1. एकोत्तर द्विसहस्त्रख्रीष्टाब्दे (2001 ईस्वीये वर्षे) गणतन्त्र-दिवस-पर्वणि यदा समग्रमपि भारतराष्ट्र नृत्य-गीतवादित्राणाम् उल्लासे मग्नमासीत् तदाकस्मादेव गुर्जर- राज्यं पर्याकुल, विपर्यस्तम्, क्रन्दनविकलं, विपन्नञ्च जातम्। भूकम्पस्य दारुण- विभीषिका समस्तमपि गुर्जरक्षेत्रं विशेषेण च कच्छजनपदं ध्वंसावशेषु परिवर्तितवती। भूकम्पस्य केन्द्रभूतं भुजनगरं तु मृत्तिकाक्रीडनकमिव खण्डखण्डम् जातम्। बहुभूमिकानि भवनानि क्षणेनैव धराशायीनि जातानि। उत्खाता विद्युद्दीपस्तम्भाः। विशीर्णाः गृहसोपान-मार्गाः। फालद्वये विभक्ता भूमिः। भूमिग दुपरि निस्सरन्तीभिः दुर्वार-जलधाराभिः- महाप्लावनदृश्यम् उपस्थितम्। सहस्रमताः प्राणिनस्तु क्षणेनैव मृताः। ध्वस्तभवनेषु सम्पीडिता सहस्रशोऽन्ये सहायतार्थं करुणकरुणं क्रन्दन्ति स्म। हा दैव! क्षुत्क्षामकण्ठाः मृतप्रायाः केचन शिशवस्तु ईश्वरकृपया एव द्वित्राणि दिनानि जीवन धारितवन्तः।
शब्दार्थाः
द्विसहस्त्रखीष्टाब्द: – दो हजार ईस्वीय वर्ष में। पर्वणिः – उत्सव पर। समग्रम् – सारा। नृत्य-ग्रीवादित्राणाम् – नाचने, गाने बजाने के। क्रन्दनविकलम् – रोने-चिल्लाने से दु:खी। जातम् – हो गया। दारुण-विभीषिका – भयानक मुसीबत ने। विशेषण – विशेष करके। वंसावशेषु – खंडहर के रूपों में। परिवर्तितवती – बदल दिया। केन्द्रभूतम् – केन्द्र रहे। मृत्तिकाक्रीडनम् – मिट्टी के खिलौने। खण्डखण्डम् – टुकड़े-टुकड़े। बहुभूमिकानि – बहुमंजिले। उत्खाता: – उखड़ गए। विद्युद्दीपस्तम्भाः – बिजली के खंभे। विशीर्णाः – बिखर गए। गृहसोपान-मार्गाः – घर की सीढ़ियों के मार्ग। फालद्वये – दो भागों में। विभक्ता – बँट गई। भूमिगर्भात् – धरती के अन्दर से। निस्सरन्तीभिः – निकलती हुई। दुर्वार – कठिन (भयानक)। सहस्रमिता – हजारों की संख्या वाले। क्षणेनैव – क्षण भर में ही। मृता: – मर गए। सम्पीडिता – दुःखी। सहस्रशः – हज़ारों लोग। करुणकरुणम् – दुःख से भरे। मृतप्रायाः – लगभग मरे हुए। द्विवाणि – दो-तीन। धारितवन्तः – धारण किए।
हिन्दी अनुवाद
सन् दो हजार एक के साल (26 जनवरी 2001 ई०) गणतन्त्र-दिवस-पर्व पर जब सारा भारत देश नाचने-गाने और बजाने की खुशी में मग्न था तब अचानक ही गुजरात राज्य चारों ओर से व्याकुल, अस्त-व्यस्त, रोने-चिल्लाने से दु:खी और मुसीबत में फँस गया। भूकम्प की भयानक मुसीबत ने सम्पूर्ण गुजरात क्षेत्र को विशेषकर कच्छ जिले को विनाश के बाद बची हुई वस्तु के रूप में बदल दिया था। भूकम्प का केन्द्र रहा भुज शहर तो मिट्टी के खिलौने की तरह टुकड़े-टुकड़े हो (टूट-फूट) गया। बहुमंजिली इमारतें