1. पाठम् आधृत्य उदाहरणानुगुणं लिखत 'आम्' अथवा 'न' -
(क) किं वीरवरः राजपुत्रः आसीत्? ____________
उत्तरम्: आम्
(ख) "किं ते वर्तनम्"? इति किं शूद्रकः अपृच्छत्? ____________
उत्तरम्: आम्
(ग) किं वीरवरं राज्ञः समीपे दौवारिकः अनयत् ? ____________
उत्तरम्: आम्
(घ) किं राजा शूद्रकः राजपुत्रं वीरवरं साक्षात् दृष्ट्वा एव वृत्तिम् अयच्छत् ? ____________
उत्तरम्: न
(ङ) किं वीरवरः स्ववेतनस्य चतुर्थं भागम् एव पत्न्यै यच्छति स्म ? ____________
उत्तरम्: आम्
(च) किं करुण-रोदन-ध्वनिं राजा श्रुतवान् ? ____________
उत्तरम्: आम्
(छ) किं करुणरोदनध्वनिः दिवसे श्रुतः आसीत् ? ____________
उत्तरम्: न
(ज) किं राजलक्ष्म्या उक्तः उपायः अतीव दुःसाध्यः आसीत् ? ____________
उत्तरम्: आम्
(झ) किं भगवती सर्वमङ्गला उपायं संसूच्य शीघ्रमेव अदृश्या अभवत्? ____________
उत्तरम्: आम्
2. अधोलिखितान् प्रश्नान् पूर्णवाक्येन उत्तरत
(क) शूद्रकः कीदृशः राजा आसीत्?
उत्तरम्: शूद्रकः पराक्रमी नानाशास्त्रविद् राजा आसीत्।
(ख) वीरवरः कस्य समीपं गन्तुम् इच्छति स्म?
उत्तरम्: वीरवरः राज्ञः समीपं गन्तुम् इच्छति स्म।
(ग) राज्ञः शूद्रकस्य 'का ते सामग्री ?" इति प्रश्नस्य उत्तरं वीरवरः किम् अयच्छत् ?
उत्तरम्: वीरवरः अवदत्- मम द्वौ बाहू खड्गश्च मम सामग्री अस्ति।
(घ) वीरवरः स्वगृहं कदा गच्छति स्म ?
उत्तरम्: यदा राजा आदिशति, तदा वीरवरः गृहं गच्छति स्म ।
(ङ) वीरवरः स्ववेतनस्य अर्धं केभ्यः यच्छति स्म ?
उत्तरम्: वीरवरः स्ववेतनस्य अर्धं देवेभ्यः यच्छति स्म।
(च) राजलक्ष्मीः कुत्र सुखेन अवसत् ?
उत्तरम्: राजलक्ष्मीः भुजच्छायायां सुखेन अवसत्।
(छ) राजलक्ष्म्याः दुःखस्य कारणं श्रुत्वा बद्धाञ्जलिः वीरवरः किम् अवदत् ?
उत्तरम्: वीरवरः अवदत् - अस्ति अत्र राज्ञः जीवनस्य कश्चित् उपायः ?
3. उदाहरणानुसारं निम्नलिखितानि वाक्यानि अन्वयरूपेण लिखत
(क) आसीत् शोभावती नाम काचन नगरी ।
अन्वयः शोभावती नाम काचन नगरी आसीत् ।
(ख) प्रतिदिनं सुवर्णशतचतुष्टयं देव !
अन्वयः देव! प्रतिदिनं सुवर्णचतुष्टयम्।
(ग) देव! दिनचतुष्टयस्य वेतनार्पणेन प्रथममवगम्यतां स्वरूपमस्य वेतनार्थिनो राजपुत्रस्य, किमुपपन्नमेतत् वेतनं न वेति।
अन्वयः देव! दिनचतुष्टयस्य वेतनार्पणेन प्रथमम् अस्य वेतनार्थिनः राजपुत्रस्य स्वरूपम् अवगम्यताम्। किम् एतत् वेतनम् उपपन्नं न वेति।
(घ) क्रन्दनमनुसर राजपुत्र !
