CBSE Class 8  >  Class 8 Notes  >  Sanskrit (Deepakam) Class 8 - New NCERT  >  NCERT Solutions: पश्यत कोणमैशान्यं भारतस्य मनोहरम्

NCERT Solutions: पश्यत कोणमैशान्यं भारतस्य मनोहरम्

पृष्ठम् 90: प्रश्नानि

1. अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरं लिखत-
(क) अस्माकं देशे कति राज्यानि सन्ति? 
उत्तरम्: अष्टाविंशतिः 

(ख) प्राचीनेतिहासे का स्वाधीनाः आसन्? 

उत्तरम्: सप्तभगिन्यः

(ग) केषां समवायः 'सप्तभगिन्यः' इति कथ्यते? 

उत्तरम्: सप्तराज्यानाम्

(घ) अस्माकं देशे कति केन्द्रशासितप्रदेशाः सन्ति? 

उत्तरम्: अष्ट 

(ङ) सप्तभगिनी-प्रदेशे कः उद्योगः सर्वप्रमुखः? 

उत्तरम्: वंशोद्योगः 

2. अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखत -
(क) भ्रातृसहित-भगिनीसप्तके कानि राज्यानि सन्ति? 
उत्तरम्: अरुणाचलप्रदेशः, असमः, मणिपुरम्, मिजोरमः, मेघालयः, नागालैण्डं, त्रिपुरा च भगिन्यः; सिक्किमः भ्राता अस्ति।

(ख) इमानि राज्यानि सप्तभगिन्यः इति किमर्थं कथ्यन्ते?
उत्तरम्: एतेषां सामाजिक-सांस्कृतिक-साम्यं च भौगोलिकवैशिष्ट्यं च दृष्ट्वा, एतानि सप्तभगिन्यः इति कथ्यन्ते।

(ग) ऐशान्यकोणप्रदेशेषु के निवसन्ति?
उत्तरम्: गारो-खासी-नागा-मिजो-लेप्चा-प्रभृतयः जनजातीयाः ऐशान्यप्रदेशेषु निवसन्ति।

(घ) पूर्वोत्तरप्रादेशिकाः केषु निष्णाताः सन्ति?
उत्तरम्: पूर्वोत्तरप्रादेशिकाः स्वलीलाकलासु च पर्वपरम्परासु च निष्णाताः सन्ति।

(ङ) वंशवृक्षवस्तूनाम् उपयोगः कुत्र क्रियते?
उत्तरम्: सप्तभगिनीप्रदेशेषु वंशवृक्षवस्तूनाम् उपयोगः वस्त्राभूषणगृहनिर्माणेषु क्रियते।

पृष्ठम् 91: प्रश्नानि

3. अधोलिखितेषु पदेषु प्रकृति-प्रत्ययविभागं कुरुत-
यथा - गन्तुम्  =  गम + 'तुमुन्
(क) ज्ञातुम्  ___________ + ___________
(ख) विश्रुतः ___________ + ___________
(ग) अतिरिच्य ___________ + ___________
(घ) पठनीयम् ___________ + ___________
उत्तरम्:
गन्तुम् = गम् (प्रकृति) + तुमुन् (प्रत्यय)
(क) ज्ञातुम् = ज्ञा + तुमुन्
(ख) विश्रुतः = श्रु + क्त (वि + पूर्वसर्ग)
विश्रुतः = वि (उपसर्ग) + श्रु (धातु) + क्त (कृदन्त प्रत्यय)
(ग) अतिरिच्य = ऋच् + अतिच (उपसर्ग) + यङ् (प्रत्यय)
अतिरिच्य = अति (उपसर्ग) + ऋच् (धातु) + ल्यप् (प्रत्यय)
(घ) पठनीयम् = पठ् + णीय

4. रेखाङ्कितम् पदम् आधृत्य प्रश्ननिर्माणं कुरुत -
(क) वयं स्वदेशस्य राज्यानां विषये ज्ञातुमिच्छामः । 
प्रश्नः - कस्य देशस्य राज्यानां विषये यूयं ज्ञातुमिच्छथ? 

(ख) सप्तभगिन्यः प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः | 
प्रश्नः - प्राचीनेतिहासे काः स्वाधीनाः दृष्टाः?

(ग) प्रदेशेऽस्मिन् हस्तशिल्पानां बाहुल्यं वर्तते । 
प्रश्नः - प्रदेशे कस्यानां बाहुल्यं वर्तते? 