तो क्षण भर में ही धराशायी (गिर) हो गईं। बिजली के खंभे उखड़ गए। घर की सीढ़ीनुमा रास्ते बिखर गए थे। धरती दो भागों में बँट गई थी। धरती के अन्दर से ऊपर की ओर निकलती हुई जलधाराओं ने तो महाप्रलय का दृश्य उपस्थित कर दिया था। हजारों की संख्या में प्राणी क्षणभर में ही मर गए थे। टूटे हुए भवनों में दु:खी हजारों दूसरे लोग सहायता के लिए करुण विलाप कर रहे थे। भूख से दुर्बल (सूखे) कण्ठ वाले लगभग मरे हुए (मरे हुए से) कुछ बच्चों ने तो ईश्वर की कृपा से दो-तीन दिन ही जीवन धारण किए।
सन्धिः-विच्छेदो वा
पदानि – सन्धिं / सन्धिविच्छेदं
समग्रमपि = समग्रम् + अपि
मग्नमासीत् = मग्नम् + आसीत्
तदाकस्मादेव = तदा + अकस्मात् + एव
विपन्नञ्च = विपत् + नम् + च
समस्तमपि = समस्तम् + अपि
ध्वंसावशेषु = ध्वंस + अवशेषु
क्षणेन + एव = क्षणेनैव
विद्युद्दीपस्तम्भाः = विद्यत् + दीप + स्तम्भाः
भूमिगर्भादुपरि = भूमि-गर्भात् + उपरि
प्राणिनः + तु = प्राणिनस्तु
सहस्त्रशोऽन्ये = सहस्त्रशः + अन्ये
क्षुत्क्षामकण्ठः = क्षुधा + क्षाम् + कण्ठः
शिशवस्तु = शिशवः + तु
समासो-विग्रहो वा
पदानि = समासः/विग्रहः
क्षुत्क्षामकण्ठः = क्षुधा क्षामः कण्ठाः येषाम् ते
महत् प्लावनम् = महाप्लावनम्
बहुभूमिकानि भवनानि = बहव्यः भूमिकाः येषु तानि भवनानि
मृत्तिकाक्रीडनकमिव = मृत्तिकायाः क्रीडनकम् इव
प्रकृति-प्रत्ययोः विभाजनम्
पदानि = प्रकृतिः + प्रत्ययः
जातम् – जन + क्त
परिवर्तितवती = परिवर्तन + क्तवतु
उत्खाला = उत् + खन् + क्त
विभक्ता – वि + भज् + क्त
उपस्थितम् = उप + स्था + क्त
मृताः = मृ + क्त
सम्पीडिता – सम् + पीड् + क्त
धारितवन्तः = धारय + क्तवतु
अव्ययपद-चयनम् वाक्य प्रयोगश्चः
अव्ययः = अर्थः = वाक्येषु प्रयोगः
यदा = जब = यदा समग्र भारत राष्ट्र-गीत अगायत्।
तु = तो = भुजनगरं तु मृत्तिका क्रीडनकामिव खण्डखण्डम् जातम्।
एव = ही = ईश्वरः सर्वत्र एव अस्ति।
पर्यायपदानि
पदानि = पर्यायाः
पर्वणि = उत्सवे
समग्रम् – सकलम्, सम्पूर्णम्
राष्ट्रम् = देशम्
मग्नम् = लीनम्
अकस्मात् = सहसा
पर्याकुलं = परितः आकुलम्
विपर्यस्तम् = अस्त-व्यस्तम्
विपन्नम् = विपत्ति-युक्तम्
गुर्जर = गुजरात
ध्वंसावशेषु = नाशोपरान्तम अवशिष्टेषु
बहुभूमिकानि = बहवः भूमिकाः
फालद्वये = खण्ड द्वये
विशीर्णाः = नष्टाः
उत्खाताः = उत्पाटिताः
निस्सरन्तीभिः – निर्गच्छन्तीभिः
दुवरि = दुखेन निवारयितुं योग्यः
मृताः = दिवंगताः
ध्वस्तम् = नष्टम्
विपर्ययपदानि
पदानि = विपर्ययाः
दिवस = रात्रि
उल्लासे – अनुल्लासे
आसीत् – अस्ति
परिवर्तितवती = अपरिवर्तितवती
खण्डम् = अखण्डम्