अन्वयः राजपुत्र ! क्रन्दनम् अनुसर।
(ङ) अथ मन्त्रिणां वचनात् ताम्बूलदानेन नियोजितोऽसौ राजपुत्रो वीरवरो नरपतिना ।
अन्वयः अथ मन्त्रिणां वचनेन नरपतिना असौ राजपुत्रः वीरवरः ताम्बूलदानेन नियोजितः।
(च) नैष गन्तुमर्हति राजपुत्र एकाकी सूचिभेद्ये तिमिरेऽस्मिन् ।
अन्वयः अस्मिन् सूचिभेद्ये तिमिरे एव राजपुत्रः एकाकी गन्तुं न अर्हति।
(छ) भगवति! अस्त्यत्र कश्चिदुपायो येन भगवत्याः पुनरिह चिरवासो भवति, सुचिरं जीवति च स्वामी ?
अन्वयः भगवति! अस्ति अत्र कश्चिद् उपायः ? येन इह भगवत्याः पुनः चिरवासो भवति स्वामी च सुचिरं जीवति।
(ज) तदा पुनर्जीविष्यति राजा शूद्रको वर्षाणां शतम् ।
अन्वयः तदा राजा शूद्रकः पुनः वर्षाणां शतं जीविष्यति।
4. उदाहरणानुगुणं पाठगतानि पदानि अधिकृत्य रिक्तस्थानानि पूरयत
यथा - (1) अथैकदा = अथ + एकदा
(2) वृत्त्यर्थम् = वृत्तिः + _______
(3) कस्मादपि = _______ + अपि
(4) कोऽपि = कः + _______
(5) राजपुत्रोऽस्मि = _______ + अस्मि
(6) यथेष्टम् = यथा + _______
(7) वेतनार्पणेन = वेतन + _______
(8) तदालोक्य = _______ + आलोक्य
(9) ततोऽसौ = ततः + _______
(10) वर्तनार्थिनो = _______ + अर्थिनः
(11) तदवशिष्टं = _______ + अवशिष्टम्
(12) राजदर्शनादनन्तरं = राजदर्शनात् + _______
(13) वेत्ति = _______+ इति
(14) राजलक्ष्मीरुवाच = राजलक्ष्मीः + _______
(15) चार्द्धं = _______ + अर्धम्
(16) बहिर्नगरादालोकिता = बहिः + _______ + आलोकिता
(17) कापि = _______ + अपि
(18) प्रत्युवाच = प्रति + _______
(19) राजलक्ष्मीरस्मि = _______ + अस्मि
(20) स्थास्यामीति = स्थास्यामि + _______
(21) भुजच्छायायां = _______ + छायायाम्
(22) अस्त्यत्र = अस्ति + _______
(23) कश्चिदुपायः = _______ + उपायः
उत्तरम्:
यथा - (1) अथैकदा = अथ + एकदा
(2) वृत्त्यर्थम् = वृत्तिः + अर्थम्
(3) कस्मादपि = कस्मात् + अपि
(4) कोऽपि = कः + अपि
(5) राजपुत्रोऽस्मि = राजपुत्रः + अस्मि
(6) यथेष्टम् = यथा + इष्टम्
(7) वेतनार्पणेन = वेतन + अर्पणेन
(8) तदालोक्य = तद् + आलोक्य
(9) ततोऽसौ = ततः + असौ
(10) वर्तनार्थिनो = वर्तन + अर्थिनः
(11) तदवशिष्टं = तद् + अवशिष्टम्
(12) राजदर्शनादनन्तरं = राजदर्शनात् + अनन्तरम्
(13) वेत्ति = वेद् + ति
(14) राजलक्ष्मीरुवाच = राजलक्ष्मीः + उवाच
(15) चार्द्धं = च + अर्धम्
(16) बहिर्नगरादालोकिता = बहिः + नगराद् + आलोकिता
(17) कापि = का + अपि
(18) प्रत्युवाच = प्रति + उवाच
(19) राजलक्ष्मीरस्मि = राजलक्ष्मीः + अस्मि
(20) स्थास्यामीति = स्थास्यामि + इति
(21) भुजच्छायायां = भुजः + छायायाम्
(22) अस्त्यत्र = अस्ति + अत्र
(23) कश्चिदुपायः = कश्चित् + उपायः
5. अधोलिखितेषु वाक्येषु रक्तवर्णीयपदानि (रेखांकनम्) केभ्यः प्रयुक्तानि इति उदाहरणानुगुणं लिखत -
यथा - अहं "भवतः" सेवायां नियोजितः । → राज्ञे (चतुर्थी विभक्ति - 'के लिए')
(क) ततः "असौ" तद्रोदनस्वरानुसरणक्रमेण प्रचलितः ।
उत्तरम्: असौ → प्रथमा विभक्ति (एकवचन)
(ख) तत् "अहम्" अपि गच्छामि पृष्ठतोऽस्य ।
उत्तरम्: अहम् (प्रथमा विभक्ति)
(ग) चिरम् "एतस्य" भुजच्छायायां सुमहता सुखेन निवसामि ।
उत्तरम्: एतस्य → षष्ठी विभक्ति (सम्बन्ध)
(घ) "सा" चातीव दुःसाध्या ।
उत्तरम्: सा (प्रथमा विभक्ति)
(ङ) किं "ते" वर्तनम् ?
