1. पाठे विद्यमानानां श्लोकानाम् उच्चारणं स्मरणं लेखनं च कुरुत ।
उत्तरम्: स्वयं करोतु।
2. अधोलिखितानां प्रश्नानाम् एकपदेन उत्तराणि लिखत-
(क) पाठकाः केषां सम्यक् प्रयोगं कुर्युः ?
उत्तरम्: वर्णानाम्।
(ख) किम् अवश्यमेव पठनीयम् ?
उत्तरम्: व्याकरणम्।
(ग) ब्रह्मलोके केन सम्मानं भवति ?
उत्तरम्: सम्यग्वर्णप्रयोगेण।
(घ) अधमाः पाठकाः कति भवन्ति ?
उत्तरम्: षट्।
(ङ) धैर्यं केषां गुणः ?
उत्तरम्: पाठकानाम्।
3. अधोलिखितानां प्रश्नानाम् पूर्णवाक्येन उत्तराणि लिखत–
(क) व्याघ्री दंष्ट्राभ्यां कान् नयति ?
उत्तरम्: व्याघ्री दंष्ट्राभ्यां पुत्रान् नयति।
(ख) वर्णाः कथं प्रयोक्तव्याः ?
उत्तरम्: वर्णाः स्पष्टतया न च पीडयित्वा प्रयोक्तव्याः।
(ग) पाठकानां षट्-गुणाः के भवन्ति ?
उत्तरम्: पाठकानां षट् गुणाः – माधुर्यम्, अक्षरव्यक्तिः, पदच्छेदः, सुस्वरः, धैर्यम्, लयसमर्थता च भवन्ति।
(घ) के अधमाः पाठकाः भवन्ति ?
उत्तरम्: गीती, शीघ्री, शिरःकम्पी, लिखितपाठकः, अनर्थज्ञः, अल्पकण्ठश्च अधमाः पाठकाः भवन्ति।
(ङ) ‘स्वजनः’ ‘श्वजनः’ च इत्यनयोः अर्थदृष्ट्या कः भेदः ?
उत्तरम्: ‘स्वजनः’ इत्यस्य अर्थः बान्धवः, ‘श्वजनः’ इत्यस्य अर्थः शुनकः अस्ति।
(च) ‘सकलं’ ‘शकलं’ च इत्यनयोः अर्थदृष्ट्या कः भेदः ?
उत्तरम्: ‘सकलं’ इत्यस्य अर्थः सम्पूर्णम्, ‘शकलं’ इत्यस्य अर्थः खण्डः अस्ति।
4. अधोलिखितानि लक्षणानि पाठकस्य गुणाः वा दोषाः वा इति विभजत–उत्तरम्:
5. श्लोकानुसारं रिक्तस्थानानि उचितैः शब्दैः पूरयत
(क) भीता _________ तद्वद् वर्णान् प्रयोजयेत्।
(ख) _________ लयसमर्थं च षडेते पाठका गुणाः।
(ग) गीती शीघ्री _________ तथा लिखितपाठकः।
(घ) एवं वर्णाः प्रयोक्तव्या नाव्यक्ता न च _________।
(ङ) स्वजनः _________ माभूत् सकलं शकलं सकृत् शकृत्।
उत्तरम्:
(क) भीता पतनभेदाभ्यां तद्वद् वर्णान् प्रयोजयेत्।
(ख) माधुर्यमक्षरव्यक्तिः पदच्छेदस्तु सुस्वरः धैर्यं लयसमर्थं च षडेते पाठका गुणाः।
(ग) गीती शीघ्री शिरःकम्पी तथा लिखितपाठकः।
(घ) एवं वर्णाः प्रयोक्तव्या नाव्यक्ता न च पीडिताः।
(ङ) स्वजनः श्वजनो माभूत् सकलं शकलं सकृत् शकृत्।
6. अधोलिखितानि वाक्यानि सत्यम् वा असत्यम् वा इति लिखत
यथा– पदच्छेदः पाठकानां गुणः अस्ति। सत्यम् / असत्यम्
(क) गानसहितपठनं पाठकानां दोषः भवति।
उत्तरम्: सत्यम्
(ख) माधुर्यं नाम अक्षराणाम् उच्चारणे स्पष्टता अस्ति।
उत्तरम्: असत्यम्
(ग) शकृत् नाम एकवारम् इति अर्थः अस्ति।
उत्तरम्: असत्यम्
(घ) अव्यक्ताः वर्णाः प्रयोक्तव्याः भवन्ति।
उत्तरम्: असत्यम्
(ङ) व्याघ्री यथा पुत्रान् हरति तथा वर्णान् प्रयोजयेत्।
उत्तरम्: सत्यम्
12 videos|104 docs|13 tests
|
1. सम्यग्वर्णप्रयोगेण ब्रह्मलोके महीयते का अर्थ क्या है? | ![]() |
2. सम्यग्वर्णप्रयोग कैसे हमारे जीवन को प्रभावित करता है? | ![]() |
3. क्या ब्रह्मलोक का उल्लेख केवल धार्मिक संदर्भ में किया गया है? | ![]() |
4. सम्यग्वर्णप्रयोग के उदाहरण क्या हैं? | ![]() |
5. कैसे हम अपने दैनिक जीवन में सम्यग्वर्णप्रयोग को लागू कर सकते हैं? | ![]() |