1. अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरम्:ं लिखत—
(क) श्रद्धावान् जनः किं लभते?
उत्तरम्: ज्ञानम्
(ख) कस्मात् सम्मोहः जायते?
उत्तरम्: क्रोधात्
(ग) सम्मोहात् किं जायते?
उत्तरम्: स्मृतिविभ्रमः
(घ) अर्जुनाय गीतां कः उपदिष्टवान्?
उत्तरम्: श्रीकृष्णः
(ङ) हर्षामर्षभयोद्वेगैः मुक्तः नरः कस्य प्रियः भवति?
उत्तरम्: भगवतः
2. पूर्णवाक्येन उत्तरम्:ं लिखत –
(क) कीदृशं वाक्यं वाङ्मयं तपः उच्यते ?
उत्तरम्: अनुद्वेगकरं, सत्यं, प्रियहितं च वाक्यं वाङ्मयं तपः उच्यते।
(ख) कीदृशः जनः स्थितधीः उच्यते ?
उत्तरम्: यः दुःखेषु अनुद्विग्नमनाः, सुखेषु विगतस्पृहः, वीतरागभयक्रोधः च भवति, सः स्थितधीः उच्यते।
(ग) जनः कथं प्रणश्यति ?
उत्तरम्: क्रोधात् सम्मोहः, सम्मोहात् स्मृतिविभ्रमः, स्मृतिभ्रंशात् बुद्धिनाशः, बुद्धिनाशात् प्रणश्यति।
(घ) जनः कथम् उत्तमां शान्तिं प्राप्नोति ?
उत्तरम्: श्रद्धावान्, तत्परः, संयतेन्द्रियः जनः ज्ञानं लभते, ततः सः उत्तमां शान्तिं प्राप्नोति।
(ङ) उपदेशप्राप्तये त्रयः उपायाः के भवन्ति ?
उत्तरम्: प्रणिपातः, परिप्रश्नः, सेवया — एते त्रयः उपायाः भवन्ति।
3. कोष्ठके दत्तानि पदानि उपयुज्य वाक्यानि रचयत-
(क) अनुद्वेगकरं सत्यं प्रियहितं च वाक्यं _______ तपः उच्यते।
(ख) सततं सन्तुष्टः दृढनिश्चयः च _______ भवति।
(ग) अनुद्विग्नमनाः मुनिः _______ उच्यते।
(घ) तद् आत्मज्ञानं प्रणिपातेन परिप्रश्नेन _______ च विद्धि।
(ङ) सम्मोहात् _______ भवति।
उत्तरम्:
(क) अनुद्वेगकरं सत्यं प्रियहितं च वाक्यं वाङ्मयं तपः उच्यते।
(ख) सततं सन्तुष्टः दृढनिश्चयः च योगी भवति।
(ग) अनुद्विग्नमनाः मुनिः स्थितधीः उच्यते।
(घ) तद् आत्मज्ञानं प्रणिपातेन परिप्रश्नेन सेवया च विद्धि।
(ङ) सम्मोहात् स्मृतिविभ्रमः भवति।
4. अधोलिखितानि पदानि उपयुज्य वाक्यानि रचयत
(क) उच्यते ________________
(ख) च ________________
(ग) न ________________
(ङ) लब्ध्व ________________
(ङ) कुर्यात् ________________
उत्तरम्:
(क) उच्यते – सत्यं प्रियं हितं च वाक्यं वाङ्मयं तपः उच्यते।
(ख) च – अर्जुनः वीरः च ज्ञानी च आसीत्।
(ग) न – असत्यं न वदेत्।
(घ) लब्ध्व – ज्ञानं लब्ध्व मानवः शान्तिं प्राप्नोति।
(ङ) कुर्यात् – स्वधर्मे स्थितः पुरुषः कार्यं यत्नेन कुर्यात्।
5. पाठानुसारं समुचितेन पदेन श्लोकं पूरयत
(क) श्रद्धावाँल्लभते ज्ञानं तत्परः ________________।
(ख) ________________ चैव वाङ्मयं तप उच्यते ।
(ग) सन्तुष्टः सततं योगी यतात्मा ________________ ।
(घ) ________________ भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः ।
(ङ) तद्विद्धि ________________ परिप्रश्नेन सेवया ।
उत्तरम्:
(क) श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः। (जो श्रद्धालु और इंद्रियों को वश में रखने वाला है, वह ज्ञान प्राप्त करता है।)
सन्दर्भ: श्लोक ४।
(ख) अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च चैव वाङ्मयं तप उच्यते। (जो वचन उद्वेगहीन, सत्य, प्रिय और हितकारी हो, वह वाचिक तप कहा जाता है।)
सन्दर्भ: श्लोक ८।
(ग) सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः। (जो सदा संतुष्ट, योगी, आत्मा को वश में रखने वाला और दृढ़ निश्चयी है।)
सन्दर्भ: श्लोक ६।
(घ) क्रोधात् भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः। (क्रोध से मोह होता है, मोह से स्मृति का भ्रम होता है।)
सन्दर्भ: श्लोक २।
(ङ) तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया। (इसे प्रणाम, प्रश्न और सेवा से जानो।)
सन्दर्भ: श्लोक ३।
6. उदाहरणानुसारं पदानि स्त्रीलिङ्गे परिवर्तयत
उदाहरणम्:
श्रद्धावान् = श्रद्धावती
बुद्धिमान् = बुद्धिमती
(क) गुणवान् = _______________
(ख) आयुष्मान् = _______________
(ग) क्षमावान् = _______________
(घ) ज्ञानवान् = _______________
(ङ) श्रीमान् = _______________
उत्तरम्:
(क) गुणवान् = गुणवती
(ख) आयुष्मान् = आयुष्मती
(ग) क्षमावान् = क्षमावती
(घ) ज्ञानवान् = ज्ञानवती
(ङ) श्रीमान् = श्रीमती
७. समुचितेन पदेन सह स्तम्भौ मेलयत
उत्तरम्:
8: श्रीमद्भगवद्गीतायाः विषये पञ्च वाक्यानि लिखत
(क) _______________________
(ख) _______________________
(ग) _______________________
(घ) _______________________
(ङ) _______________________
उत्तरम्:
(क) श्रीमद्भगवद्गीता भगवान् श्रीकृष्णस्य अर्जुनाय उपदेशः अस्ति।
(ख) गीतायां सप्तशतं श्लोकाः सन्ति।
(ग) अर्जुनस्य संशयं दूरं कर्तुं गीता लिखिता।
(घ) महाभारते भीष्मपर्वणि गीता वर्णिता।
(ङ) गीतायाः उपदेशाः जीवनं शोभयन्ति।
12 videos|104 docs|13 tests
|
1. गीता सुगीता का क्या महत्व है और यह किस प्रकार के पाठों को प्रस्तुत करती है ? | ![]() |
2. गीता सुगीता में कर्तव्य और अधिकार के बीच का संबंध कैसे दर्शाया गया है ? | ![]() |
3. गीता सुगीता के पाठों को जीवन में कैसे लागू किया जा सकता है ? | ![]() |
4. गीता सुगीता में प्रस्तुत कर्तव्यों का पालन करने से क्या लाभ होते हैं ? | ![]() |
5. गीता सुगीता के नैतिक पाठों का समाज पर क्या प्रभाव पड़ता है ? | ![]() |