उत्तरम्: ते (चतुर्थी विभक्ति)
6. अधोलिखितानि वाक्यानि पठित्वा तेन सम्बद्धं श्लोकं पाठात् चित्वा लिखत -
(क) राजलक्ष्मीः वदति यत् यदि वीरवरः स्वस्य सर्वप्रियं वस्तु त्यजति तदा सा पुनः शूद्रकस्य समीपे स्थास्यति।
उत्तरम्: यदि त्वया स्वस्य सर्वतः प्रियं वस्तु सहासवदनेन भगवत्यै सर्वमङ्गलायै उपहारः क्रियेत, तदा पुनर्जीविष्यति राजा शूद्रको वर्षाणां शतम् अहञ्च सुखेन निवत्स्यामि ।
(ख) राजा शूद्रकः प्रथमं वीरवरस्य वृत्त्यर्थं प्रार्थनां न स्वीकरोति।
उत्तरम्: न एतत् शक्यम्।
(ग) एकदा कोऽपि वीरवरः नाम राजपुत्रः वृत्तिं प्राप्तुं राज्ञः शूद्रकस्य समीपं गच्छति।
उत्तरम्: एकदा वीरवरनामा राजपुत्रः वृत्त्यर्थं कस्मादपि देशाद् राजद्वारमुपागच्छत्।
(घ) सः तस्य कर्तव्यनिष्ठां साक्षात् पश्यति।
उत्तरम्: ततो नरपतिः खड्गपाणिः तस्य अनुसरणक्रमेण बहि: निरगच्छत् नगरीद्वारात् ।
(ङ) राजा मन्त्रिणां मन्त्रणया वीरवराय वृत्तिं यच्छति।
उत्तरम्: अथ मन्त्रिणां वचनात् ताम्बूलदानेन नियोजितोऽसौ राजपुत्रो वीरवरो नरपतिना ।
7. अधोलिखितानां वाक्यानां पदच्छेदं कुरुत-
यथा - अथैकदा वीरवरनामा राजपुत्रः वृत्त्यर्थं कस्मादपि देशाद् राजद्वारमुपागच्छत्।
अथ एकदा वीरवरनामा राजपुत्रः वृत्त्यर्थं कस्मात् अपि देशात् राजद्वारम् उपागच्छत्।
(क) वृत्त्यर्थमागतो राजपुत्रोऽस्मि ।
पदच्छेद: वृत्त्यर्थम् आगतः राजपुत्रः अस्मि।
(ख) अथैकदा कृष्णचतुर्दश्यामर्धरात्रे सः राजा श्रुतवान् करुणरोदनध्वनिं कञ्चन ।
पदच्छेदः अथ एकदा कृष्णचतुर्दश्याम् अर्धरात्रे सः राजा श्रुतवान् करुणरोदनध्वनिम् कञ्चन।
(ग) तदहमपि गच्छामि पृष्ठतोऽस्य निरूपयामि च किमेतदिति ।
पदच्छेदः तत् अहम् अपि गच्छामि पृष्ठतः अस्य निरूपयामि च किम् एतत् इति।
(घ) अस्त्यत्र कश्चिदुपायो येन भगवत्याः पुनरिह चिरवासो भवति।
पदच्छेदः अस्ति अत्र कश्चित् उपायः येन भगवत्याः पुनः इह चिरवासः भवति।
(ङ) एकैवात्र प्रवृत्तिः सा चातीव दुःसाध्या ।
पदच्छेदः एका एव अत्र प्रवृत्तिः सा च अतीव दुःसाध्या।
| 1. सन्निमित्ते वरं त्यागः का अर्थः? | ![]() |
| 2. सन्निमित्ते वरं त्यागः कथं प्रासंगिकः अस्ति? | ![]() |
| 3. त्यागस्य महत्त्वम् कः? | ![]() |
| 4. सन्निमित्ते वरं त्यागः शिक्षायाः क्षेत्रे कथं उपयोगी अस्ति? | ![]() |
| 5. त्यागस्य उदाहरणानि किं? | ![]() |