(घ) एतानि राज्यानि तु भ्रमणार्थं स्वर्गसदृशानि । 
प्रश्नः - एतानि राज्यानि तु भ्रमणार्थं किम् सदृशानि सन्ति?

5. यथानिर्देशम् उत्तरत
(क)  महोदये ! मम भगिनी कथयति। अत्र 'मम' इति सर्वनामपदं कस्यै प्रयुक्तम् ?
उत्तरम्:  'मम' इति सर्वनामपदं 'अहम्' इत्यस्य सम्बन्धे प्रयुक्तम्।

(ख) सामाजिक-सांस्कृतिकपरिदृश्यानां साम्याद् इमानि उक्तोपाधिना प्रथितानि। अस्मिन् वाक्ये 'प्रथितानि' इति क्रियापदस्य कर्तृपदं किम् ?
उत्तरम्: अत्र 'इमानि' इति कर्तृपदम् अस्ति।

(ग)  एतेषां राज्यानां पुनः सङ्घटनं विहितम्। अत्र 'सङ्घटनम्' इति कर्तृपदस्य क्रियापदं किम् ?
उत्तरम्: 'विहितम्' इति क्रियापदं अस्ति।

(घ) अत्र वंशवृक्षाणां प्राचुर्यं विद्यते। अस्मात् वाक्यात् 'अल्पता' इति पदस्य विपरीतार्थकं पदं किम् ?
उत्तरम्: 'प्राचुर्यम्' इति विपरीतार्थकं पदं अस्ति।

(ङ) क्षेत्रपरिमाणैः इमानि लघूनि वर्तन्ते। अस्मिन् वाक्ये 'सन्ति' इति क्रियापदस्य समानार्थकं पदं किम् ?
उत्तरम्: 'वर्तन्ते' इति समानार्थकं क्रियापदं अस्ति।

पृष्ठम् 92: प्रश्नानि

6. अधः शब्दजालं प्रदत्तम् अस्ति । अस्मिन् उपरितः अधः वामतः दक्षिणं चेति आधारं कृत्वा सार्थक शब्दान् रेखाङ्कयत-
पृष्ठम् 92: प्रश्नानि

उत्तरम्:
जनजातिः
खासी
नागा
मिजोरमः
संस्कृतिः
पूर्वोत्तरम्
देशस्य
भगिन्यः
गारो
प्राकृतिकः
वंशवृक्षः
अरुणाचलः
मेघालयः
भ्राता
भिन्नः

पृष्ठम् 93: प्रश्नानि


7. पट्टिकातः पदानि चित्वा रिक्तस्थानानि पूरयत-
पृष्ठम् 93: प्रश्नानि

(क) छात्राः अद्य ____________ विषये ज्ञातुमिच्छन्ति।
(ख) अस्माकं देशे ____________ राज्यानि तथा अष्ट केन्द्रशासितप्रदेशाः सन्ति।
(ग) सप्तभगिन्यः एकः भ्राता च इति ____________ कथ्यन्ते।
(घ) सप्तभगिन्यः इत्युक्तानि राज्यानि -
____________, ____________, ____________, ____________, ____________, ____________, ____________।
(ङ) प्रदेशेऽस्मिन् ____________ बाहुल्यम् अस्ति।
(छ) पूर्वोत्तरराज्येषु वंशवृक्षाणां ____________ विद्यते।
उत्तरम्:
(क) छात्राः अद्य स्वदेशस्य राज्यानाम् विषये ज्ञातुमिच्छन्ति।
(ख) अस्माकं देशे अष्टाविंशतिः राज्यानि तथा अष्ट केन्द्रशासितप्रदेशाः सन्ति।
(ग) सप्तभगिन्यः एकः भ्राता च इति पूर्वोत्तरराज्यानि कथ्यन्ते।
(घ) सप्तभगिन्यः इत्युक्तानि राज्यानि - अरुणाचलप्रदेशः, असमः, मणिपुरं, मिजोरमः, मेघालयः, नागालैण्डं, त्रिपुरा च।
(ङ) प्रदेशेऽस्मिन् जनजातीनाम् बाहुल्यम् अस्ति ।
(छ) पूर्वोत्तरराज्येषु वंशवृक्षाणां प्राचुर्यम् विद्यते।

8. भिन्नप्रकृतिकं पदं चिनुत-
(क) गच्छति, पठति, धावति, अहसत्, क्रीडति
उत्तरम्: अहसत्

