प्रश्न 1. प्रश्नानाम् उत्तराणि एकपदेन लिखत–
(क) इयं धरा कै: स्वर्णवद् भाति?
उत्तर: शस्यै:।
(ख) भारतस्वर्णभूमिः कुत्र राजते?
उत्तर: क्षितौ।
(ग) इयं केषां महाशक्तिभिः पूरिता?
उत्तर: अणूनाम्।
(घ) इयं भूः कस्मिन् युतानाम् अस्ति?
उत्तर: प्रबन्धे।
(ङ) अत्र किं सदैव सुपूर्णमस्ति?
उत्तर: खाद्यान्नभाण्डम्।
प्रश्न 2. समानार्थकपदानि पाठात् चित्वा लिखत–
उत्तर:
(क) पृथिव्याम् क्षितौ (क्षितौ/पर्वतेषु/त्रिलोक्याम्)
(ख) सुशोभते भाति (लिखते/भाति/पिबति)
(ग) बुद्धिमताम् विपश्चिज्जनानाम् (पर्वणाम्/उत्सवानाम्/विपश्चिज्जनानाम्)
(घ) मयूराणाम् शिखीनाम् (शिखीनाम्/शुकानाम्/पिकानाम्)
(ङ) अनेकेषाम् बहूनाम् (जनानाम्/वैज्ञानिकानाम्/बहूनाम्)
प्रश्न 3. श्लोकांशमेलनं कृत्वा लिखत–
उत्तर:
प्रश्न 4. चित्रं दृष्ट्वा (पाठात्) उपयुक्तपदानि गृहीत्वा वाक्यपूर्ति कुरुत–
उत्तर:
(क) अस्मिन् चित्रे एका नदी वहति।
(ख) नदी पर्वतात् निःसरति।
(ग) नद्याः जलं शुद्धं भवति।
(घ) नदीजलेन शस्यसेचनं भवति।
(ङ) भारतः स्वर्ण भूमिः अस्ति।
प्रश्न 5. चित्राणि दृष्ट्वा (मञ्जूषातः) उपयुक्तपदानि गृहीत्वा वाक्यपूर्ति कुरुत–
उत्तर:
(क) अस्मिन् चित्रे अस्त्राणि दृश्यन्ते।
(ख) एतेषाम् अस्त्राणां प्रयोगः युद्धे भवति।
(ग) भारतः एतादृशानां अस्त्राणाम् प्रयोगेण विकसितदेशः मन्यते।
(घ) अत्र परमाणुशक्तिप्रयोगः अपि भवति।
(ङ) आधुनिकै: अस्त्रै: सैनिकाः अस्मान् शत्रुभ्यः रक्षन्ति।
(च) उपग्रहाणां सहायतया बहूनि कार्याणि भवन्ति।
प्रश्न 6. (अ) चित्रं दृष्ट्वा संस्कृते पञ्चवाक्यानि लिखत–
उत्तर:
(क) इदं चित्रं दीपावली-उत्सवस्य अस्ति।
(ख) अस्मिन् चित्रे दीपावली आचर्यते।
(ग) अत्र स्त्रियः पुरुषाः च दीपान् प्रज्वालयन्ति।
(घ) सर्वे प्रसन्नाः दृश्यन्ते।
(ङ) जनाः नूतनानि वस्त्राणि धारयन्ति।
(आ) चित्रं दृष्ट्वा संस्कृते पञ्चवाक्यानि लिखत–
उत्तर:
(क) इदं चित्रं रक्षाबन्धनपर्वस्य अस्ति।
(ख) अत्र भगिनी भ्रातुः रक्षणसूत्रं बध्नाति।
(ग) भ्राता भगिनी च प्रसन्नौ स्तः।
(घ) भ्राता स्वभगिनीं उपहारं ददाति।
(ङ) भ्राता स्वभगिन्याः रक्षणमपि प्रतिज्ञां करोति।
14 videos|80 docs|27 tests
|
1. क्षितौ राजते भारतस्वर्णभूमिः किस कविता की पंक्ति है? |
2. क्षितौ राजते भारतस्वर्णभूमिः किस भाषा में लिखी गई है? |
3. क्षितौ राजते भारतस्वर्णभूमिः किस विषय पर है? |
4. क्षितौ राजते भारतस्वर्णभूमिः का मुख्य संदेश क्या है? |
5. क्षितौ राजते भारतस्वर्णभूमिः कविता किस काव्यरचना का हिस्सा है? |
|
Explore Courses for Class 8 exam
|