जातम् = अजातम्
उपरि = अधः
उपस्थितम् = अनुपस्थितम्
सहायतार्थ = असहायतार्थ
मृताः = जीविताः
2. इयमासीत् भैरवविभीषिका कच्छ-भूकम्पस्य। पञ्चोत्तर-द्विसहस्रख्रीष्टाब्दे (2005 ईस्वीये वर्षे) अपि कश्मीर-प्रान्ते पाकिस्तान-देशे च धरायाः महत्कम्पनं जातम्। यस्मात्कारणात् लक्षपरिमिताः जनाः अकालकालकवलिताः। पृथ्वी कस्मात्प्रकम्पते वैज्ञानिकाः इति विषये कथयन्ति यत् पृथिव्या अन्तर्गर्भे विद्यमानाः बृहत्यः पाषाण-शिलाः यदा संघर्षणवशात् त्रुट्यन्ति तदा जायते भीषणं संस्खलनम्, संस्खलनजन्य कम्पनञ्च। तदैव भयावहकम्पनं धरायाः उपरितलमप्यागत्य महाकम्पनं जनयति येन महाविनाशदृश्यं समुत्पद्यते।
शब्दार्थाः
भैरवविभीषिका – भयानक विपत्ति। पञ्चोत्तर – पाँच अधिक। द्विसहस्र – दो हजार। धरायाः – धरती का। महत्कम्पनम् – महान कम्पन (कँपकँपी)। जातम् – हुआ। लक्षपरिमिता: – लाख तक। अकाल काल कवलिता: – असमय ही मौत के मुँह में चले गए। पृथिव्या – पृथ्वी के। अन्तर्गर्भे – अन्दर। बृहत्यः – बड़ी-बडी। पाषाणशिला: – पत्थर की शिलाएँ। संघर्षणवशात् – घिसने (कम्पन) के कारण। त्रुट्पन्ति – टूटती हैं। संस्खलनम् – पतन/क्षरण। तदैव – तभी। भयावहकम्पनम् – भयानक कम्पन। जनयति – पैदा करता है। समुत्पद्यते – उत्पन्न होता है। उपरितलम् – ऊपरी तल पर।
हिन्दी अनुवाद
यह कच्छ के भूकम्प की भयानक विभीषिका थी। दो हजार पाँच ईस्वीय वर्ष (2005 ई.) में भी कश्मीर राज्य और पाकिस्तान देश में धरती का महा कम्पन्न हुआ था। जिसके कारण से लाखों लोग असमय ही मौत की भेंट चढ़ गए थे। धरती कैसे काँपती है वैज्ञानिक इस विषय में कहते हैं कि पृथ्वी के अन्दर विद्यमान (स्थित) बड़ी-बड़ी पत्थर की शिलाएँ जब घर्षण (कम्पन) के कारण टूटती हैं तब भयंकर स्खलन (क्षरण / पतन) और स्खलन से उत्पन्न (होने वाला) कंपन पैदा होता है। तभी भयंकर कंपन धरती के ऊपरी तल पर आकर महान कँपकँपी पैदा करता है जिससे महाविनाश का दृश्य पैदा होता है।
सन्धिः-विच्छेदो वा
पदानि = सन्धि/सन्धिविच्छेद
इयमासीत् = इयम् + आसीत्
पञ्चोत्तर = पञ्च + उत्तर
महत्कम्पन्नं = महत् + कम्पनं
यस्मात्कारणात् – यस्मात् + कारणात्
अन्तर्गर्भ – अन्तः + गर्भ
संस्खलनम् = सम् + स्खलनम्
कम्पनम् + च = कम्पनञ्च
तदा + एव = तदैव
उपरितलमप्यागत्य = उपरि + तलम् + अपि + आगत्य
समासो-विग्रहो वा
पदानि = समासः/विग्रहः
महाकम्पनं = महान् कम्पनम्
महान् विनाश = महाविनाश
प्रकृति-प्रत्ययोः विभाजनम्
पदानि – प्रकृतिः + प्रत्ययः
जातम् = जन् + क्त
आगत्य = आ + गम् + ल्यप्
समुत्पद्यते = सम् + उत् + पत् + ल्यप्
जायते – जन् + यत्
