्, सुन्दरसुरभाषा।
8. अधोलिखितविकल्पेषु प्रसङ्गानुसारम् अर्थं चिनुत-
(क) "मञ्जुलमञ्जूषा" इत्यस्य अर्थः कः? 
उत्तरम् - (iii) मनोहररूपेण संकलिता
(ख) सुन्दरसुरभाषा केषां जीवनस्य आशा उच्यते? 
उत्तरम् - (iii) पौराणिक-सामान्यजनानाम्
(ग) सुन्दरसुरभाषा कुत्र विजयते? 
उत्तरम् - (iii) धरायाम्
(घ) सुन्दरसुरभाषायां किं नास्ति? 
उत्तरम् - (iv) अशुद्धिः
(ङ) कविः सुन्दरसुरभाषां केन पदेन सम्बोधयति? 
उत्तरम् - (ii) मातः
| 1. What are the main themes discussed in 'मञ्जुलमञ्जूषा सुन्दरसुरभाषा'? | ![]() |
| 2. How does the article reflect on the relationship between nature and human emotions? | ![]() |
| 3. What role does language play according to the article? | ![]() |
| 4. Can you explain the significance of cultural heritage as mentioned in the article? | ![]() |
| 5. What is the educational value of 'मञ्जुलमञ्जूषा सुन्दरसुरभाषा' for students? | ![]() |