(ख) छात्रः, सेवकः, शिक्षकः, लेखिका, क्रीडकः
उत्तरम्: लेखिका

(ग) पत्रम्, मित्रम्, पुष्पम्, आम्रः, फलम्
उत्तरम्: आम्रः

(घ) व्याघ्रः, भल्लूकः, गजः, कपोतः, शाखा, वृषभः, सिंहः
उत्तरम्: शाखा

(ङ) पृथिवी, वसुन्धरा, धरित्री, यानम्, वसुधा
उत्तरम्: यानम्

पृष्ठम् 94: प्रश्नानि

9. विशेष्य- विशेषणानाम् उचितं मेलनं कुरुत
पृष्ठम् 94: प्रश्नानिउत्तरम्:
पृष्ठम् 94: प्रश्नानि

The document NCERT Solutions: पश्यत कोणमैशान्यं भारतस्य मनोहरम् is a part of the Class 8 Course Sanskrit (Deepakam) Class 8 - New NCERT.
All you need of Class 8 at this link: Class 8

FAQs on NCERT Solutions: पश्यत कोणमैशान्यं भारतस्य मनोहरम्

1. भारतस्य मनोहरं पृष्ठम् किमर्थं प्रसिद्धं अस्ति?
Ans. भारतस्य मनोहरं पृष्ठम् भारतीयसंस्कृतिः, ऐतिहासिकदृश्यानि, प्राकृतिकसौन्दर्यं च दर्शयति। एषः पुस्तकः विद्यार्थिभ्यः भारतस्य विविधसंस्कृतिपरम्पराणां विषये ज्ञानं दातुं, तेषां मनोहरं स्थानानि च प्रदर्शयितुं अभिप्रेतः अस्ति।
2. कस्य पुस्तकस्य अध्ययनं कर्तुं 'पश्यत कोणमैशान्यं' शीर्षकम् उपयुक्तं अस्ति?
Ans. 'पश्यत कोणमैशान्यं' शीर्षकम् NCERT पुस्तकस्य अङ्गं अस्ति, यः कक्षा 8 चात्राणां हेतु लिखितं अस्ति। एषः पुस्तकः भारतस्य भूगोलं, ऐतिहासिकं, सांस्कृतिकं च विषयाणां सम्यक् ज्ञानेन चात्रानां बोधं वर्धयति।
3. 'मनोरमं भारतं' विषयस्य अध्ययनस्य लाभाः किम्न अस्ति?
Ans. 'मनोरमं भारतं' विषयस्य अध्ययनस्य लाभाः अनेकाः सन्ति। एषः विषयः विद्यार्थिभ्यः भारतस्य ऐतिहासिकं, सांस्कृतिकं च दृश्यं ज्ञातुं साहाय्यं करोति। एतेन च भारतीयसंस्कृतिः, भौगोलिकं विविधतां च अवलोकयितुं च अवसरः प्राप्यते।
4. 'पश्यत कोणमैशान्यं' पुस्तकस्य मुख्यविषयाः किम्?
Ans. 'पश्यत कोणमैशान्यं' पुस्तकस्य मुख्यविषयाः भारतस्य भौगोलिकदृश्यानि, ऐतिहासिकपृष्ठभूमिः, एवं सांस्कृतिकविविधता इत्यादयः सन्ति। एषः पुस्तकः चात्राणां ज्ञानवर्धनाय उपयुक्तं अस्ति।
5. किमर्थं NCERT पुस्तकानि आवश्यकानि?
Ans. NCERT पुस्तकानि आवश्यकानि, यः चातुर्यं, सुसंगठितं च ज्ञानं दातुं परिकल्पितानि। एषः पुस्तकः विद्यार्थिभ्यः पाठ्यक्रमानुसारं ज्ञानं साधयितुं, चिक्षितुं च अनिवार्यं अस्ति।
Explore Courses for Class 8 exam
Get EduRev Notes directly in your Google search
Related Searches
Free, ppt, Sample Paper, NCERT Solutions: पश्यत कोणमैशान्यं भारतस्य मनोहरम्, Objective type Questions, Important questions, practice quizzes, video lectures, MCQs, study material, Extra Questions, Semester Notes, shortcuts and tricks, NCERT Solutions: पश्यत कोणमैशान्यं भारतस्य मनोहरम्, pdf , Exam, mock tests for examination, Summary, Viva Questions, NCERT Solutions: पश्यत कोणमैशान्यं भारतस्य मनोहरम्, past year papers, Previous Year Questions with Solutions;