अव्ययपद-चयनम् वाक्य प्रयोगश्च:
अव्ययः – अर्थः – वाक्येषु प्रयोगः
अपि – भी – अहम् अपि त्वया सह चलिष्यामि।
च – और – कश्मीर प्रान्ते पाकिस्तान देशे च धरायाः महत्कम्पनं जातम्।
यत् – कि – सर्वेजनाः कपयन्ति यत् सत्यमेव जयते।
यदा-तदा – जब-तक – यदा मेघाः गर्जन्ति तदाः मयूराः नृत्यन्ति।
पर्यायपदानि
पदानि = पर्यायाः
कालकवलिताः = मृताः
पृथ्वी = धरा
जनाः = मनुष्याः
पृथिव्या = भूमौ
जायते = उत्पन्नः भवति
भीषणं = भयङकरम्
उपरि = उच्चैः
जनयति = उत्पन्न करोति
संस्खलनम् = विचलनम्
वैज्ञानिकाः = विज्ञानं जानाति ये ते
विपर्ययपदानि
पदानि = विपर्ययाः
आसीत् = अस्ति
धरायाः = गगने
वैज्ञानिकाः = अवैज्ञानिकाः
अन्तः = बहिः
बृहत्यः = लघुः
त्रुट्यन्ति = संयोजयन्ति
उपरि = अधः
आगत्य = अनागत्य
महान् = लघु:
3. चालामुखपर्वतानां विस्फोटैरपि भूकम्पो जायते इति कथयन्ति भूकम्पविशेषज्ञाः। पृथिव्याः गर्भे विद्यमानोऽग्निर्यदा खनिजमृत्तिकाशिलादिसञ्चयं क्वथयति तदा तत्सर्वमेव लावारसताम् उपेत्य दुर्वारगत्या धरा पर्वतं वा विदार्य बहिर्निष्क्रामति। धूमभस्मावृतं जायते तदा गगनम्। सेल्सियश-ताप-मात्राया अष्टशताङ्कतामुपगतोऽयं लावारसो यदा नदीवेगेन प्रवहति तदा पार्श्वस्थग्रामा नगराणि वा तदुदरे क्षणेनैव समाविशन्ति। निहन्यन्ते च विवशाः प्राणिनः। ज्वालामुगिरन्त एते पर्वता अपि भीषणं भूकम्पं जनयन्ति।
शब्दार्थाः
ज्वालामुखपर्वतानाम् – ज्वालामुखी पर्वतों के। जायते – उत्पन्न होता है। गर्भे – अन्दर। विद्यमानः – स्थित। खनिजमृत्तिका शिलादि – खनिज पदार्थ, मिट्टी, शिला (पत्थरों की चट्टानों के)। सञ्चयम् – संचय को। क्वथयति – तपाती है। लावारसताम् – अंगारों के रूप को। उपेत्य – धारण (प्राप्त) करके। दुर्वारंगत्या – तेज गति से। विदार्य – फोड़ कर। धूमभस्मावृतम् – धुएँ और राख से ढका। मात्राया – मात्रा से (का)। अष्टशताङ्कताम् – आठ सौ की संख्या को। उपगतः – प्राप्त। नदीवेगेन – नदी के तेज वेग से। पार्श्वस्थग्रामा: – पास में स्थित गाँवों (गाँव)। तदुदरे – उसके पेटे में (अन्दर)। निहन्यन्ते – मारे जाते हैं। ज्वालाम् उगिरन्तः – ज्वालाओं (अंगारों) को उगलते हुए।
हिन्दी अनुवाद
ज्वालामुखी पर्वतों के विस्फोटों से भी भूकम्प उत्पन्न होता है ऐसा भूकम्प के विशेषज्ञ कहते हैं। पृथ्वी के अन्दर (गर्भ में) स्थित आग जब खनिजों, मिट्टी और शिला (पत्थर) आदि को तपाती (उबालती) है तब वह सब अंगारों का रूप धारण करके तेज़ गति से धरती अथवा पहाड़ को फोड़कर (फाड़कर) बाहर निकलता है। तब आकाश धुएँ और राख से ढक जाता है। सेल्सियस की गर्मी मात्रा के आठ सौ (800) अंकों (आठ सौ डिग्री सेल्सियस) को प्राप्त यह लावा (अंगारे) जब नदी की गति से (नीचे) बहता है तब पास में स्थित गाँव अथवा शहर क्षण भर में ही उसके पेट में समा जाते हैं और विवश (बेचारे) प्राणी मारे जाते हैं। ज्वालाओं को उगलते हुए ये पहाड़ भी भयानक भूकम्प को पैदा करते हैं।
सन्धिः-विच्छेदो वा
पदानि = सन्धिं/सन्धिविच्छेद
विस्फोटैरपि = विस्फोटैः + अपि।
विद्यमानोऽग्निर्यदा = विद्यमानः + अग्निः + यदा
शिलादिसञ्चयं – शिला + आदि + सञ्चयं।
तत्सर्वमेव = तत् + सर्वम् + एव।
बहिर्निष्क्रामति = बहिः + निस्क्रामति।
अष्टशताङ्कतामुपगतोऽयम् = अष्ट + शताङ्क + ताम् + उपगतः + अयम्
पार्श्वस्थग्रामा = पार्श्वस्थ + ग्रामा
तदुदरे = तत् + उदरे
क्षणेन + एव = क्षणेनैव
ज्वालामुगिरन्त = ज्वालाम् + उगिरन्त
समासो-विग्रहो वा
पदानि = समासः / विग्रहः
भूकम्पविशेषज्ञाः = भुवः कम्पनरहस्यस्यं ये जाति
पृथिव्याः गर्भ = पृथ्वीगर्भ
प्रकृति-प्रत्ययोः विभाजनम्
पदानि = प्रकृतिः + प्रत्ययः
उपेत्य = उप + इ + ल्यप्
आगत्या = आ + गम् + ल्यप्
विदार्य = वि + दृ + ल्यप्
उगिरन्तः = उत् + गिर् + शत् प्रत्यय
पर्यायपदानि
पदानि = पर्यायाः
भूकम्पविशेषज्ञाः = भुवः कम्पनरहस्यस्य ज्ञातार:
खनिजम् = उत्खननात् प्राप्तं द्रव्यम्
क्वथयति = उत्तप्तं करोति
विदार्य = विदीर्णं कृत्वा, भित्वा, संत्रोट्य
पार्श्वस्थग्रामा = निकटस्थग्रामाः, समीपस्थग्रामा
उदरे = कुक्षौ
समाविशन्ति = अन्तः गच्छन्तिं
उगिरन्तः = प्रकटयन्तः
पर्वतानाम् = शैलानाम्
भूकम्पः = पृथिव्याम् कम्पन्नः जातः
निहन्यन्ते = म्रियन्ते
विपर्ययपदानि
पदानि = विपर्ययाः
बहिः = अन्तः
क्षणेनैव = सुचिरेणैव
ग्रामम् = नगरम्
अग्नि = जलम्
कम्पन्नः = स्थिर:
सर्वमेव = एकमेव
निहन्यन्ते = जन्यन्ते
4. यद्यपि दैवः प्रकोपो भूकम्पो नाम, तस्योपशमनस्य न कोऽपि स्थिरोपायो दृश यते। प्रकृतिसमक्षमद्यापि विज्ञानगर्वितो मानवः वामनकल्प एव तथापि भूकम्परहस्यज्ञाः कथयन्ति यत् बहुभूमिकभवननिर्माणं न करणीयम्। तटबन्धं निर्माय बृहन्मानं नदीजलमपि नैकस्मिन् स्थले पुञ्जीकरणीयम् अन्यथा असन्तुलनवशाद् भूकम्पस्सम्भवति। वस्तुतः शान्तानि एव पञ्चतत्त्वानि क्षितिजलपावकसमीरगगनानि भूतलस्य योगक्षेमाभ्यां कल्पन्ते। अशान्तानि खलु तान्येव महाविनाशम् उपस्थापयन्ति।
शब्दार्थाः
यद्यपि – जबकि। दैवः – प्राकृतिक/दैवीय। प्रकोप: – क्रोध/मुसीबत। उपशमनस्य – शान्त करने का। स्थिर उपाय: – कारगर उपाय। विज्ञानगर्वितः – विज्ञान के ज्ञान से घमंडी। वामनकल्पः – बौने की तरह। बहुभूमिक भवननिर्माणम् – बहुमंजिलें भवन का निर्माण। तटबन्धम् – बाँध को। निर्माय – बनाकर। बृहन्मात्रम् – बड़ी मात्रा में। असन्तुलनवशात् – असंतुलन के कारण से। शान्तानि – शान्त। वस्तुतः – वास्तव में। भूतलस्य – धरती के। कल्पन्ते – समर्थ कहलाते हैं। अशान्तानि – अशान्त। महाविनाशम् – महाविनाश को। उपस्थापयन्ति – पैदा करते हैं। तान्येव – वे ही।
हिन्दी अनुवाद
जबकि भूकम्प दैवीय (प्राकृतिक) प्रकोप (मुसीबत) है, अतः उसके निराकरण (शान्ति) का कोई स्थिर (कारगर) उपाय नहीं दिखाई देता है। प्रकृति के सामने आज भी विज्ञान के ज्ञान से घमण्डी मनुष्य बौने की तरह ही है तो भी भूकम्प के रहस्यों को जानने वाले विद्वान कहते हैं कि बहुमंजिले भवन को नहीं बनाना चाहिए। बाँध बनाकर बड़ी मात्रा में नदी के जल को भी एक स्थान पर नहीं रोकना चाहिए। नहीं तो असन्तुलन के कारण भूकम्प सम्भव है। वास्तव में शान्त पाँचों ही तत्व पृथ्वी, जल, अग्नि, वायु और आकाश धरती के योग-क्षेम (अप्राप्त की प्राप्ति और प्राप्ति की रक्षा) के लिए समर्थ कहलाते हैं। निश्चय से अशान्त वे ही महाविनाश को पैदा करते हैं।
सन्धिः-विच्छेदो वा
पदानि = सन्धिं/सन्धिविच्छेद
यद्यपि = यदि + अपि
तस्योपशमनस्य = तस्य + उपशमनस्य
कोऽपि = कः + अपि
स्थिरोपायो = स्थिरः + उपाय:
समक्षमद्यापि = समक्षम् + अद्य + अपि
बृहन्मात्रं = बहत् + मात्रम्
नदीजलमपि = नदी + जलम् + अपि
नैकस्मिन् = न + एकस्मिन्
भूकम्पस्सम्भवति = भूकम्पः + सम्भवति
तान्येव = तानि + एव
समासो-विग्रहो वा
पदानि = समासः / विग्रहः
योगक्षेमाभ्याम् = अप्राप्तस्य प्राप्तिः योगः प्राप्तस्य रक्षण क्षेमः ताभ्याम् इतियोगक्षेमाभ्याः
महान् विनाशम् = महाविनाशम्
प्रकृति-प्रत्ययोः विभाजनम्
पदानि = प्रकृतिः + प्रत्ययः
करणीयम् = कृ + अनीयर
निर्माय = नि + मृ + ल्यप्
पर्यायपदानि
पदानि = पर्यायाः
उपशमनस्य = शान्ते:
मानव: – नरः
न करणीयम् – अकरणीयम्
स्थले = थले, क्षत्रे
वामनकल्प = वामनसदृशः
निर्माय = निर्माणं कृत्वा
पुञ्जीकरणीयम् = संग्रहणीयम्
समक्षम् = अग्रे, पुरतः
वस्तुतः = यर्थाथ:
विपर्ययपदानि
पदानि = विपर्ययाः
स्थिरः = अस्थिरः
जलम् = अग्निः
सम्भवति = असम्भवति
उपायः = अनुपाय:
स्थले = जले
अशान्तानि = शान्तानि
करणीयम् = उपकरणीयम्
असन्तुलन = सन्तुलन
24 videos|77 docs|20 tests
|
1. भूकम्प क्या है? |
2. भूकम्प के कारण क्या होते हैं? |
3. भूकम्प के प्रमुख प्रकार क्या हैं? |
4. भूकम्प से कैसे बचा जा सकता है? |
5. भूकम्प के प्रभाव क्या हो सकते हैं? |
24 videos|77 docs|20 tests
|
|
Explore Courses for Class 10 exam
|